________________ आरम्भ 397 अभिधानराजेन्द्रः भाग 2 आरम्भ भावनादिभिः प्रेरयन् तत्प्रेरणं च सम्यक् सहनं न तत् कृतया दुःखासिकयात्मानं भावयेदिति यावत् योहि सम्यक्करणतवा परीषहान् सहेत स किं गुणः स्यादित्याह एस इत्यादि एषोऽनंतरोक्तो यः परीषहानां प्रणोदकः समिया सम्यक्शमिता वा शमोऽस्यास्तीति शमी तद्भावः शमिता पर्यायः प्रव्रज्या सम्यक्शमितयावा पर्यायः प्रवज्यास्योति विगृह्य बहुव्रीहिः स सम्यक् प्रायः शमिता पर्यायो वा व्याख्यातो नापर इति तदेव परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह जे असत्ता इत्यादि, ये अपाकृतप्रदनतयासमतृणमणिलेष्टकांचनाः समतापन्नाः पापेषु कर्मस्वसक्ताः पापाषादानानुष्ठानरता उदाहु कदाचित्तांस्तयाभूतान् साधून आतका आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः स्पृशंत्यभिभवंति पीडयन्ति यदि नाभैवं ततः किमित्याह इति उदाहु इत्यादि इत्येतद्वक्ष्य माणमुदाहृतवान् व्याकृतवान् कोऽसौ धीरो धीर्बुद्विस्तया राजते स च तीर्थकृत गणधरो वा किंतदुदाहृतवास्तै रातकै स्पृष्ठः सन्तान् स्पर्शान् दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत् सहेत किमाकलय्येत्याह से पुव्व इत्यादि स स्पृष्टः पीडित आशु जीवितापहारिभिरातंकैरेतद्भावयेद्यथा पूर्वमप्येतदसातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं पश्चादप्येतन् मयैव सहनीयं यतः संसारोदरविवरवर्ती न विद्यत एवासौ यस्यासातवेदनीयवि पाकापादितारोगातका न भवेयुस्तथाहि केवलिनोऽपि मोहनीयादिघातिचतुष्टयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भवं इति यतश्च तीर्थकरैरप्येतद्द्धस्पृष्टनिध-त्तिनिकाचनावस्थायातं कम्मविश्यवेद्य नान्यथा तन्मोक्षोऽ-तोनेनाप्पसातावेदनीयोदये सन्तकुमारद्रष्टांतेन मयैवैत-त्सोढव्यमित्याकलय्य नोद्विजितव्थमित्युक्तंच 'स्वकृतपरिणतानां दुर्नयानांविपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य / / स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो भवशतगतिहेतु-र्जायतेऽनिच्छतस्ते" अपि चैतदौदारिकं शरीरं सुचिरमप्यौषध-रसायनाधुपबंहितं मूण्मयामघटादपि निस्सारतरं सर्वथा सदा विशराबिति दशयन्नाह / भेउरधम्म इत्यादि यदि वा पूर्व पश्चादप्येतदौदारिकं शरीरं वदयमाणधर्मस्वभावमित्याह / भेदुरधम्मामित्यादि स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरिस्येति भिदुरधर्म इदमौदारिकं शरीर सुपोषितमपि वेदनीयोदयाच्छिरोऽक्ष्युरः प्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरंतं विध्वंसयन धर्मं पाणिपादाद्यवयवविध्वंसनात् तथावश्यं भावितं त्रियामांते सूर्योदयवत् ध्रुव न तथाऽधुवं तथा प्रच्युतानुत्पन्नास्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैव यत्तदनित्यमिति तथा तेन तेन रूपेणोदकधारावत् शस्वद्भवतीति शास्वतं ततोऽन्यदशास्वतं तथेष्टाहारोपभोगतया धृत्युपट्ठभादौदारिकशरीरवर्गणापरमाणूपचयाचयरस्तदभावेनतद्विघटनादपचयः चयापचयौविद्येते यस्य तचयापचयिक मतएव विधिपरिणामोऽन्यथाभावात्मको धर्मः स्वभावो यस्य तद्रिपरिणामधर्म यतश्चेवं भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबंधः का मूर्छनास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह पासह इत्यादि पश्यतैनं पूर्वोक्तं रूपं सधिभिदुरधर्माद्याघ्रातौदारिकं पंचेन्द्रिय निर्वृत्तिलाभावसरात्मकं दृष्ट्वा च विविधातंकजनितानस्पर्शामध्यासयेदितिएतत्पश्यतश्च यत्स्या-त्तदाह। समुवे इत्यादिसम्यगुत्प्रेक्ष्यमाणस्य पश्यतोऽनित्यता-घ्रातमिदं शरीरक मित्येवमवधारयतो नास्ति मार्ग इति संबंधः / किंच आङ् अभिविधी समस्तपापारंभेभ्य आत्मा आयत्यते आनियम्यतेतस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनं ज्ञानादित्रयमेकमद्वितीयमायतनमेकायतनंतत्र रतस्य किंच इह शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात्प्रमुक्तो विप्रमुक्तस्तस्य नास्ति न विद्यते कोऽसौ मार्गो नरकतिर्यङ्-मनुष्यगमनपद्धति वर्तमानसामीप्ये वर्तमानदर्शनान्न भविष्यतीतिनास्तीत्युक्तं यदिवा तस्मिन्नेव जन्मनि समस्तकर्मक्षयोपपत्तेनास्ति नरकादिमार्गः कस्येति दर्शयति विरतस्य हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य इत्यधिकारपरिसमाप्तौ ब्रवीमीति सुधर्मस्वाम्यात्मानमाह। यद्भगवता वीर-वर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि न स्वमतिविरचननेति॥ आरम्भोपरमणं च सोभनं तथा चाचाराङ्गे।। जस्स णत्थिपुरे पच्छा मज्झे तस्स कुतो सिया / से हु पण्णाणमते बुद्धे, आरंभोवरए सममेयं ति // पासह जेण वंधं वहं धोरं परितावं च दारुणं / परिच्छिंदिय बाहिरगं च सोयं / / जस्स नत्थि इत्यादि, यस्य भोगविपाकवेदिनः पूर्वमुक्तानुस्मृति स्ति नापि पाश्चात्यकालभोगाभिलाषिता विद्यते तस्य व्याधि विचिकित्सारूपान् भोगान् भावयतो मध्ये वर्तमानकाले कुतो भोगेच्छा स्यात् मोहनीयस्योपशमान्नैव स्यादित्यर्थः यस्य तु त्रिकालविषया भोगेच्छा निवृता स किंभूतः स्यादित्याह / से हुश्त्यादि हुयस्मादर्थे य स्मानिवृतभोगाभिलाषस्तस्मात्स प्रज्ञानवान् प्रकृष्ट ज्ञानं जीवाजीवादिपरिच्छेतृतद्विद्यते यस्यासौ प्रज्ञानवान् यत एव प्रज्ञानवानत एव बुद्धोऽवगततत्वः यत एवंभूतोऽत एवाह आरभोवरए सावधानुष्ठानमारंभस्तस्मादुपरत आरंभोपरतः एतचारंभोपरमणं शोभनमित्ति दर्शयन्नाह सममित्यादियदिदंसावद्यारम्भोपरमणं सम्यगेतच्छोजनमेतत्सम्यक्त्व काय त्वाद्वा सम्यकत्वमेतदित्येवं पश्यत एवंगृहीत यूयमिति कि मित्यारंभोपरमणं सम्यगिति चेदाह जेण त्यिादि येन कारणेन सावधारंभप्रवृतो बंधं निगडादिभिर्वधं कसादिभिर्धारं प्राणसंशयरूपं परितापं शारीरमानसं दारुणमसह्यमवाप्रोत्य त आरम्भोपरमणं सम्यक्भूतं कुर्यात् किंकत्वेत्याह पलिछिंदि इत्यादि परिछिंद्या पनीय किं तच्छोतं पापोपादानं तच्चबाह्यं धनदान्यहि रण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं च शब्दान्तरं च रागद्वेषात्मकं विषयपिपासारूपं चेति / तथाच महानिशीथे 2 प्र! अत्थेगे गोयमा? पाणी जेणो वयइ परिग्गहं जावइयं गोयमा तस्स सचित्ताचित्तभेयत्तंग, पभूयं वाणुजीवस्स मवेडा उपरिग्गह। तावइण्णं तु सोपाणि ससंगो मुक्ख-साहाणं जाणात्तिगं ण आराहे तम्हा व परिम्गहं अत्थेगे गोयमा पाणि जे पयहे ताए परिग्गहं आरंभ न विवेजेजा जंपियं भवपरंपरा आरंभे पत्थियस्सेगवियलजीवस्य वइययरे संघट्टणा इयं कम्म बद्धं गोयमा? सुण एगे वेइंदिए जीवे एणं समयं अणिच्छमाणे