________________ आलोयणा 440 अभिधानराजेन्द्रः भाग 2 आलोयणा सामागतस्तं प्रतीदं वक्तव्यं / अस्माकमाचार्यपरंपरात श्यं सामाचारी संज्ञाभूमिमात्रमपि न गंतव्यमेतच तव दुष्करमतोऽन्यत्र गच्छ तावदिति। यः पुनरनुबद्धवैरत्वेनागतस्तं प्रतीदं वक्तव्यं। मंडलीति। अस्माकमीदृशी सामाचारी यदवश्यं मंडल्यांसमुद्देष्टव्यं / यद्यपिचनपठतिन शृणोति वा तथापि सूत्रपौरुप्यांमंडल्यामुपविश्यार्थः श्रोतव्यः न कदाचनापि साधूनां स्वच्छंदत्वमेतच भवतोऽप्रतीतिकरं तस्मादन्यत्र गम्यतां / यस्त्वलसत्वेनागतस्तं प्रतीदं वाच्यं / (भिक्ख-वाहिराणं)। भिक्षाया बहिः प्रदेशादानयनं। किमुक्तं भवति।। अस्माकमत्र क्षेत्रे बहवो बालवृद्धाः सग्लानाः साधवः ते च भिक्षां न हिंडते / ततो यदि प्रतिदिवसं भिक्षां बहिः प्रदेशादानयसि ततस्तिष्ठ परमेतत् दुष्करं तव तस्मात् यत्र सुखेन तिष्ठसि तत्र याहि किमत्र क्लेशसहनेन यस्तु निर्द्धा उग्रदंडा आचार्या इति विनिर्गत-स्तंप्रतीदमुत्तरं (पच्छितत्ति) अस्माक मियं सामाचारीयदिदुः प्रमार्जनादिमात्रमपिकरोति। तदातत्कालमेवप्रायश्चित्तं यथोक्तं दीयते न कालक्षेपेण नापि पक्षपातादिना स्तोकहासेन यस्तु विकृतिलंपटोन मह्यं विकृतिमनुजानातीति विनिर्गतस्तं प्रतीयं वाग्यतना (अविउस्सग्गत्ति) अस्माकमप्ययं समाचार्यागमः।। अभ्युत्सर्गोनुत्कलनं विकृतेरिति व्याख्यानतो गम्यते। योगवाहिना अयोगवाहिना वा विकृतिर्न ग्राह्या इत्यर्थः / अत्राधिकरण प्रत्यनीकस्तब्ध लुब्धविषये यतनानोक्ता विचित्रत्वात् सूत्र-भाष्यगते सूत्राधिकरणे यतना यथाकल्पाध्ययने तथा दृष्टव्या। शेषविषयातुविनेयजनानुग्रहायाभिधीयते तत्र य प्रत्यनीकस्तत्र मे प्रत्यनीकोऽस्तीत्यागतः सभण्यतेममापि शिष्याः प्रतीच्छकाश्च ईषदपि प्रमादं न क्षमते मह्यं कथयति / अहं च दोषानुरूपं दंड प्रयच्छामि। अन्यथैकतरपक्षपातकरणतोगच्छमुद्राभंगः / सर्वज्ञाज्ञाविलोपश्च / तस्मादत्राऽपि तवदुष्करमिति नस्थातुमुचितं स्तब्धः पुनरेवं भण्यते। अस्मा कमियं सामाचारी-चंक्रमणादिकुर्वति गुराव भ्युत्थानं अनभ्युत्तिष्ठतः प्रायश्चित्त-दानमिति लुब्धं प्रत्येषा वाग्यतनाउत्कृष्टद्रव्याणिमोदकादीनि अस्माकं बालवृद्धालानप्राधूर्णिकेभ्यो दीयते। तदेव स्वच्छंदचारित्र प्रभृतीनां निवारणे वाग्यतनोक्ता यदि पुनरेते तथा निवारिता अपि न वक्ष्यमाणप्रकारेण प्रत्यावर्त्तते नापि निर्गच्छति येऽपि च विशुद्धनिर्गमाः प्रतीच्छिताः संतः सीदंतितेषां परिस्थापने यतनामाह (निग्गममुत्तस्स छण्णेण) यदा परिस्थापयितुमिष्यमामस्य स्वयं भिक्षादिनिमित्तं निर्गमो भवति / यदा रात्रौ निर्भद्रया सुप्तस्तदातं त्यक्तवा नष्टव्यं॥ कथमित्याह / / छन्नेनाप्रकटमल्पसागारिकं किमुक्तं भवति / ये अपरिणता बालादयो वा तत्र गच्छे तेषां न कथ्यते यथाऽमुमेवं त्यक्तवानष्टव्य मिति / मा रहस्यभेदं कार्युरिति कृत्वेति एष गाथार्थः / / सांप्रतमेनामेव गाथां विनेयजनानुग्रहाय विवृणोति। नत्थेयंमिज मिच्छसि, सुयं मया आमसंकियं तं तु। न य संकियं तु दिज्जइ, निस्संकसुए गवेस्साहि॥ यदिच्छसि शास्त्रं श्रोतुं तदेतत्मे मम पार्थेनास्ति। अथब्रूयात् / मयेदं श्रुतं यथाऽमुकं शास्त्रं भवद्भिः श्रुतमिति / तत्राह / आमं तत् शास्त्रं केवलमिदानीं शंकितं जातं नच शंकितं दीयते / तस्मान्निः शंकश्रुतान् गवेषय॥ (संघाडत्ति) मंडलीति च द्वारद्वयं व्याचिख्यासुराह॥ एगागिस्स न लब्भा, वियारादी विजयणसच्छंदे। . मोयणसुत्ते मंडली, पठमंते वा निओयंति॥ स्वच्छन्दे स्वच्छंदमती निवारणार्थमियं वाग्यतना अस्मा-कमेकाकिनः सतोविचारादावपि बहिर्भूम्यादावपि तन्न लभ्यं गन्तुमिति। अनुबद्धवैरे। इयं वाग्यतना। अस्मदीया मुनिवृषा भोजने सूत्रे उपलक्षणमेतत् अर्थे वा पठंतोऽपि मंडल्यां नियोजयंति / एतच तवदुष्करमिति / / अधुना "भिक्खवाहिराणयणं पच्छित्तविउस्सग्गे'' इति त्रीणि द्वाराणि व्याख्यानयति // अलसं भणंति वाहि,भिक्खंवहिंडसि अम्हएत्थबालादी। पच्छित्तं हाडहडं, अविउस्सग्गो तहा दिगई। अलसं प्रति भणंत्याचार्याः / अस्माकमत्र क्षेत्रे बहवो बालादयस्ते च भिक्षां न हिंडते ततो यदि बहिर्भिक्षां हिंडसे / तर्हि तिष्ठ अन्यथा व्रज स्थानांतरमिति / निर्माण प्रति पुनरिद वदति अस्माकं केऽपि दुःप्रमार्जनादौ कृते प्रायश्चित्तं हाडहडं देशीपद-मेतत् तत्कालमित्यर्थः / दीयते अन्यथा मूलत एव सामाचारी-विलोपप्रसक्तेः विकृतिलंपटं प्रति पुनरियं वाग्यतनायोगवाहिनो वाऽस्माकं गच्छे विकृतेरव्युत्सर्गोऽनुत्कलनं भवांश्च दुर्बलशरीरो-नवेक्षुरिव पानीयैर्विकृत्याऽल्पस्वभावास्तस्मादन्यत्र प्रयाहीति / / अत्र चोदक आह॥ तित्थ भवे मायमोसो, एवं तु भवे अणुज मं तस्स। वुत्तं च उजुभूते, सोही तेलोकदसीहिं॥ यदेतत् निर्गमनाशुद्धे उपायेन प्रतिषेधनमुक्तं तत्र कस्यचिन् मतिः स्यात् / एवं प्रतिषेधतो माया भवति / मृषावादश्च / तत्र यत् परिचिंतनं तन्मायाविद्यमानमापि श्रुतं नास्ति शंकित वा तिष्ठतित्यादि कुर्वाणस्य मृषावादः / एवं तु अमुना प्रकारे ण पुनर्माया मृषां कुर्वते भवेत् / तस्याऽनार्जवमनृ जुता मायातः कुटिलभावभावात् उक्तं पुनस्त्रैलोक्यदर्शिभिरिदं शोधिकल्पे ऋतुभूते सोहीउज्जुयस्सेत्यादेः प्रदेशांते श्रवणात् ततो नेदं माया मृषा भाषणमुचितमिति। अत्र सूरिः प्रत्युत्तरमाह॥ एसअगिते जयणा, गीते वि करेंति जुजई जंतु / / विद्देसकरं इह ए, मच्छरवि दोव फुडरुक्खो ||1|| एषा अनंतरोदिता वाग्यतना अगीते अगीतार्थे गीतेऽपि गीतार्थेऽपि निर्गमनाशुद्धे निवारणा क्रियते ! स्फुटाक्षरैर्यथा एवंभूतदोषात्त्वमत्रागत एवं भूतदोषश्च न सुविहितैः प्रतीच्छ्यते इति न चैवं भणितगीतार्थो हि सर्वामपि सामाचारीमवबुध्यते। अवबुध्यमानाश्च कथमप्रीतिं विद्वेष वा कुर्वतीति / / तथाचाह / / (करेंति जुजई जंतु) यत् अत्र युज्यते युक्तिमापतति तत् गीतार्थाः कुर्वति। ना प्रीत्यादिकमिति। इहरत्ति / इतरया यद्यगीतार्थेऽपि स्फुटरूक्षैर्निवारणा क्रियते। ततः स्फुटरूक्षे भाषिते सति स्फुटं नाम सद्भूतदोषोचारणं रूक्ष स्नेहोपदर्शन-रहितं यदि वा स्फुटमेव परस्य रूक्षतोत्पादनात् रूक्षं स्फुटरूक्षं तस्मिन् भा-षितेन तत् भाष्यमाणं वचस्तेषां विद्वेषकरं विद्वेषोत्पादकं भवति। अगीतार्थत्वात् चिंतयति च मत्सरभा-वेनैते सूत्रमर्थ वा न प्रयच्छंति / ततो मत्सरिण