SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आयारसमाहि 389 अभिधानराजेन्द्रः भाग 2 आयाराणुओग आचरणमाचारोऽनुष्ठानं तद्विषया स एव वा सम्पद्विभूतिस्तस्य वा सम्पत्सम्पत्तिप्राप्तिराचारसम्पत्। एवमग्रेऽपि व्युत्पत्यर्थो भावनीयः।। सा चतुर्धा यथा॥ चरणजओमयरहिओ, अनिययवित्ती अचंचलोचवत्ति चरणयुतो मदरहितोनियतवृत्तिरचंचलश्चेति तत्र चरणं चारित्रं व्रतश्रमणधर्मेत्यादि सप्ततिस्थानरूपं तेनयुतो युक्तश्चरणयुतः। अन्यत्र तु संयमधुवयोयुक्ततेत्येवमिदं पठ्यते / तत्राप्ययमेव परमार्थों यतः संयमश्चारित्रं तस्मिन् ध्रुवोनित्यो योगः समाधिस्तेन युक्तता तत्र सततोपयुक्ततेत्यर्थः / तथा मदैर्जातिकुलतपः श्रुताधुगवै-रहितो मदरहितो ग्रन्थान्तरे तु असम्प्रग्रह इति पठ्यते। तत्राऽपि सएवार्थो यतः समन्तात्प्रकर्षेण जातिः श्रुततपोरूपादिप्रत्कृष्टतालक्षणेनाऽत्मनो ग्रहणमहमेवं जातिमानित्यादि-रूपेणावधारणं सम्प्रग्रहोन तथाऽसम्प्रग्रहो जात्याद्यनुत्सि-क्तत्वमित्यर्थः। अनियतवृत्तिःग्रामादिष्वनियतविहारस्वरूपता / तथाऽचंचलो वशीकृतेन्द्रियोऽन्यत्र तु वृद्धशीलतेत्येवं पाठ्यते / तत्र वृद्धशीलता वपुषि मनसिच कामिनीमनोमोहने वयसि वर्तमानस्याऽपि निभृतस्वभावता निर्विकारतेति यावत् यतो।। मनसि रजसाभिभूता जायंते यौवनेऽपि विद्वांसः / / मूढधियः पुनरितरे भवंति वृद्धत्वभावेऽपि प्रव०६४ द्वा० // 2 // तत्राचारश्चतुर्विध स्तद्यथा चरणकरणगुप्तता१मदोह-कारस्तद्रहितता 2 द्रव्यक्षेत्रकालादिष्टनियतवृत्तिता 3 गत्याद्यचपलता दश ||4|| आयारसत्य-न (आचारशास्त्र) आचाराङ्गे आचा० अशा आचारशास्त्र सु विनिश्चितं यथा, जगाद वीरो जगते हिताय यः॥ तथाच किञ्चिद्गदतः समेऽधुना, पुनातु धीमान् विनयार्पिता गिरः // 2 // आयारसमाहि-पु. (आचारसमाधि) समाधि भेदे आचार-समाधिमाह। दश वैकालिके अ०९:०४ चउविहाखलु आयारसमाही भवइतंजहां नो इह लोगट्ठयाए आयारमहिडिजाइनो परलोगट्ठयाए आयारमहिट्ठिजा 2 नो कित्तिवन्नसद्दसि लोगट्ठयाए आयरमहिट्ठिजा 3 अन्नत्थ अरिहंतेहिं हेऊहिं आयारमहिडेजा 4 चउत्थं पयं भवइ, भवइ त्थि सिलोगो ||10|| चतुर्विधः खल्वाचारसमाधिर्भवति तद्यथेत्युदाहरणोपन्यासार्थः / नेह लोकार्थमित्यादि आचाराभिधानभेदेन पूर्ववत् यावन्नान्यत्रार्हते रर्हत्सम्बन्धिभिर्हेतुभिरनाश्रवत्वादिनिराचारं मूलगुणोत्तरगुणमयमधितिष्ठेत् / निरीहस्सन्यथामोक्ष एव भवतीति चतुर्थपदं भवतीति। भवति चात्र श्लोक इति पूर्ववत् सचाय।। जिणवयणरए अतिंतणो, पडिपुन्नावयमाययहिए। आयासमाहिसंवुडे, भवइय दंते भावसन्धए। व्या. जिनवचनरतः आगमे सक्तः (अतिंतिनः) नसकृत्किञ्चिदुक्तः सन् असूयया भूयो 2 वक्ता / प्रतिपूर्णः सूत्रादिना / आयतमायतार्थिक इत्यत्यन्तं मोक्षार्थी। आचारसमाधि संवृत्तः इत्याचारे यः समाधिः तेन स्थगिताश्रवद्वारः स भवति / दांत इन्द्रियनो इन्द्रियदमाभ्यां।। भावसन्धकोभावोमोक्षस्तत्सन्धकः / आत्मनो मोक्षासन्नकारीतिसूत्रार्थः अयारसुय-न. (आचारश्रुत) आचारश्च श्रुतं च आचारश्रुतं द्वन्द्वैकद्भावः। आचारश्रुतसमाहारे। सूत्रकृतांगद्वितीयश्रुतस्कन्धस्य पञ्चमेऽध्ययने च सूत्र 2 श्रु५ अ॥ साम्प्रतंपञ्चममध्ययनमारभ्यते। अस्य चायममिसम्बन्धः। इहानन्तराधयने प्रत्याख्यानक्रियोक्ता साचाचारसंव्यवस्थितस्यसतोभवतीत्यतस्तदनन्तरमाचारभुताध्ययनमभिधीयते। यदि वा नाचारपरिवर्जनेन सम्यक्प्रत्याख्यानमस्खलितं भवतीत्य तोनाचारश्रुताध्ययनमभिधीयते / यदिवा प्रत्याख्या नयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियानन्तरमाचारश्रुताध्ययनं / तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेनसम्बन्धेनाऽऽयातस्यास्याऽध्ययनस्योपकमादीनिचत्वार्यनुयोगद्वाराणि भवंति। तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं तद्यथा अनाचारं प्रतिषिध्य साधूनामाचारः प्रतिपाद्यते। नामनिष्पन्ने तु निक्षेपे आचारश्रुतमिति द्विपदं नाम तदन-योनिक्षेपार्थ नियुक्तिकृदा है। णामं ठवणा दविए, दवे भावे य होंति नायव्वा॥ एमेवय सुत्तस्स, णिक्खेवो चउव्विहो होत्ति ||1|| णामंठवणेत्यदि। तत्राचारो नाम स्थापना द्रव्यभावभेद-भिन्नश्चतुर्धा द्रष्टव्यः / एवं श्रुतमपीति। तत्राचारश्रुतयोरन्यत्राभिहितयोलाघवार्थमतिदेशं कुर्वन्नाह॥ आयारसुयं भणियं, वजेयव्वा सया अणायारा। अबहुस्सुयस्स होला, विरहेणा इत्थ जइयव्वे |शा आचारसुयमित्यादि। आचारश्च श्रुतंच आचारश्रुतं। द्वन्द्वैकवद्भावस्तदुभयमापि भणितमुक्तं। तत्राचारः क्षुल्लिका-चारकथायामभिहितः श्रुतं तु विनयश्रुते। भावार्थस्तु वर्जयितव्याः परिहार्याः सदा सर्वकालं यावजीवं साधु-रनाचारास्ता-श्वांबहुश्रुतोऽगीतार्थोन सम्यक् जानातीत्यतस्तस्य विराधना भवेत् / बहुशब्दोऽवधारणे बहुश्रुतस्यैव विराधना न गीतार्थस्येत्यतोऽत्र सदाचारे तत्परिज्ञानेच यतितव्यं / तताहि। मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोषैर्युज्यते / एवमनाचारंवर्जयन्नाचारवान् भवति नचाना-चारदोषयुज्यत इत्यतस्तअनिषेधार्थमाह // एयस्स पडिसेहो, इहमज्झयणमि होत्ति नायव्वा / / तोअणगारयं इयि, होई नामं तु एयस्स ॥शा (एयस्स इत्यादि) एतस्याऽनाचारस्य सर्वदोषास्पदस्य दुर्गतिगमनैकहेतोः प्रतिषेधो निराकरणं सदाचारप्रतिपत्यर्थ-मिहाध्ययने ज्ञातव्यः सच परमार्थतोऽनगारकारणमिति। ततः। केषांचिन्मतेनैतस्याव्ययनस्यानगारश्रुतमित्येतन्नाम भवतीति। आयारसुयखंध-पु. (आचारश्रुतस्कंध) आचारांगस्य नवब्रह्मचर्याध्ययनामक आचारश्रुतस्कन्ध इति। आचारङ्गार्द्ध आचा० श्रु द्वि. अ. 1 आयारणुओग-पु. (आचारानुयोग) आचारस्यानुयोगोऽनुयोगः सूत्राध्ययनात्पश्चादर्थकथनम्। आचाराङ्गस्यार्थकथने आचारा-ङ्गस्य सूत्राध्ययनात्यपश्चादर्थकथने च आया द्वि.श्रु अ०११
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy