________________ आउ 12 अभिधानराजेन्द्रः भाग 2 आउ अभिवादइज्जा / तए णं तं पुरिसं अम्मापियरो एवं बइज्जाजीव पुत्ता ! वाससयंति तं पियाई तस्स नो बहुयं भवइ कम्हा वाससयं जीवंतो वीसं जुगाइं जीवइ,वींस जुगाइं जीवंतो दो अयणसयाई जीवइ 2, दो अयणसयाई जीवंतो छ उऊपयाई जीवइ३, छ उऊसयाई जीवंतो वारसमाससयाई जीवइ 4, वारसमाससयाई जीवंतो चउवीसं पक्ख सयाइंजीवइ 5, चउवीसं पक्खसयाइंजीवंतोछतीसं राइंदिअसहस्साइंजीदति छत्तीसं राइंदियसहस्साइं जीवंतो दसअवीयाइं मुहूत्तसयसहस्साइं जीवइ 6, दस असीयाइं मुहत्तसयसहस्साई जीवंतो चत्तारि ऊसासकोडिसए सत्त य कोडिओ अडयालीसं च सयसहस्साइं चत्तालीसं च सहस्साई जीवइ७॥ (सूत्र-१६) अथ यदि तस्य पुत्रस्य वर्षशतप्रमाणमायु स्यात्तदा सजीवति; नाऽन्यथेति, तदाप च आयु: 'आई' ति-अलंकारे, तस्य वर्षशतायु पुरुषस्य न बहुक-वर्षशताधिकं भवात् कस्मात्? यस्माद्वर्षशतं जीवन् विंशातयुजानि एव जीवति, निरुपक्रमा-युष्कत्वात् 10 विंशतियुगानि जीवन् पुरुषो द्वे अयनशंत जीवति 20 वे अयनशते जीवन जीव: षऋतुशतानि जीवति 30 षऋतुशतानि जीवन जन्तु: द्वादश मासशतानि जीवति 40 द्वादश मासशतानि जीवन् प्राणी चतुर्विशतिपक्षशतानि 2400 जीवति 5 चतुर्विशतिपक्षशतानि जीवन् षट्त्रिंशदहोरात्रसहस्राणि 36000 जीवति सत्त्व: 60 षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान् दश मुहूर्तलक्षाणि अशीतिमुहूर्तसहस्राणि 1080000 जीवति 70 दशलक्षमुहूतानि अशीतिमुहूर्तसहस्राणि जीवन् देहधारी चत्वारि उच्छ्वासकोटिशतानि सप्तकोटि: अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणि च 4074840000 जीवति देहभृत् / / निया॑यन्ती तमवास्थात्, तन्मयत्वमिवेयुषी। अदृश्यत्वं गते लस्मि-स्तस्या: प्राणास्तमन्वगुः / / 5 / / " स्नेहाध्ययसानेनाप्यायु:क्षीयते"एकस्य वणिजो यून:, प्रेयसी प्रौढयौवना। द्वयोरपि तयोः स्नेहः, कोऽपि वाचामगोचरः / / 1 / / स वाणिज्याय गत्वाऽथ, प्रत्यावृत्त: समेष्यति। एकाहेन निजावासं, यावत्तावन्परस्परम् // 2 // वयस्याश्चिन्तयामासुः, स्नेह: सत्योऽनयोर्न वा। पूवमेकस्ततो गत्वा, तस्य कान्तामवोचत / / 3 / / मृतस्तव पतिर्भद्र!, श्रुत्वा वग्राहतेव सा। सत्ये सत्यमिदमिति, पृष्टठा वारत्रयं मृता // 4 // तत्स्वरूपंच वणिजे, कतिथं सोऽपि तत्क्षणात्। एकोऽपि प्राप पञ्चत्व-मेवे प्रेम्णायुषः क्षयः / / 5 / / " भयाध्यवसानेनाऽप्पायु:क्षीयते, यथा"नगरी द्वारवत्यासी-त्सर्वा स्वर्णमयालाग। अन्त:समुद्रमौर्वाग्नि-भेंज यत्प्रतिविम्वताम्॥१॥ जतुं पौराङ्गनास्येन्दून, यत्र स्वप्रतिपन्थिनः / स चन्द्र सेनश्चन्द्रोऽस्थात्, शालशीषावलीमिषात्॥२॥ वासुदेवोऽभवत्तत्र, वसुदेवनृपाङ्गज देवकीकुक्षिकासार-कलहंस: क्षितीश्वरः / / 3 / / द्विष पौरुषवन्तोऽपि, यदलैरवला: कृताः / सृष्टिव्यत्यासकरणा-ज्जिज्ञे सृष्टापितैः स्पुटम्॥४॥ सूनुं स्तनंधयं धाप-यन्ती स्त्री वीक्ष्य काञ्चन। अधृतिं देवकी चक्रे, पृष्टारिष्टारिणा क्षणात् / / 5 // अधृतिं किं विधत्सेऽम्ब!, तयोक्तं जात जातु मे। तनूजन न वक्षोज-पय: केनाप्यपीयत॥३॥ वायुदवोऽवदन्मात:!, मा कार्षीस्त्वमिहाधृतिम्। कारायष्यामि ते पुत्र-प्राप्तिमाराध्य देवताम् / / 7 / / देवताऽऽराधिताऽवादी-दिव्य: सूनुर्भविष्यति। अभूञ्च तनुभूस्तस्या, नान्यथा देवतावच: / / 8 / / गजसुकुमाल इति, नाम चक्रे कृतोत्सवम्। सुतां सोमिलविप्रस्य, स युवा पर्यणाय्यत // 9 // सोऽन्येद्यु: स्वामिनो नेमे:, श्रुत्वा धर्ममभूव्रती। विजह स्वामिना सार्द्ध, सेय॑स्तस्मिन्नभूद् द्विजः // 10 / / क्रमेण प्रभुमि: साकं, द्वारिका पुनरागमत्। प्रभुं पृष्टा पितृवने, कायोत्सर्गेण संस्थितः / / 11 / / तथास्यं तत्र दृष्टांतं, रुष्टो दुष्टा द्विजस्ततः। निवेश्य कण्टकं मूर्ध्नि, चिताङ्गारैरपूरयत्।।१२।। तत्कष्टं सहभानस्यो-त्पन्नं केवलमुज्ज्वलम्। अन्तकृत्केवलित्वेन, तदैव प्राप निर्वृतिम् / / 13 / / विष्णु: प्रात: प्रभुं नत्वा, साधूश्चापृच्छदच्छधीः / क्व मे बन्धु: प्रभु: स्माह, निश्वस्थात्प्रातमा बहिः / / 14 / / वासुदेवो गतस्तत्र, परासुमवलोक्य तम्। त। (5) आयुश्च सप्तधा भिद्यते। तद्यथाअज्जवसाणनिमित्ते, आहारे वेयणापराघाए। फासे आणापाणू, सत्तविहं मिज्जए आउं / / 2041 || अतिहर्षविषादाभ्यामधिकमवसानं चिन्तनमध्यवसानं तस्मा द्भिद्यतेखण्ड्यते-उपक्रम्यते आयु: - अतिशयेन हृदयसंरोघात् / अथवारागस्नेहमयभेदादध्यवसानं विधा, तस्मादायुर्भिद्यते (विशे.) निमित्तं दण्डकशादिकं वक्ष्यति, तत्र च सत्यायुर्भिद्यते। तथा- आहारे समधिके अभ्यवहते, वेदनायां, चातिशयवत्यां, शिरोऽक्षिकुझ्यादिप्रभवायां, पराघाते च गतपातादिसमुत्थे, तथा-स्पर्श भुजङ्गादिसंबन्धिनि, तथाप्राणापानयोश्च निरोधे सत्यायुर्भिद्यत इति एवं सप्तविघं-सप्तभिः प्रकारैः प्राणिनामायुर्भिद्यते- उपक्रम्यते इति। विशे। एतेषां क्रमेणोदाहरणानि। तत्र रागाद्यध्यवसानेन क्षीयते आयु:"एकस्य कस्यचिद् गावो, ह्रियन्ते स्म मलिम्लुवैः / पालनाय गवां जग्मुः, पत्तयस्तस्कराननु // 1 // वालता वालयित्वा गा-स्तत्रैकस्तरुण: पुमान्। गृहीताङ्ग इवानङ्ग-स्तृषितो ग्राममध्यगात्।।२।। तत्रैका ग्रामतरुणी, तमपीप्यत्पयः परम्। शिरा धूनयतोऽप्यस्य, निवृत्त्यै नन्यवर्तत // 3 // स उत्थाय युषा यासी-त्सा तु तद्रूपमोहिता। अनुरागमहाधूर्त- क्षिप्तचूर्णेव तदशा // 4 //