SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आलोयणा 431 अभिधानराजेन्द्रः भाग 2 आलोयणा स्य निश्रया तत्पुरत इत्यर्थः / गौरवपरिवर्जितः ऋद्धिरसातगौरवपरित्यक्तो गौरवाद्धि सम्यगालोचयितव्यं न भवतीति तत्प्रतिषेधः गुरुसमीपे आलोचनाऽचार्यसमीपे आलोचनां प्रयुक्ते। कथमित्याह। विरहंमि दिसाभिग्गह, उत्कुडतो पंभलीनिसेजा वा। एस सपक्खे परपक्खे, मोतु च्छणंति सिज्जा वा // एकांते यत्र कोऽपि न तिष्ठति तत्र विरहे छन्ने प्रदेशे पूर्वं गुरोर्निषद्यां कृत्वा पूर्वामुत्तरां चरंति / कां वा दिशमभिगृह्य वंदनकं दत्वा उत्कुहकः प्रबद्धांजलिः अथासौ व्याधिमान् प्रभूतं वा लोचनीयं ततो निषद्यामनुज्ञाप्याऽलोचयति। एष सपक्षे आलोचनाविधिः। परपक्षे नाम संयती तत्र छन्नं मुक्वा आलोचना दातव्या निषधाचन कार्यते। इयमत्र भावना / यदा संयती संयतस्य पुरत आलोचयति तदाछन्नं वर्जयति किं तु यत्र लोकस्य संलोकस्तत्रालोचयति निषद्यां वाचार्यस्य न करोति॥ आत्मनाऽभ्युत्थिता आलोचयति। श्रमणीमधिकृत्याऽलोचनाविधिश्चतुष्कर्णत्वमाह॥ आलोयणं पउंजइ, गारवपरिवजिया उगणिणिए। एगतमणावाए, एगा एगाए निस्साए।। या श्रमणी गौरवपरिवर्जिता गणिन्याः पुरत आलोचनां प्रयुक्त / केत्याह। एकांते अनायाते एका अद्वितीया एकस्या अद्वितीयाया गणिन्या निश्रया ततो गुरुसमीपे श्रमणस्येव श्रमण्या अपि गणिन्याः पुरतः आलोचयंत्याश्चतुष्कर्णा पर्षद् भवति / / षट्कर्णामाह।। आलोयणं पउंजइ, एगंते बहुजनस्स संलोए। अचितियथेरगुणो, सवियईया भिक्खुणि निहुया / / अद्वितीयस्थविरगुरुसमीपे सद्वितीया भिक्षुकी निभृता नियापारा न दिशो नापि विदिशः आलोकयति नापि यत्किंचि-दुल्लापयति इत्यर्थः। / एवं भूता सती एकांते बहुजनस्य संलोके आलोचनां प्रयुक्ते // अथी कीदृशी तस्या द्वितीया भवतीत्यत आह / / नाणदंसणसंपन्ना, पोढा वयसपरिणया। इंगियागारसंपन्ना, भणिया तीसेवि इजिया। ज्ञानदर्शनसंपन्ना प्रौढा समर्था या संयतस्य तस्या वाभावं विज्ञाय न मंत्रणं कर्तुं ददाति किंतु वदति यद्यालोचित तर्हि व्रजामो नोचेदालोचनयापि न प्रयोजनमिति / यथा वयसा परिणता परिणतवयास्तथा इंगिताकारसंपन्ना इगितेनाकारेण च यस्य यादृशो भावस्तस्य तं जानातीत्यर्थः एवं भूता सा तस्या द्वितीया गणिन्या सा पुनः कियदूरे तिष्ठति / उच्यते। एके सूरयो वदंति यत्रोभयोराकारा दृश्यतेतावन्मात्रे परे ब्रुवते यत्र श्रवणं शब्दस्येति // अष्टकर्णामाह॥ आलोयणं पउंजइ, एगंते बहुजणस्स संलोए। सचित्तियतरुणगुरुणो, सचिइया भिक्खुणि निहुया।। एकांते बहुजनस्य संलोके सद्वितीयस्य तरुणगुरोः समीपे सद्वितीया तादृशी प्रागुक्ता / / संप्रति यादृशस्य आचार्यस्य द्वितीयस्तादृशमाह / / नाणेण दंसणेण य, चरित्ततवविणयआलयगुणेहिं। वयपरिणामण य, अभिगमेण इयरो हवइ जुत्तो।। ज्ञानेन दर्शनेन चारित्रेण तपसा विनयेन आलयगुणैर्बहिश्चेष्टाभिः प्रतिलेखनादिभिरुपशमगुणेन च यथा वयःपरिणामेन अभिगमन सम्यक् शास्त्रार्थकौशलेन युक्तो भवत्याचार्यस्येतरो द्वितीयाः॥ः / / सशल्यमालोचयितव्यम्। ओघनिर्युक्तौ // गंतूण गुरुसगासं, काउण य अंजलिं विनयमूलं / पव्वेण अत्तसोही, कायव्वा एसओ उवएसो ||19|| सुगमा // न हु सुज्झइ सस्सल्लो, जह भणियं सासणे धुवरयाणं / उद्धरिय सव्वसल्लो, सुजइ जावो धुअकिलेसो // 20 // नहु चैव शुद्ध्यति सशल्यः पुरुषः कथं पुनः शुद्ध्यते / यथा भणितं धुतरजसाशासने तथा शुद्ध्यते।कथं पुनः शुद्ध्यति अत आह। उद्धृतः सर्वशल्यो जीवः शुध्यति धुतक्लेश इति / तस्माद्यद्यपि कथमपि किंचिदकार्य कृतं ततस्तदालोचयितव्यं। कथं पुनस्तत्कृतं भवतीत्यत आह // सहसा अन्नाणेण व,भीएण व पेल्लिएणव। कपंवसणे णायं, केण व मूढेण वा रागदोसेहिं / / 21 / / सहसा अप्रतर्कि तमेव प्राणिवधादिकर्म कार्य यदि कृतं ततस्तस्मात्प्रतिक्रमितव्यमित्येतद्वितीयगाथायां वक्ष्यते। अज्ञानेनच कृतं न तत्र प्राणिज्ञातां व्यापादितस्य भीतेन तेन आत्मभयात् माभूदयं मां मारयिष्यतीत्यह आह / प्राणिव्यपरोपणं यदि कृतं प्रेरितेन वा परेण यदि कृतं व्यसनेन वा आपदा यदि कृतं आतंकेन ज्वराद्युपसर्गेण यदि कृतं मूढेन वा राग द्वेषैर्यदि कृतं किंचिदकार्य ततः।।। जं किंचि कयमकचं,नहु तं लब्भापुणो समायरियं / तस्स परिक्कमियव्वं, न हुतं हियएण वोढव्वं / / 2 / / यत्किंचित्कृतमकार्यतत्पुनर्न हुनैव समाचरितुंलब्धं उपलभ्यते / यथा तथा प्रतिक्रमितव्यं / एतदुक्तं भवति! किंचिदकार्य कृत्या पुनर्यथा तत्रैव भवति नैव क्रियते तथा तस्य प्रतिक्रमितव्यं नतुतदकार्य हृदयेनवोढव्वं सर्वमालोच-यितव्यमित्यर्थः।। कथं पुनस्तदालोचयितव्यमित्यत आह|| जह बालोजपंतो, कञ्जमकजं च उजुयं भणइ। तंतह आलोएज्जा, मायामयविप्पमुक्कोओ ||23!! सुगमा // तस्स य पायच्छित्त, जं मग्गविऊ गुरु वउवइसंति। तं तह आयरियव्वं, अणवच्छपसंगभीएणं ||24|| तस्य च साधोर्यत्प्रायश्चित्तं मार्गविदो गुरव उपदिशति / तत्प्रायश्चित्तं तेनैव विधिना आचरितव्यं कथमनवस्थाप्रसंगभीतेन सता आचरितव्यं अनवस्था नाम यद्यकार्यसमाचरणात्प्रायश्चित्तं न कृतं तदा अन्येऽपि न समाचरिष्यन्ति। न वितं सत्थं विसं, वदुप्पउत्तो य कुणइ वेयालो। जंतं व दुप्पउत्तं, सप्पो य पमाइणो कुद्धो // 25| नतत्करोति दुःखं शस्त्रं नापि विषं नाऽपि दुः प्रयुक्तो दुःसाधि-तवेतालः यत्रं वा दुःप्रयुक्तं सो वा क्रुद्धः प्रमादिनः पुरुषस्य दुःखं करोति॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy