________________ आयारपकप्प 384 अभिधानराजेन्द्रः भाग 2 आयारपकप्प तस्माद्व्यवहारे अर्थनिर्देशं कुर्वता सूत्रमवश्यमुचारणीयं। यथा इदं सूत्रं | तस्मादयमेवात्र व्यवहारस्ततः प्रत्ययो भवति तेन स गणधारी उभयपरोऽनुज्ञातः॥ असती कजोगी पुम, अत्थेयं तं किमप्पतिधारेउं / / जुण्णमहल्लो सुत्तं, न तरति पचुक्यारेउं ॥शा उभयधरस्य असत्यभावे यः कृतयोगी नाम यः पूर्वमुभयधर आसीत्। तदानीं सोऽर्थे समागच्छति गणं धारयितुं कल्पते। अथ केन कारणेन तस्य सूत्रमानशत् अत आह! (जुण्णं महल्लो) इत्यादि जीर्णो नामैको नो महान् यस्तरुणक एव सन् जरसा परिणतो जातः नो जीर्णो महानिति द्वितीयः। यो बृद्धोऽपि सन् दृढशरीरः जीर्णोऽपिच तृतीयः।नो जीर्णो नो महानिति चतुर्थः / एष शून्यशेषाणां तु त्रयाणामेकतरो न शक्नोति प्रत्युज्ज्वालयितुमतः सूत्रं तस्य नश्यति।। उभयधरंमि उ सीसे, विजंते धारणा उ इच्छाए। मा परिभवनयाणं वा, गच्छेवअणिच्छमाणंमि ||1|| उभयधरे सूत्रार्थधरे शिष्ये विद्यमाने स्वयं गणस्यधारणा इच्छया स्वयं वा गणं धारयति तस्य वा शिष्यस्योभयधरस्य ददाति सह गणस्य शिष्यस्य वा भावं जानाति। यदि शिष्यस्य गणं दास्यामि तत एते मम परिभवं करिष्यति / अथवा मांत्यक्त्वा गच्छमादाय गमिष्यन्ति / यदि वा तमुभयधरं गणधरे स्थाप्यमानं गणो नेच्छति। ततो मा परिभवमेतेऽकार्पुर्नयनं वा मां त्यक्त्वाऽन्यत्र गच्छस्याकार्षुरिति हेतोरनिच्छति वागणे तस्य गणं न ददाति। किन्तुस्वयंधारयतितत्रसूत्रं तेनोभयधरेण शिष्येण वाचयत्यर्थमात्मना ददाति।प्रागुक्तदोषाभावेतस्य गणं समर्पयति। थेराणं थेरभूमिपत्ताणं आचारपकप्पे णाम अज्झयणे परिभवे सिया कप्पत्ति तेसिं सणिसणाण कायासे ल्लियाण वा उत्ताणेण वा तुयट्ठाण वा आयारपकप्पे णाम अज्झयणे दोबपि तचंपि पडिच्छित्तए वा परिसारेत्तए वा||१८० व्य. सू.५ उ / / (थेराणं थरे भूमिपत्ताण) मित्यादि स्थविराणां स्थविरभूमि प्राप्तानामाचारप्रकल्पो नामाध्ययनं परिभ्रष्टं स्यात् कल्पते तेषां सन्निषण्णानां व निषद्यागतानां (संतुयदृणे वेति) सम्यक्त्ववर्तनेन स्थितानां उत्तानानां वा (पासिल्लयाणवत्ति) पार्श्वतः तिष्ठतां वा आचारप्रकल्पनामकमध्ययनं द्वितीयमपि तृतीयमपि अपिशब्दात् चतुर्थमपि वारं प्रत्येष्टु वा प्रतिसारयितुं वा अवमरत्नाधिकः प्रतिसारयति स्थविराः प्रतीच्छंति एष सूत्रसंक्षेपार्थः / / अधुना भाष्यविस्तरः। एमेव विइयसुत्तं, कारणियं सति बलेन हावेत्ति। जंजत्थउ कितिकम्म, निहाणसमओ मराइणिए / यथा प्राक्तनं सूत्रं कारणिकमेवमेवेदमपि सूत्रं कारणिक सूत्रं प्रत्युज्ज्वालयन् सति बले विनयं न हापयति / अथ कोऽसो विनयो यस्तेन सूत्रप्रत्युज्ज्वालयता सति बलेन हातव्य इत्यतआह (जजत्थउ) इत्यादि यत्कृतिकर्म वन्दन कं यत्र सूत्रे अर्थेवाऽधिकृतं तत्रावमरत्नाधिके निधानसमे सूत्रमर्थं च प्र-त्युज्वालयता तत्न हापयितव्यं / निधानसमे इति वदता निधाने दृष्टान्तः सूचितः। स चैवं / यथा महति क्षुल्लके वा निधाने उत्खनितव्ये तस्य तदनुरूपमुपचारमुतखानको यदि करोति ततस्तमुत्खनितुं शक्नोति अथ न करोति तदनुपमुपचार तर्हि वृश्चिकाद्युपद्रवतो न शनति एवं यदि स रत्नाधिकेऽवमरत्नाधिके वा सूत्रमर्थ वा प्रत्युज्ज्वालयन् अपूर्व वा पठन् तदनुरूपं विनयं न करोति तदा निर्जरालाभस्तस्य नोपजायते / नच शास्त्रं स्थिरपरिचितं भवति विभंग वा तस्य ज्ञान विभ्रं शितया प्रान्त-देवता कुर्यात्कलहं। एतदेवाभिधित्सुःप्रथमतः प्रायश्चित्तमाह // सुत्तंमिय चउलहुगा, अत्यंमि यचऊगुरुंच गच्छेण / कित्तिकम्ममकुव्वंतो, पावति थेरोस विबलंमि / / स्थविरः प्रत्युजवालयन्नपूर्वं पठन्वा सति बले यदि गर्वेण कृति कर्मन करोति तर्हि तदकुर्वन् सूत्रे सूत्रविषये चतुरो लघुकान्प्राप्नोति अर्थे चतुर्गुरुकं॥ उवयारहीणमफलं.होइ निहाणं करेइ वाणत्थं / इयनिजरा य लाभो, न होई विभंगफलहो वा॥ यथा उपचारहीनं निधानमफलं भवति नोत्खनितुं शक्यते इति भावः। अनर्थवा करोति वृश्चिकाद्युपद्रवकारणात् इति एवमनेनैव दृष्टान्तप्रकारेण कृति ककिरणे निर्जराया लाभो न भवति प्रान्तदेवताकोपवशाद्विभागो वा तस्योपजायेत कलहो वा / / दूरत्थो वा पुच्छह, अहवनिसलाय सनिसन्नो उ। अचासन्ननिविट्व, हिए य चउभंगो वोचत्थो। अंजलिपमाण अकरणं, विप्पक्खंते दिसाहो उडमुहे। भासंतणुवउत्ते, वहसंते पुष्वमाणो उ॥ एएसु सत्तेसु वि, सुत्ते लहुतो उ अत्थे गुरुमासो। नाभीतोवरिलहुगा, गुरुगमहो कोय कन्दुयाण / / दूरस्थितो वा पृच्छति अथवा निषद्यायां सन्निषण्णः पृच्छतिशृणोतीति भावार्थः / यदि वा अत्यासन्न ऊरुणा ऊरु संघृष्य शृणोति निविष्टोत्थिते चतुर्भगी बोद्धव्या। सा चैवं निविष्टोवा निविष्टं पृच्छति निविष्ट उत्थितं पृच्छति 2 उत्थितो निविष्टं पृच्छति 3 उत्थित उत्थितं पृच्छति 4 यथा अंजलेर-करणमर्थपरिसमाप्तौ प्रणामस्याऽकरण तथा दिशो विप्रेक्षमाणः पृच्छतिश्यदिवाऽधोमुख ऊर्ध्वमुखो वा शृणेति न गुर्वभिमुखः२ अथवा येन तेन वा सह भाषमाणः शृणोति अनुप्रयुक्तो 3 वा शृणोति हसन्वा पृच्छति एतेषु सर्वेष्वपि स्थानेषु सूत्रे श्रूयमाणे प्रायश्चित्त लघुको मासः अर्थे गुरुमासः तथानामित उपरि सूत्रं शृण्वतः कायम्डूकयने चत्वारो लघुकाः / अर्थ शृण्वतश्चत्वारो गुरुकाः / नाभितोऽधस्तात् सूत्रश्रवणे कायकण्डूयने चत्वारो-गुरुकाः। नवरं तपःकाल-योरन्यतरेण गुरुकाः। तहा वजं तेणं, ठाणाणे याणि पंजलुखुडुणा। सोप्पय्वए यत्तेणं कित्तिकम्मं वावि कायव्वं / / यस्मादेवमविनयकरमे प्रायश्चित्त विधि स्तस्मार्दतानिप्रागनन्तरमुपदर्शितानि वर्जयित्वा प्रांजलिना प्रकृतोजलिना-उत्कुडु केन प्रयत्नेनादरपरतया श्रोतव्यं / कृतिकर्म वापि वंदन कं कर्तव्यं / यद्यपि वंदनकेनोपस्थितं वाचनाचार्योऽनुजानाति तथापि क्षमाश्रमणं दत्वा कृतप्रांजलिना श्रोतव्यं।