________________ आयारंग 373 अभिधानराजेन्द्रः भाग 2 आयारंग पन्नता भावा आपविजंति पनविजन्ति परूविजंति दंसिञ्जन्ति निदंसिर्जति उवदंसिशंति / से एवं आयासे एवं नायासे एवं विण्णाया एवं चरणकरणपरूवणा आघविजइ सेत्तं आयारे॥ सेकिंतमित्यादि। अथ किं तत्आचार इत्यादि अथवा कोऽय आचारः आचार्य आह (आयारेण मित्यादि) आचारणमाचारः आचार्यते इति वा आचारः पूर्वपुरुषाचरितो ज्ञानाद्यासेवन विधिरित्यर्थः / तत्प्रतिपादको ग्रंथोऽप्याचारएव उच्यते अनेनचाचारेण करणभूतेनाथवाचारे आचारभूते णमिति। वाक्यालंकारे श्रमणानां प्राइनिरूपित शब्दार्थानां निन्थानां बाह्याभ्यन्तर ग्रंथरहितानां आह। श्रमणा निर्ग्रन्था एव भवंति।तत्किमर्थं निर्ग्रन्थानामिति विशेषणमुच्यते / शाक् यादिव्यवच्छे दार्थ शाक्यादयोऽपीह लोके श्रमणाव्यपदिश्यते तदुक्तं (निग्गन्थ-सक्कतावसगे रुअआजीवपञ्चहा समणा इति) तेषामाचारा व्याख्यायंते / तत्राऽचारो ज्ञानाऽचाराद्यनेकभेदभिन्नो गोचरो भिक्षाग्रहणविधिकलक्षणः विनयो ज्ञानादि विनयः वैनयिकं विनयफलं कर्मक्षयादि। शिक्षाग्रहणं शिक्षा आसेवनशिक्षा च विनवशिक्षेति चूर्णिकृत् / तत्र विनेयाः शिष्यास्तथा भाषा सत्या असत्या मृषाच अभाषा मृषा सत्यामृषाचचरणं व्रतादिकरणं पिंडविशुद्ध्यादि उक्तंच (वयसमणधम्मसंजम, वेया वचं च बंभगुत्तिओ। नाणा इति यतव कोह, निग्गहाई चरणमे यंतु॥शा पिंड विसोहि समिई.. भावणपडिमा इंइदियनिरोहो। पडिले-हणगुत्तीओ। अभिग्गहो चेव करणं तु // 2 / / (जाया माया वित्तिओत्ति) यात्रा संयमयात्रा मात्रा तदर्थ मेव परिमिताहारग्रहणं वृत्तिर्विविधैरभिग्रहविशेषैर्वर्तनं। आचारश्च गोचरश्चेत्यादिद्वंद्वान्ता आचारगोचरविनयवैनयिक शिक्षाभाषाणा माचरणकरणयात्रामात्रावृत्तयः आख्यायते इह यत्र क्वचिदन्यतरोपादानेऽन्यतरगतार्थाभिधानं तत्सर्वं तत् प्राधान्यख्या-पनार्थमवसेयं (से समासओ) इत्यादिसआचारः समासतः संक्षेपतः पंचविधः प्रज्ञप्तः तद्यथा (नाणाचारो इत्यादि तत्र आयारेण मित्यादि आचारे ममिति वाक्यालंकारे परित्ता परिमिता ततः प्रज्ञापकं पाठकं चाधिकृत्याद्यन्तोप लब्धैरथवा उत्स-र्पिणीमवसर्पिर्णीवा प्रतीत्य परित्ताअनन्ता न भवति (आइअन्तो वलंभणाओ तणाओ अहवा ओसप्पिणी मुसप्पिणीकालं पडुच्च परित्तातीयाणागयसव्वद्धं च पडुच्च अणंता) इति तथा संख्येयानि अनुयोगद्वाराणि उपक्रमादीनि तानि ह्यध्ययनमध्ययनं प्रति वर्तते अध्ययनानि च संख्येयानीति कृत्वा तथा संख्येया वेढा वेढो नाम च्छन्दोविशेषः / तथाच संख्येयाः श्लोकाः प्रतीताः तथा संख्येया नियुक्तयस्तथा संख्येयाः प्रार्तपत्तयः प्रतिपत्तयो नाम द्रव्यादिपदार्थाभ्युपगमाः प्रतिमाद्यभिग्रहविशेषा वा ताः सूत्रनिबद्धाः संख्येयाः। आह च चूर्णिकृत्। "दव्या-इपयस्थपुव्वगमा, पडिमादभिग्गह विसे सा। पडिवत्ती उत्ते समासतो सुत्तपडिबद्धासंखेज्जत्ति' (सेणमित्यादि) स आचारो णमिति वाक्यालंकारे अंगार्थतया अंगार्थत्वेनार्थग्रहणं परलोकचिन्तायां सूत्रादर्थस्य गरीयस्त्वख्यापनार्थं अथवा सूत्रार्थोभयरूप आचार इति ख्यापनार्थं प्रथममंग एकारांतता सर्वत्र मागधभाषालक्षणानुसरणतो वेदितव्या स्थापनामधिकृत्य प्रथममंग मित्यर्थः / तथा द्वौ श्रुतस्कन्धौ अध्ययनसमुदायरूपी पञ्चविंशतिरध्ययनानि / तद्यथा / / सत्थपरिनालोगविजओ, सीओसणिणं सम्मत्तं। आवंतिधुय विमोहो, महापरिनोवहाणसुयं॥ एतानिनवाद्ययनानि प्रथमश्रुतस्कंधे'"पिंडेसणासेजिरिया, भासज्जाया य वत्थपाएसा। उग्गहपडिमासत्ता, सत्तिक्कया यभावणविमुत्ती॥१॥ अत्र (सेजिरियत्ति) शय्याध्ययनमीर्या-ध्ययनं च (वत्थपाएसत्ति) वस्वैषणाध्ययनं पात्रैषणाध्ययनं च असूनि षोडशाध्ययनानि द्वितीयश्रुतस्कन्धे एव मेतानि निशीथवानि पंचविंशतिध्ययनानि भवंति / तथा पञ्चाशी-तिरुहेशनकालाः कथमिति चेदुच्यते। इहाऽङ्गस्य श्रुतस्क-न्धस्याध्ययनस्योद्देशकस्य चैक एवोद्देशनकालः। एवं शस्त्रपरिज्ञायां सप्तोद्देशनकालाः / लोकविजये षट् / शीतोष्णाध्ययने चत्वारः / सम्यक्त्वाध्ययने चत्वारः लोकसाराध्ययनेषट्। धूताध्ययने पञ्च / / विमोहाध्ययनेऽष्टौ / / महापरिज्ञायां सप्त।। उपधानश्रुते चत्वारः।। पिंडषणाध्ययने एकादश॥ शब्दैषणाध्ययने त्रयः / वस्त्रैषणाध्ययने द्वौ। अवग्रहप्रतिमाध्ययने द्वौ / / सप्तसप्ततिकाध्ययनेषु भावनायामेको विमुक्तावेकश्च / / एवमेते सर्वेऽपि पिंडिताः पञ्चाशीतिर्भवन्ति / / अत्र संग्रहगाथा। सत्तय छच उचउरो,पंचअद्रुवसत्तचउरोय। एक्कारसतिनिय दो दो, दो दो दो सत्तेक एको य|शा एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः / तथा पदाग्रेण पदपरिमाणे नाष्टादश पदसहस्राणि इह यथार्थोपलब्धिः तत्पदं अत्र पर आह। यद्याचारे गौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानिपदाग्रेण चाष्टादश पदसहस्राणि तर्हि यद्भणितं "नव बंभचेर-मइओ अट्ठारसपयसहस्सि ओवेओ" इति तद्विरुध्यते। अत्र हि नवब्रह्मचर्याध्ययनमात्र एवाष्टादशापदसहस्रप्रमाण आचार उक्तोरिंमस्त्वध्ययेन श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययन-रूपोऽष्टादशपदसहस्रप्रमाण इति / ततः कथं न परस्परं विरोधः तदयुक्तमभिप्रायापरिज्ञानात् इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याऽचारस्य परिमाणं अष्टादशपदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनमयस्य विधिवादार्थनिबद्धानि हि सूत्राणि भवन्ति अतएव चैषां सम्यगावगमो गुरूपदेशतो भवति नान्यथा अत्राह चूर्णिकृत् "दोसुयक्खन्धा पणवीसं अज्झयणाणि एयं आयारगा सहियस्स आयारस्स पमाणं भणियं अट्ठारसपयसहस्सा पुण पढमसुयखंधस्स नवबंभचेरमइयस्स पमाणं विचिंत अत्थ-निवद्धाणि सुत्ताणि य. गुरूवएस ओसिं अत्थो जाणियव्वोत्ति, तथा संख्येयान्यक्षराणि पदानां संख्येयत्वात् तथा (अणंता गमा) इति इह गमा अर्थगमा गृह्यते / अर्थगमा नाम अर्थपरिच्छेदाः ते चानन्ताः एकस्मादेव सूत्रादतिशायि मतिमेधादिगुणानां तत्तद्धर्मविशिष्टानां तत्तद्धर्मात्मवस्तुप्रतिपत्तिभावात्॥ एतय टीकाकृतो व्याख्यानं // चूर्णिकृत् पुनराह / / अभि-धानाभिधेयवशतो गमा भवंति ते चानन्ताः अनेन च प्रकारेण वेदितव्याः। तद्यथा। सुयं मे आउसंतेणं भगवता एवमक्खायंति, इतञ्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह तत्रायमर्थः श्रुतं मया हे आयुष्मन् ! तेन भगवता वर्द्धमानस्वामिना एवमाख्यातं अथवा श्रुतंमया आयुष्मदंते आयुष्मतो भगवतो वर्द्धमानस्य स्वामिनोऽन्ते समीपे णमिति वाक्यालंकारे तथाच भगवता एवमा