________________ आयरिय 356 अभिधानराजेन्द्रः भाग२ आयरिय कल्पतेऽयावसन्नस्तर्हि तस्मिन् द्रव्यतोऽपरिच्छदे वा कल्पते खलु शब्दोविशेषणार्थः। स चैतत् विशिनष्टि। यो भावतःस-परिच्छदस्तस्य / कल्पते न शेषस्य परिच्छदे वावसन्ने / आचार्य गणं धारयति शिष्ये य आचार्यस्य सपरिच्छदः परिवारः स एव तस्य शिष्यस्य भवति व्यवहारस्तस्या भावनात् इतरस्य न किमप्याभवति शिथिलत्वात् / इहपरिच्छदविषया चतुर्भगिका / तद्यथा / द्रव्यतोऽपरिच्छन्नो भावतश्वापरिच्छन्नः१ द्रव्य-तोऽपरिच्छन्नोभावतः परिच्छन्नः 2 द्रव्यतः सपरिच्छदोभावतोऽपरिच्छन्नः३द्रव्यतः सपरिच्छदोभावतश्वसपरिच्छदः 4 तत्र चतुर्थभंगवर्ती शुद्धः शेषास्त्वशुद्धाः / एष सूत्रार्थः / अधुना नियुक्तिविस्तरः // मिक्खू इच्छा गणे, धारए अपव्वाविए गणो नत्थि / इच्छातिगस्स अट्ठा, महातडागेण ओव्वम्मं / / भिक्षोरिच्छा गणं धारयितुंसच गणः स्वयं प्रव्राजितो नास्ति तस्मात्स्वयं साधवः प्रव्राजनीयाः॥ अथवा यद्यपि स्वयम प्रव्राजने गणोनास्ति तथा यद्यपि यदा अवसन्न आचार्योजातो भवति तदा योऽसावाचार्यस्य गणः स एव तस्य भवतिच्छिाचगणं धारयितुंत्रिकस्य ज्ञानादिरत्नत्रयस्यार्थाय नतुपूजासत्कारनिमित्तमत्रार्थे चौपम्यमुपमा महातडागेन। किमुक्तं भवति पद्मसरसा महातडागेन गणपरिवर्द्धस्योपमा कर्तव्या / सा चाग्रे भावयिप्यते। एष नियुक्तिगाथा संक्षेपार्थः / गण निक्षेपम्प्रतिपाद्य // भावगणेण हिगारो, सो उ अपव्वाविए न संभवति / इच्छातियगहणं पुण, नियमणहेउं तओ कुणइ // भावगणेन नो आगमतो भावगणेनाधिकारः प्रयोजनं स च भावगणो यथोक्तरूपः स्वयं प्रवाजितो नास्ति। तस्मात्स्वयं साधवः प्रव्राजनीयाः ते परिवारतया कर्तव्याः। अथवा प्रमाद्यत्याचार्य यः परिवारः तथा स को नियुक्तिकारो द्वार-गाथायामिच्छात्रिकग्रहणं नियमहेतुंकरोतीत्युक्तं / तत्र किं नियमयति सूरिराह / निर्जरानिमित्तमेवं गणं धारयति नतु पूजादिनिमित। स च गणं धारयन् यतिप्रभुमहातडागेन समानो भवति / महातडागेन समानतामेव भावयति / / / तिमिमगरेहिं न खुरामइ, जहंबुनाहो वियंभमाणेहिं // सोय महातलागो पप्फुल्लपउमं च जं अन्नं / यथाऽबुनाथस्तिमिमकरैर्विज्टंभमाणैर्न क्षुभ्यतिनस्व-स्थानाचलति। स एव चांबुनाय इह महातडागस्तथा विवक्षणात् अथवा समुद्रात्यदन्यत् प्रफुल्लपा महासरस्तत् महातडागम् / / उपनयमाह // परवादीहिं न खुम्भइ, संगिएहंतो गणं च न गिलाइ / होतिय सयाभिगमो, सत्ताण सरोव्व पउमङ्को॥ तिमिमकरैरंबुनाथ इव परवादिभिराक्षिप्यमाणो न क्षुभ्यति न च गणं संगृह्णन्यथौचित्येनानुवर्तमानोग्लायति। यथा वा सरः पद्माढ्यं सत्वानां सदाभिगमं भवत्येवं सदा सत्वानाम भिगमसाधुः प्रभुर्भवति / / एयगुणसंपउत्तो, वा विजो गणहरोउ गच्छंमि / पडिय्बोहादीएहि य, जइ होइ गुणेहिं संजुत्तो // एतेन समुद्रतुल्यतारूपेण पद्माढ्यसरः समानत्वेन गुणेन वा संप्रयुक्तो गच्छे गणधरः स्थाप्यते / सचैतद्गुणसंप्रयुक्तस्तदा