________________ आयारंग 374 अभिधानराजेन्द्रः भाग 2 आयारकुसल ख्यात। अथवा श्रुतं मया आयुष्मतोऽयवा श्रुतं मया भगवत्पादारविंदयुगलमामृशता / अथवा श्रुतं मया गुरु-कुलवासमावसता। अथवा श्रुतं मया हे आयुष्मन् ! (तेणंति) प्रथमार्थे तृतीया तत् भगवता एवमाख्यातं / अथवा श्रुतं मया हे आयुष्मन् ! (तेणंति) तदा भगवता एवमाख्यातं / अच्छवा श्रुतं मया हे आयुष्मन् ! (तेणंति) तत्र षट्जीवनिकायविषये तत्र वा विवक्षितेन समवसरणे स्थितेन बगवता एवमाख्यातं अथ वा श्रुतं मया हे आयुष्मन् ! वर्तते यतस्तेन भगवता एवमा ख्यातं एवमादयस्तंतमर्थमधिकृत्य गमा भवंति। अभिधानवशतःपुनरेवं गमाः 'सुयं मे आउसं आउस सुयं मे मे सुयं,, आउसमित्येवमर्थभेदे तथा तथा भवंति / तथा अनन्ताः पर्यायास्ते च स्वपरभेदभिन्नाः अक्षरार्थगोचरा वेदितव्याः तथा परीताः परिमितास्त्रसाद्वीन्द्रियादयाः स्थावरा अनन्ता वनस्पतिकायादयः (सासयकडनिबद्धनिकाइयत्ति) शास्वता धर्मास्तिकायादयः कृताः प्रयोगाविसूसा जन्याः घट- सन्ध्याभ्ररागादयः / एते सर्वेऽपित्रसादयो निबद्धाः सूत्रे स्वरूपतः उक्ताः / निकाचिता नियुक्तिसंग्रहणहेतूदाहरणादिभिरनेकधा व्यवस्थापिता जिनप्रज्ञप्ता भावाः पदार्था आख्यायंते सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते प्रज्ञाप्यन्ते नामादिभेदोपन्यासेन प्रपच्यन्ते प्ररूप्यन्ते नामादीनामेव भेदा-नांसप्रपञ्चं स्वरूपकथनेन पृथग्विभक्ताः स्थाप्यन्ते दर्श्यन्ते उपमाप्रदर्शनेन यथा गौरिवगवय इत्यादि निदय॑ते हेतुद्रष्टान्तोपदर्शनेनोपदर्थ्यन्ते निगमनेन शिष्यबुद्धौ निश्शंकं व्यवस्थाप्यन्ते साम्प्रतमाचाराङ्ग ग्रहणे फलं प्रतिपादयति स एवमित्यादि स इति आचारांगग्राहकोऽभिसम्बन्ध्यतेएवमात्माएवंरूपो भवति। अयमत्र भावः अस्मिन्नाचारांगे भावतः सम्यगधीते सति तदुक्तक्रियानुष्ठानानुप-- रिपालनात्साक्षान्मूर्त इवाचारोभवति / आह च टीकाकृत् / तदुक्तक्रियापरिणामा-व्यतिरेकात्स एवाचारो भवतीत्यर्थः / इति तदेवं क्रिया-मधिकृत्योक्तं संप्रति ज्ञानमधिकृत्याह (एवं नायत्ति) यथाचारांगे निबद्धा भावास्तथा तेषां भावानां ज्ञाता भवति तथा (एवं विनायत्ति) यथा नियुक्तिसंग्रहणीहेतूदाहरणादिभिर्विविधं प्ररूपितास्तथा विविधं ज्ञातारो भवंति एवं चरणकरणप्ररूपणा आधार आख्यायते सेत्तं आयारोत्ति जनता सेकिंतं आयारे आयारेणं समणाणं निग्गंथाणं आयारगोयरविणयवेणइयठाण-गमणचकमणपमाणजोगजुंजणभासा समितिगुत्तीसेजोवहिभत्त-पाण उग्गमउप्पायएसणाविसोहि शुद्धाशुद्धग्गहणवयणि-यमतवोवहाणसुप्पसत्थामाहिजइसे समासओ पञ्चविहो पं० तं णाणायारे, दंसणायारे, चरित्तायारे, तवायारे, आयारस्स णं परित्तावायण संखेना अणुओगदारा संखेजाओपडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ निजुत्तीओ से णं अंगट्टयाए पढमे अंगे दो सुयक्खधा पणवीसं अजयणा पञ्चासीइं उद्देसणकाला पञ्चासी समुद्देसणकाला अट्ठारस पदसहस्साइं पदग्गेणा संखेज्जा अक्खरा अणंतागमा अणंता पज्जवा परित्ता तसा अणंता थावरा सासया कडानिबद्धा णिकाइया जिणपण्णत्ता भावा आघविजंति पण्णविजंति परूविजंति नंदिस्संति उवदंसिज्जा से एवं णाए एवं विण्णाए एवं चरणकरणपरूवमया आघविजंति परूविजंतिनन्दिसिजंति उवदंसिर्जति ) सेत्तं आयारो ||सम० 12 स आचाराङ्गस्य व्यवच्छेदकालश्च / / विण्हमुणिम्मि मरते, हरितगोत्तम्मि होतिवीसाए / वरिसाणसहस्सेहिं, आयारंगस्सवोच्छेदो। सम्प्रतमुद्देशार्थाधिकारःशस्त्रपरिज्ञाया अयंजीव इत्यादि तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्य शेषेषुतुषट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति सर्वेषां चावसाने बन्धविरतिप्रतिपाद नमिति। एतच्चान्ते उपात्तवान् प्रत्येकमुद्देशा-र्येषु योजनीयं प्रथमोद्देशके जीवस्वपवधे वधो विरतिष्विति एवमिति तत्र शस्त्रपरिज्ञा |आचा.१० 1 उ. साम्प्रतमाचारा-दिप्रधानस्य सुखप्रतिपत्तये दृष्टान्तोपन्यासेन विधिराख्यायते॥ यथा कश्चिद्राजाऽभिनवनगरनिवेशेच्छया भूखंण्डानि विभज्य समतया प्रकृतिभ्यो दत्तवाँस्तथा कचवरापनयने शल्योद्वारे भूस्थिरीकरणे पक्केष्टकापीठप्रासादरचने रत्नाधुपादाने चोपदेश दत्तवाँस्ताँश्च प्रकृतयस्तदुपदेशानुसारेण तथैव कृत्वा यथाभिप्रेतान् भोगान् बुभुजिरे। अयमत्रार्थोपनयः। राजसदृशेन सूरिणा प्रकृतिसदृशशिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्व-कचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयस्तं च सामायिक-संयम स्थिरीकृत्य पक्केष्टकापीठतुल्यानिव्रतान्यारोपणीयानि ततः प्रासादकल्पोऽयमाचारो विधेयसूत्रस्थश्च शेषशास्त्रादि-रन्यान्यादत्ते निर्वाणभाग्भवति॥ आचा० 1 अ.१ऊ॥ आयारंगचूला-स्त्री. (आचाराङ्गचूडा) आचाराङ्गस्य द्वितीयेऽग्रश्रुतस्कन्धे (एतद्रहुवक्तव्यताऽऽचारचूलिकाशब्दे) प्रथमा-चारचूलेति आचा०। आयारकुसल-पुं० (आचारकुशल) आचारेण ज्ञानाद्याचारेण कर्मकुशलः कर्मोच्छेदकः आचारविषये सम्यक् परिज्ञानवति, आचारे ज्ञातव्ये प्रयोक्तव्ये वा कुशलो दक्ष आचारकुशलः। आचारज्ञाने आचारप्रयोगे या दक्षे, च / व्य०७० 3 / आचार-कुशलशद्वस्य व्याख्यानार्थमाह // अब्भुटाणे आसण, किं कर अप्भासकरणविभत्ति / पहिरुवजोगजुंजण, नीयोगपूजा जहा कमसो / / अफरुस अणबल अचवल, मकुवयमडंभगोमसीभरणं / सहित समाहि यउवट्ठिय, गुणनिहि आयार कुशलोउ / आचार कुशलो नाम यो गुर्वादी नामभ्युत्थानं करोति (आसणत्ति) आसनप्रदानं च तेषामेव गुर्वादीनां विधत्ते समागताना पीठिकाद्युपनयतीतिभावः। तथाप्रातरेवागत्य आचार्यान् वदति संदिशत किंकरोमीति स किंकरः तथा (अभ्भासकरणमिति) ये अभ्यागतास्तेषा मात्मस-मीपवर्तित्वकरणमभ्यासकरणं अविभक्तिर्विभागाभावः शिष्यः प्रतिच्छिकानां विशेषकरणमितिभावः (पडिरूव योगजुंजणत्ति) प्रतिरूपः खलु विनयः कायिकादिभेदतश्चतुर्धाऽधस्तात् पीठिकायामभिहितस्तदनुगता योगा मनोवाक्कायास्तेषां योजनं व्यापारणमवश्यकरणं अविभक्तविभागयोजन (नियोगत्ति) योयत्र वस्त्राद्युत्पादने नियोक्तव्यः तस्य तत्र नियोगं करोति (पूजा जहा कमसोत्ति) गुर्वादीनां यथानुरूपं क्रमशो येन पूजा क्रियते अपरुषमनिष्ठुरंमनः प्रल्हादकृदित्यर्थः तद्भाषते (अण-बलत्ति) तत्र प्राकृतत्वात्यकारलोपः तेन अबलया इतिद्रष्टव्यं तस्याऽभावोऽणबलया अकुटिलत्वमित्यर्थः / अचपलः स्थिरस्वभावः अकु कुयो हस्तपादमुखादिवि रूपचेष्टारहितः। अदभंको वंचनानुगतवचनविरहितः। सीभरो नाम य उल्लपन् परं लालया सिंचति तत्प्रतिषेधादसभिरः / प्राकृतत्वात्स्वार्थे कप्रत्ययविधानेन असीभरकः एष सर्वोऽपि