SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ आयारपणिहि 386 अमिधानराजेन्द्रः भाग 2 आयारपणिहि तथा च दशवैकालिके॥ व्याख्यातं वाक्यशुद्ध्यध्ययनमिदानीमाचारप्रणिधानाख्य मारभते / अस्य चाऽयमभिसम्बन्धः / इहानतराध्ययने साधुना वचनदोषगुणाभिशेन निरवद्यवचसा वक्तव्यमित्ये तदुक्तं इह तु तुं निरवद्य वच आचारे प्रणिहितस्य भवतीति। तत्र यत्नवता भवितव्यमित्येतदुच्यते। उक्तं च // पणिहाणरहिअस्सेह, निरवजं पि भासियं / सावज्जतुल्लं विनेयं, अज्झूत्थेणेहसम्बुडं // इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनं अस्य चाऽनुयो द्वारो-पन्यासः पूर्वक्त्तावद्यावन्नाम निष्पन्नो निक्षेपस्तत्र चा चार-प्रणिधिरिति द्विपदं नाम // साम्प्रतं सूत्राऽलापकनिष्पन्नस्याऽवसर इत्यादि वचः पूर्ववत्तावद्यावत्सूत्राऽनुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयंतचेदं। आयारपणिहिं लद्धं, जहा कायव्व भिक्खुणा। तम्भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे ॥शा अस्य व्याख्या। आचारप्रणिधिमुक्तलक्षणं लब्ध्वा प्राप्य येन प्रकारेण कर्तव्यं विहिताऽनुष्ठानं भिक्षुणा साधुना तं प्रकारं तेन भवद्भ्य उदाहरिष्यामि कथयिष्यामि / आनुपूर्व्या परिपाट्या शृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति सूत्रार्थः / / तं प्रकारमाह।। पुढविदगअगणिमारुय, तणरुरकस्स बीयगा। त्तस्सा य पामा जीवंति, इह वुत्तं महेसिणा |2|| व्याख्या। पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चकेन्द्रियकायाः पूर्ववत् त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा वर्द्धमानेन गौतमेन वेति सूत्रार्थः॥ तेसिं अत्थणजोएणं, निचं हो अव्वयं सिया। मणसा कायवक्केणं, एवं हवइ संजए / / 3 / / यतश्चैवमतस्तेषां पृथिव्यादीनामक्षणयोगेनाहिंसाव्यापारेण नित्यं भवितव्यं वर्तितव्यं स्याद्भिक्षुणा मनसा कायेन वाक्ये न त्रिभिः कारणैरित्यर्थः / एवं वर्तमानोऽहिंसकः सन् भवति संयतो नान्यच्छेति सूत्रार्थः। एवं सामान्येन षड्जीवनिकायहिंसया संयतत्वमभिधायाधुना तद्गतविधिंविधानतो विशेषेणाऽऽह // पुढविं भित्तिं सिलिं लेलु, नेवमिदं न संलिह / / तिविहेण करणजोएण, संजए सुसमाहिए ||1|| व्या०॥ पृथिवीं शुद्धां भित्तिं तटीं शिला पाषाणात्मिकां लेष्ठ, मिट्टालखंड नैव भिंद्यात् न संलिखेत् / तत्र भेदनं द्वैधीभावोत्पादनं संलेखनमीषल्लेकनं त्रिविधेन त्रिकरणयोगेन न करोति मनसेत्यादिना संयतस्साधुस्सुसमाहितः शुद्धभाव इति गाथार्थः / / सुद्धपुढविंन निसीए, ससरक्खंमिअ आसणे॥ पम जित्तु निसीइज्जा, जाइत्ता जस्स उग्गहं / / 5 / / शुद्धपृथिव्यामशत्रोपहतायामनन्तरितायां न निषीदेत् / तथा रजस्के | वा पृथिवीरजोवगुण्डिते वा आसने पीठिकादौ न निषी-देत् / निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः / अचेतनायां तु प्रमृज्य तां / रजोहरणेन निषीदेत् ज्ञात्वेत्यचेतना ज्ञात्वा याचयित्वाऽवग्रहमिति यस्य सबन्धिनी पृथिवी तमनु-ग्रहमनुज्ञाप्येति सूत्रार्थः / / उक्तः पृथिवीकायविधिरप्कायविधिमाह। सीओदगं नसेविजा, सिलावुलु हिमाणि अ॥ उसिणोदगं तत्तफासुअंपडिगाहिज संजए||६|| शीतोदकं पृथिव्युद्भवसचित्तोदकं न सेवेता तथा शिलावृष्टं हिमानिचन सेवेत / तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते / वृष्ट वर्षणं / हिमं प्रतीतं प्राय उत्तरापथे भवति यद्येवं कथमयं वर्तेतेत्याह उष्णोदकं क्वथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्धृतमुष्णोदकमात्रं प्रतिगृण्हीयादृत्यर्थ संयतस्साधुः / एतच सौवीराद्युपलक्षणमिति सूत्रार्थः / तथा॥ उदउल्लं अप्पणो कार्य, नेव पुंछे न संलिहे / / समुप्पेह तहा भूअं, नो णं संघट्टए मुणी / / 7 / / नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहत उदकामुदकबिंदु-चितमात्मनः कायं शरीरं स्निग्धं वा नैव पुञ्छयेत् / वस्त्रतृणादिभिर्नव संलिखेत् / पाणिना अपि तु संप्रेक्ष्य निरीक्ष्य तथा भूतमुदकादिरूपं नैवं कार्य संघट्टयेत् मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः / उक्तो ऽप्कायविधिस्तेजस्कायविधिमाह / / अंगालं अगणि अचिं, अलायं वा सजोइ।। उंजिज्जा न घट्टिजा, नो णं निव्वावए मुणी / / 8 / / अंगारं ज्वालारहितं अग्रि मयः पिण्डानुगतमर्चिश्छिन्नज्वालंअलातचोल्मुकंवा सज्योतिस्साग्निकमित्यर्थः / किमि-त्याहा नोत्सिचेत् न घट्टयेत् तत्रों जनमुत्सेचनं प्रदीपादेर्घट्टनं मिथश्चालन तथा नैनमग्न निर्वापयेत् अभावमापादयेन्मुनि-स्साधुरितिसूत्रार्थः / / प्रतिपादितस्तेजस्कायविधिर्वायुकायविधिमाह // तालविंटेण पत्तेण, साहाए विहुणेण वा। नवीइज्ज अप्पणोकायं,बाहिरं वावि पुग्गले ||1|| तालवृंतेन व्यजनविशेषेण पत्त्रेण पद्मिनीपत्रादिना शाखयावृक्षडालरूपया विधूननेन वा / किमित्याह / न वीजयेत् आत्मनः कायं स्वशरीरमित्यर्थः / बाह्य वाऽपि पुद्गल-मुष्णोदकादीति सूत्रार्थः / / प्रतिपादितो वायुकायविधिर्वनस्पतिकायविधिमाह / / तणरुक्खं न छिंदिजा, फलं मूलं च कस्सई। आमगं विविहं बीअं,मणसावि व पत्थए / / 10 / / तृणवृक्षमित्येकवद्भावः तृणानि दर्भादीनि वृक्षाः कदम्बादयः एतान्न छिंद्यात्। फलं मूलं वा कस्यचिद्वृक्षादेर्नछिंद्यात्। तथा आगमशास्त्रोपहतं विधमनेकप्रकारं बीजं मनसाऽपि न प्रार्थयेत् किमुताश्रीयादिति सूत्रार्थः॥ तथा। गहणेसुन चिट्ठिज्जा, बीएसु हरिएसु वा। उदगंमितहा निचं, उत्तिंगपमगेसु वा ||1|| गहनेषु वननिकु जेषु न तिष्ठेत् संघट्टनादि दोषप्रसङ्गात्तथा बीजेषु प्रसारिताशाल्यादिषु हरितेषु वा दूर्वादिषु न तिष्ठेत् / उदके तथा नित्यं अत्रोदक मनन्तवनस्पतिविशेषः / यथोक्तं "उदए अवए पणए" इत्यादि। उदक मेवान्ये / तत्र नियमतो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy