________________ आयरिय 361 अमिधानराजेन्द्रः भाग 2 आयरिय सक्कारो सीसपडिच्छा, एहिं गिहिअन्नतित्थेहिंशा गणधारिणस्सतः उत्कृष्ट आहार उत्कृष्टस्संस्तवस्सतांगुणानां प्रख्यानं तथा शिष्यैः प्रतीच्छ कैहिभिरन्य-तीर्थिकै श्वोत्कृष्टः सत्कार उपाध्यायादिभिः पूजनं क्रियते ततः पूजानिमित्तमपि तस्य गणधारणमनुज्ञापनं संस्तवनं व्याख्यानयति॥ सुत्तेण अत्थेण य उत्तमोउ, आगाढपण्णेसु य भावियप्या।। जचनिओ यावि विसुद्धभावो, संते गुणेवं पविकत्थयंते॥ सूत्रेण अर्थेन च एष उत्तमः प्रधानः परिपूर्णस्य सूत्रस्यार्थस्य वावदातस्यास्य संभवात्। तथा आगाढप्रज्ञानिशास्त्राणि तेषु भावितात्मा तात्पर्यग्राहितया तत्राऽतीव निषण्णमतिरिति भावः / तथा जात्या सकलजनप्रशस्ययाऽन्वितो युक्तो जात्यन्वितः / तथा विशुद्धः स्वपरसंसारनिस्तारणैकतानतयाऽवदातो भावोऽ-भिप्रायो यस्य य विशुद्धभावः / एवं स्तुतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षाऽतिरेकलक्षणतो विकत्थयंते श्ला-घंते / एवं पूज्यमाने आचार्ये पूजकानां यो गणस्तमुपदर्शयति॥ आगम्म एवं बहुमाणितोहु, आणा विरत्तंच अभाविएस। सुणिज्जरावेणइया य निर्च,माणस्स मंगोवि य हुजयंते॥ पूज्यमाने आचार्य पूजकैरागमो बहुमानितो बहुमानविषयीकृतो भवति। आगमस्य तत्रस्थत्वात्। तथा भगवतामर्हतामाज्ञा परिपालिता भवति। भगवतां हि तीर्थकृतामियमाज्ञा यदुत गुरोः सदा पूजा कर्तव्या। तथा चोक्तं। "जहाहि अग्गी जलनं नमसे, नानाहुतीमंतपयाभिसित्तं / / एवायरी यं उववेट्ठएजा, उणंतनाणो विगतोविसंतो,, तथा गुरुविनयकरणेन यैर्नाऽद्यापि भाविता-स्तेष्वभावितेषु क्रियमाणपूजा दर्शनतः स्थिरत्वमुपजायते। यथा वैनयिकैर्विनयनिमित्ता विनिर्जरा कर्मनिर्जरणं नित्यं सदा सततं भवति / गुरुविनय स्य सदा कर्तव्यत्वात् / तथा मानस्या-ऽहंकारस्य भंगोऽपि च कृतो भवति। एते पूजकानां गुणाः / / संप्रति निर्जरार्थमेवगणधारिणं व्यवसितस्य पूजामपीच्छतः आचार्यस्य दोषाभावे यस्तडाग दृष्टांतस्तं भावयति॥ लोइयधम्मनिमित्तं, तडागखाणावियंमि पउमादी। न विगरिहियाणुभोत्तुं, एमेव इमं पि पासामो // केनापि लौकिकी श्रुतिमाकार्य धर्मनिमित्तं तडागं खानितं। तस्मिश्च तडागे पद्मादीनि जातानि / वर्षारात्रे चापगते यत्र यत्र पानीयं शुष्यति। तत्र तत्र धान्यं वापयति / तत्र यथा पद्मादीनि अनुभवितुं भोक्तं गृह्यमाणान्यपि न तस्य विगर्हितानि भवंति / लोके न तथा सम्मतत्वादेवमेव अनेनैव प्रकारेण इदमपि गणधारणं पश्यामः / निर्जरार्थमाचार्याणां गणधारणमुक्तप्रकारेण पूजानिमित्तमप्यदोषायेति भावः॥ ___ संप्रति (सं तंसे) इत्यादि पश्चार्द्ध व्याख्यानयति॥ संतमिउ केवइओ, सिस्सगणो दिज्जतीति ता तस्स। पव्वाविते समाणे, तिनि जहन्नेण दित्ति। भावपरिच्छन्नस्य शिष्यस्य सति विद्यमाने परिवारे तेन तस्याऽचार्यस्य ततो गणधारणानुज्ञापनानंतरं कियान् शिष्यगणो दीयतां / अत्रोत्तरं प्रव्राजिते शिष्यगणै सतितत्रत्रयो जघन्येन दीयंते। उत्कर्षतो बहुतरकाः सर्वे वा इति वाक्यशेषः / अथ किं कारणं जघन्यतस्त्रयोऽवश्यं दातव्या इत्याह / / एगो चिट्ठइपासे, सन्ना आलित्तमादिकज्जत्था। मिक्खादिवियारदुवे, पव्वयहेउं व दो हेउं॥ एकः पार्श्वे समीपे संज्ञापुरीषोत्सर्गे आलप्तमालपनं कस्याऽ-प्याचार्यः कारयेदित्यादि कार्यार्थ तिष्ठति // द्वौ च भिक्षायामा-दिशब्दात् औषधानयनादौ विचारे बहिभूमौ गच्छतः यदि वा सूत्रार्थासंवादप्रत्यये हेतू द्वौ भवेतां संप्रति प्रागुक्तायामवे चतुर्भग्या विशेष वक्तुकाम आह / / दवे भावे पलिच्छ दे, दवे तिविहो उहोइ चित्तादी। लोइयलोउत्तरिओ, दुविहो वा वारजुत्तियरो॥ परिच्छदो द्विविधो द्विप्रकारो द्रव्ये भावे च / तत्र द्रव्ये द्रव्य परिच्छदस्त्रिविधोभवति / (चित्तादी) सचित्तोऽचित्तो मिश्रश्व एष त्रिविधोऽपि द्रव्यपरिच्छदो भूयो द्विधा लौकिको लोकोत्तरिकश्च / तत्र लौकिकः सचित्तः त्रिविधो द्विपदचतुष्पदापदभेदात्। अचित्तो हिरण्यादिमिश्रः सचित्ताचित्तसमवायेन लोकोत्तरिकः सचित्तो द्रव्यपरिच्छदः शिष्यादिराचित्त उपधिमिश्रः सचित्ता-चित्तसमवायतः। तत्र लौकिके लोकोत्तरिके च द्रव्यपरिच्छदे द्विधा / यथा व्यापारयुक्त इतरो व्यापारायुक्तश्च त निदर्शन-माह। दो भाउया विभत्ता, एको पुण तत्थ उज्जुतो कम्मे। उवि उभतिप्पदाणं,अकालहीणंच परिवड्डी। द्वौ भ्रातरौ तौ परस्परं विभक्तौ धनं विविच्य पृथक्पृथजातावित्यर्थः / तत्र तयोर्द्वयोर्मध्ये पुनरेकः कृषि कुर्वन् कर्माणि उद्युक्तः। किमुक्तं भवति / स्वयं कर्म करोति भृतकांश्च कारय-ति / भृतकानां वा कालपरिहीनां उचितां परिपूर्ण भूर्ति मूल्यं ददाति / अकालपरिहीनं च परिपूर्ण भक्तं / एवं चतस्य व्याप्रिय-माणस्य कृषः परिवृद्धिरजायत साधुवादश्च / / कयमकयं वन जाणइ, न य उज्जम ए सयं न वावारो। भत्ति भक्तकालहीने, दुग्गहियकिसीए परिहाणी।। द्वितीयो व्यापारायुक्तो भृतकैः किं कर्म कृतं किं वा न कृत मिति नैव जानाति स्वयमपरिभावनादन्यतश्चाऽप्रच्छनान्नच स्वयं कर्मकारणायोद्यच्छति। न वा मध्ये स्थित्वा भृतकान् व्यापारयति / भृतिभक्ते च भृतकानां कालहीने ददाति। किमुक्तं भवति / भृतिमपरिपूर्ण ददाति। कालहीनां च एवं भक्तमपि / तत एवं दुर्गहीतायाः कृषेस्तस्य परिहानिरभूदसाधुवादश्च / / संप्रति लोकोत्तरिक द्रव्यपरिच्छदे व्यापारयुक्तमाह !! जो जाए लद्धीए, उववेओ तत्थ तं निजोएंति। उवकरणे सुत्तत्थे, वादे कहणे गिलाणे य॥ यो यथा लब्ध्या उपपेतोयुक्तो वर्तते। तत्र तं नियोजयंति सूरयस्तद्यथा उपकरणे इति उपकरणोत्पादने (सुत्ते) इति-सूत्रपाठलब्ध्युपेतं सूत्रपाठे अर्थग्रहणे लब्धिसमन्वितं परवा-दिमयने धर्मकथनलब्धिपरिकलितं धर्मकथने ऽग्लानमिति चरणपटीयांसंग्लानं प्रति जागरणे // जह जह वावायरते, जहा य वावारिया न हायंति। तह तह गणपरिवड्डी, निजर वडी वि एमेव // यथा यथा तत्तल्लब्ध्युपेतान् तत्कर्मणि व्यापारयंति यथा यथा च व्यापारा न हीयते / देशकालस्वभावौचित्येन व्यापारणात् तथा तथा गणस्य गच्छस्य परिवृद्धिर्भवति / निर्जरावृद्धि