________________ आलोयणा 435 अमिधानराजेन्द्रः भाग 2 आलोयणा तिषु कदाचिदसमितोऽनेषणीयं वा भक्तं वा पान वा गृहीतं स्यादित्यादि | आलोचयेत् तथा।। संतमि विवलविरिए, तवोवहाणे यं जंन उज्जमियं। एसा विहारवियडण, वोत्थं उवसंपणाणंतं // सत्यपि विद्यमानेऽपि बलं शरीरप्राणः वीर्यमांतरीशक्ति-र्यद्वशात्तपः कुर्वन् शरीरस्यातिकृशतायामपि न संयमयोगेषु सीदति बलं च वीर्य च बलवीयं समाहारे द्वंद्वस्तस्मिन् तपसो द्विप्रभेदस्याऽपि उपधानं तस्मिन्नोद्यतं नोद्यमः कृतएतदपि आलोचयेत् / एषा विहारावकटना विहारालो चना / उपसंपदालोचनाऽपि प्राय एवंरूपा केवलं यन्नानात्वं तत्वक्ष्ये। व्य०।तत्रप्रथमत उपसंपदालोचनाया अप-राधालोचनायाश्च विहारालोचनया सह नानात्वं दर्शयति।। एगमणेगा दिवसेसु, होइ ओहे य पइविभागे य। उवसंपयावराहे, नायमनायं परिच्छंति।। उपसंपचापराधश्च उपसंपदपराधस्तस्मिन् आलोचनेति प्रस्तावात् गम्यते उपसंपदालोचना अपराधालोचना चेत्यर्थः / प्रत्येकं द्विधा (ओघे य) इत्यादि तृतीयार्थे सप्तमी / ओघेन पदविभागेन च तथा एकेकापि दिवसेषु चिंत्यमाना (एगमणेगा) इति पदैकदेशे पदसमुदायोपचारात्। एक दिवसिकी अनेकदिवसिकी चभवति। ओघालोचना एकदिवसिकी। विभागालोचनाएकदिवसिकी अनेकदिवसिकी चेत्यर्थः / / तदेवमुक्तमनानानात्वमधुनानात्वमुपदर्शयति। (नायमनायं परिच्छंति) उपसंपद्यमानो द्विविधो भवति। ज्ञातोऽज्ञातोवा। तत्र यदिज्ञातस्ततःस नपरीक्ष्यते तस्याग्रेऽपिज्ञातत्वात् अथाज्ञातस्तर्हिस आवश्यकादिभिः पदैः परीक्षणीय इति। संप्रति यदुक्तं विभागेन (अप्पसत्थे दिण) मित्यादि। तद्व्या-ख्यातुकाम आह॥ दियरातो उवसंपय, अवराहेदिवसतोपसत्थंमि। उव्वातो दिवसं, तिण्हंतु अतिक्कमे गुरुगा। विहारालोचनावत्। उपसंपदालोचनाऽपि विभागेन प्रशस्ते वा दिवसे रात्रौ वा दातव्या दोषाभावात् / तथा पूर्वसूरिभि रनुज्ञानात् / अपराधे अपराधविषये पुनरालोचनादिवसतो इति सप्तम्यन्तात् तदिवसे उपलक्षणमेतत् / रजन्यां वा प्रशस्ते विष्टि व्यती-पातादिदोषवर्जिते "व्याख्यानतो विशेष प्रतिपत्तिरिति" न्यायात् द्रव्यादिषु प्रशस्तेषु दातव्या नाऽप्रशस्तेषु एषा जिनाज्ञा। तथा उव्वातो तद्दिवसमितियस्मिन् दिवसे उपसंपद्यमान आगतः। तस्मिन् दिवसे यदि उद्वातपरिश्रांत इति कृत्वा न पृष्ठ आचार्येण ततः स आचार्यः शुद्धः / त्रयाणां तु दिवसानामतिक्रमे / किमुक्तं भवति / त्रिषु दिवसेषु मध्ये यदि न पृष्टस्ततश्चतुर्थे दिवसे तस्याऽपृच्छतः परिहारस्थानं गुरुकाश्चत्वारो गुरुमासाः। एतच्च उपरि व्याख्यास्यते॥ समणुन्नदुगनिमित्तं, उवसंपज्जेत्ते य होइ एमेव। अण्णमणुण्णेन वरं, विभागतो कारणे भइयं / / उपसंपद्यमानो द्विधा तद्यथा। समनोज्ञोऽसमनोज्ञश्चतत्र समनोज्ञस्य | समीपे समनोज्ञ उपसंपद्यमानो द्विकनि मित्तंउपसंप-द्यते।