भवति यदि प्रतिबोधादिभिर्वक्ष्यमाणगुणैर्युक्तो भवति / प्रतिबोधा-दयोगुणाः प्रतिबोधकादिदृष्टांतेभ्योभावनीया इति / तानेव प्रतिबोधकादीन् दृष्टांतानुल्लिंगयति / / पडिब्बोहगदेसियसिरि, घरेय निजामगेय बोधवे / / तत्तोय महागोवो, एमेया पडिवत्तिओ पंच // प्रतिबोधकः सुप्तोत्थापकः देशको मार्गदेशी श्रीगृहिकोभांडागारनियुक्तो निर्यामकः समुद्रे प्रवहण्नेता। तथा महागोपोऽतीवगोरक्षणकुशल एवमेता अनंतरोदिताः पंच प्रतिपत्तयोऽधिकृताऽर्थ अभिरितिप्रतिपत्तय उपमा। तत्र प्रतिबोधकोपमा भावयति // जह आलित्ते गेहे, कोइ पसुत्तं नरं तु बोहेजा। जरमरणादिभयत्ते, संसारघरंमि तह उजिए / यथा आसमंततो दीप्तगृहे कोऽपि परमबंधुः प्रसुप्तं नरं प्रबोधयेत्तथा संसारगृहे जरामरणप्रदीप्ते जीवान् अविबुद्धान् भावसुप्तान प्रबोधयति। सस्थापनीयो गणधरादेशितस्तीर्थ करैरुक्तः प्रतिबोधकदृष्टांतः। संप्रति देशकादिदृष्टांतमाह / / बोहेइ अपडिबुद्धे, देसिय माईविजोएजा॥ एयगुणविप्पहीणो, अपलिच्छन्ने य न धरेजा ||2|| (बोहेइ अपडिबुद्धे) इति पूर्वगाथाव्याख्यायां व्याख्यातानेव देशकादीनपि दृष्टांतान्योजयेत् / ताँश्चैवं यो ग्रामादीनां पंथानमृजुकं क्षेमेण प्रापयति स देशक इष्यते / एवं ज्ञानादीनामविराधनां कुर्वन् यो गच्छंपरिवर्द्धयति स गणधरःस्थापनीयोनशेषः। श्रीगृहकदृष्टांतभावना / यथा यो रत्नानि सुनिरीक्षितानि करोति स श्रीगृहे नियुज्यते एवं यो ज्ञानादीनामात्मसंयमयोश्चाविराध-नया गणं वर्द्धयति स तादृशोगणस्य नेता कर्तव्यः // निर्यामकदृष्टांतभावना। यथा निर्यामकस्तथा कयंचनाऽपि प्रवहणं वाहयति / यथा क्षिप्रमविनेन समुद्रस्य पारमुपगच्छति एष एव च तत्वतोनियमिक उच्यते। शेषो नामधारकः / एवं य आचार्यस्तया कथंचनापि गच्छं परिवर्द्धयति तथा क्षिप्रमविनेनात्मनां गच्छंचसंसारसमुद्रस्य पारंनयति। स तत्वतोगणधरः शेषोवै नाममात्रपरितुष्टः। महागोपदृष्टांतभावना यो गाः स्वपदेषु विषमेषु वा प्रदेशेष्वटव्यां वा पतंतीवारयित्वा च क्रमेण स्वस्थानमानयति / स महागोप उच्यते। एवमाचार्योऽपि यो गणमस्थानेषु प्रत्यंतदेशादिषु विहारिणं धारयति / पूर्वाभ्यासवृत्तानि च प्रमादस्खालिता न्यपनयति स तादृशो गणपरिवर्द्धकः करणीयो न शेषः / अथवा प्रतिबोधको नाम गृहचिंतक उच्यते / यो गृहं चिंतयन् यो यत्र योग्यस्तं तत्र व्यापारयति / तत्र व्याप्रियमाणेच प्रमादतः स्खलनं निवारयतिसगृहचिंतक उच्यते। एवं यः स्थापितो यो यत्र योग्यस्तं तत्र नियुक्ते। नियुक्तांश्च प्रमादतः स्खलतः शिक्षयति / स स्थापनीयो गणधरपदे नेतर इति / यश्चैतगुणविप्रहीणः प्रतिबोधादिगुणविकलो यश्च द्रव्यतो भावतेश्चत्यर्यः / छन्नः परिच्छदहीनः स गणं धारयेत्। न स गणधरपदे स्थापनीय इति भावः / / दोहिं वि अपलिच्छन्ने, एककेणं व अपरिच्छन्नो य / अहारणा होति इमे, भिक्खंमि गणंधरं तंडि / / द्रव्यतोऽपरिच्छन्नो भावतश्चापरिच्छन्न इत्यादिचतुभंगी प्रा