तथद्या ज्ञानार्थ दर्शनार्थच न चारित्रार्थं येन चरणं प्रति ससदृश एव समनुझे द्विकनिमित्त मुपसंपद्यमाने एवमव विहारालोचनेव भवत्यालोचना। इयमत्र भावना। समनोज्ञो द्विकनिमित्त मुपसंपद्यमान अलोचनां विहारालोचना मिव ओघेन ददाति / पदविभागेन च पदविभागेनालोचना / एकदिवसेन वा भवत्यनेकदिवसैर्वा / एवं समनोज्ञस्य उपसंपदालोचना (अण्णमणुण्णे) त्यादि अन्योनाम भिन्न संभोगिकः समनोज्ञोऽसंविनः सोज्ञोऽ समनोज्ञश्च उपसंपद्यमान स्त्रिक निमित्त मुपसंपद्यते / तद्यथा ज्ञानार्थ दर्शनार्थं चारित्रार्थ वा तस्मिश्च तथोपसंपद्यमाने पूर्ववदालोचनां विधिः। अत्रऽपीयं भावना अन्यो ऽसमनोज्ञो वा आलोचनां ददाति।ओघेन पदविभागेन च ददान एकदिवसेन वा ददाति / अनेक दिवसै वर्वा नवरमिति विशेषेएष पुनरत्र विशेषः / तस्याऽज्ञस्यासमनोज्ञस्य वा आलोचना उत्सर्गतो विभागतः सर्ववाक्यं साधारणमिति विभागत एव कारण पुनर्भजितं विकल्पितं वेलाप्राप्तौ विभागालोचना भवति सभ्रम सार्थादिषु पुनः कारणेषु तदप्राप्ताबोधेनालोचनेतिभावः / एषा भजना अपराधालोचनाया अपिद्रष्टव्या तथाहि। अपराधालोचना व्युत्सर्गतः पद विभागेन दातव्या अपवादकारणे पुनः संभ्रम सार्थादिलक्षणाओधेनापीति। संप्रति उच्यते। तद्दिव समिति व्याख्यातुकाम आह। पढमदिणविफाले,लहु विइए गुरुतइए लहुया। तेविय तम्हाकहणे, सुद्धमसुद्धोविमेहिंतु // यः स मनोज्ञ उपसंपदनार्थमागतस्तं यद्याचार्यः प्रथमदिवसमिति सप्तम्येर्थे द्वितीया प्रथमदिवसेन (विप्फालेइ) देशीवचनमेतत् पृच्छतीत्यर्थः उक्तंच' विप्फालनत्ति पुच्छणत्ति वा एगट्ठमिति,, यथा कुत आगत कुत्र वा गमिष्यसि / किं निमित्तं या समागत इति / ततस्तस्य दिवसे एव मविप्फालने परिहारस्थानं (लहुयत्ति) मासलधु द्वितीयेऽपि दिवसे यदि न पृच्छति ततो (गुरुत्ति) मास गुरु (तइएत्ति तृतीये दिवसेऽप्यपृच्छने (लहुया) इति चत्वारो लघुमासाचतुर्थेऽपि दिवसे यदि न पृच्छति / ततः (तिण्हं तु अइक्कमे गुरुगा) इति वचनाचतुर्गुरु पंचमादिषुदिवसेष्वप्रच्छने तदेव चतुर्गुरु (तिण्हंतु अइक्कमे) गुरुगा इति निरवधितया वचनप्रवृत्तेः / "तचियतस्साकहणे" इति तेच प्रायश्चित्तविशेषाः क्रमेण तस्याकथने। तद्यथा। स पृष्टः सन् यदि ब्रूते कथयिष्यामि न तु कथयति। तस्मिन् प्रथम-दिवसे अकथने मासलघु / द्वितीयदिवसेऽप्य कथयतो मासगुरु / तृतीयदिवसे चतुर्लघु चतुर्थदिवसेऽप्पकथयतश्चत्वारो गुरुमासाः / ततः परं पंचमादिष्वपिदिवसेष्व कथने तदेव चतुर्गुरु। इदानीं उदातोतदिवसमिति व्याख्याया अवसरः। तदिवसे प्रथमदिवसे उद्दवात इति कृत्वा न पृच्छति / तत आचार्यः प्रथमदिवसे अविस्फालेअपृच्छने (लहुयत्ति) लघु न दोषगुरुः शुद्ध इत्यर्थः / कारणवशेनापृच्छनात् द्वितीयदिवसे न पृच्छति मासगुरु तृतीयदिवसेऽप्यप्रश्ने चतुर्गुरु / एवं तेनोपसंपद्यमानेन पृष्ठेन वा यदव्याख्यातं भवति / तथाचाह // ननु केन कारणेन वा समागत इति। तत आगतश्चिंतनीयः (सुद्धमसुद्धोवत्ति) शुद्धोऽशुद्धो वा अत्र चत्वारो भंगास्तद्यथानिर्गमन-मप्यशुद्धमागमनमप्यशुद्धं निर्गमनमशुद्धमागमनं शुद्ध 2 निर्गमनं शुद्धमागमनमशुद्धं 3 निर्गमनमपि शुद्धमागमनमपि