________________ आयरणया 329 अभिधानराजेन्द्रः भाग 2 आयरिय आयरणया- स्त्री॰ [आद(च)रणता] यतो मायाविशेषादादरणम्अभ्युपगमं कस्यापि वस्तुन: करोत्यसावा-दरणम् , ताप्रत्ययस्य च | स्वार्थिकत्वादादरणता। मायाविशेषे, आचरणताऽप्यौत। भ० 120 श०५ उ. 449 सूत्र टी। आयरिय-पुं(आचारिक)- स्वकीयमतोद्भवानुष्ठानसमूहे, उत्त। इह मेगे इह (उ) मन्नंति, अपचक्खाय पावर्ग। आयरियं विदित्ताणं, सव्वदुक्खा विमुच्चइ ||9|| इह-अस्मिन्संसारे एके-केचित्कापिलिकादयो ज्ञानवादिनः इति मन्यन्ते, इतीति किम् ? पापकम् -हिंसादिकम् अप्र-त्याख्याय पापम्अनालोच्याऽपि मनुष्य आचारिकं स्वकीय- मतोद्भवानुष्ठानसमूह विदित्वा- ज्ञात्वा सर्वदुःखात् विमुच्यते, एतावता तत्त्वज्ञानान्मोक्षावाप्ति:" इति वदन्ति / जैनानां तु ज्ञानक्रियाभ्यां मोक्षः, ज्ञानवादिनां तु ज्ञानमेव मुक्त्यङ्गम्। उत्त०६ अा (एतन्मतनिराकरणं 'मोक्ख' शब्दे षष्ठे भागे करिष्यते) *आचरित-न आ-चर भावे क्त:। आचरणे, उत्ता आचरण- माचरितम्। तत्तक्रियाकलाप:। उत्त०६ अ०९ गाथाटी। आसेवने, औ०४० सूत्र टी० / 'अवज्झाणायरिअं" (सूत्र-६+) आचरित:- आसेवितः। उपा० १श्रु०१ अ. "जं किंचि वितहमायरियं''।६८२४|| यत्किंचिद्वितथम् अन्यथा आचरितम-आसेवितं भूतमिति वाक्यशेष: आ०म०१ अ! अनुष्ठानमापन्ने "ज किंचि वितहमायरियं"|१४|| वितथम् - अन्यथाभूतं, संयमानुत्कलमित्यर्थः, आचरितम्- अनुष्ठानमापन्नमिति शेष:। पञ्चा. 12 विवः। धम्मज्जियं च ववहारं, बुद्धेहाऽऽयरियं सया। तमायरंतो ववहारं, गरहं नाऽभिगच्छइ / / 4 / / धर्मेण-क्षान्त्यादिरूपेणार्जितम्- उपार्जितं धार्जितं, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति, च: पूरणे, विविधं विधिवद्वा व्यवहरणमनेकार्थत्वात् आचरणं व्यवहारः 'तम्' इति- कर्तव्यतारूपं बुद्धः- अवगततत्त्वैराचरितं सदासर्वकालं, तमिति सदावस्थिततया प्रतीतमेव आचरन्-व्यवहरन्, यद्वा-यत्तदोर्नित्याभिसंबन्धात्सुप्व्यत्ययाच धर्मार्जितो बुद्धराचरितश्च यो व्यवहारस्तमाचरन् कुर्धन् विशेषेणापहरति पापकर्मेति व्यवहारस्तम्, व्यवहारविशेषणमेतत, एवं च किमित्याह- गहमिविनीतोऽयमित्येवंविधां निन्दा नाऽभिगच्छति न प्राप्नोति यतिरिति गम्यते। उत्त०१ अ०। आचर्यते स्म बृहत्पुरुषैरप्याचरितमा व्यवहारे, व्यवहारैकार्थिकान्यधिकृत्य (आह भाष्यकार:)"आयरिए चेव ववहारे ||7+| व्य.१ उ। *आचर्य-त्रिका आचर्यतेऽत्र आ-चर-आधारे यत्। अनुष्ठानयोग्ये देशे, वाचा *आचार्य-पुंo आचर्यते असावाचार्य : सूत्रार्थावगमार्थ ममुक्षुभिरासेव्यते इत्यर्थः। आव 4 अ० 47 गाथा टी० धा दशा०। १-'आयरियं' ति-सूत्रत्वात् / उत्त० पाई०६अ। 'आयरियाणं' (सूत्र-१४) आ-मर्यादया तद्विषयविनयरूपया चर्यन्तेसेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभि-रित्याचार्याः। उत्तंच'सुत्तत्थविऊ लक्खण-जुत्तो गच्छस्स मेढिभूओय! गणतत्तिविप्पमुक्को, अत्थं वाएइ आयरिओ" |||| इति। अथवा-आचारो-ज्ञानाचारादि: पञ्चधा, आ-मर्यादया वाऽऽचारो विहार: आचारस्तत्र साधवः स्वयंकरणात्प्रभाषणात्प्र- दशनश्चेित्याचार्याः। आह च-" पंचविहं आयारं आयरमाणा तहापयासंता। आयारं दंसंता, आयरिया तेण वुचंति (994) / " (आव. नि.) अथवा-आईषद्; अपरिपूर्णा इत्यर्थ: चारा: हेरिका ये ते आचाराः; चारकल्पा इत्यर्थः, युक्ताऽयुक्तवि- भागानिरूपणनिपुणा विनेया अतस्तेषु साधवो यथावच्छस्त्रा-र्थोपदेशकतयेत्याचााः / भ०१ श०१ऊा दशा। 'घर' गति-भक्षणयोः, आयूर्वः। आचर्यते कार्यार्थिभिः सेव्यते इत्याचार्य:। "ऋवर्णव्यञ्जनात् ध्यण'११।१७।। इति ध्यण। आ. म.१ अ. 993 गाथा। आड् मर्यादाभिविध्योः, चरिर्गत्यर्थ; मर्यादया चरन्तीत्याचा~। आचारेण वा चरन्तीत्याचार्याः। आ.चू. १अ. 993 गाथाचूर्णिः। अट्ठारससीलंगसहस्साहिहियं तणूछत्तीसइविहमायारंजहट्ठियं में गिलाए महत्ति साणुसमयं आयरंतित्तिवत्तयंतित्ति आयरिया। परमप्पणो यहियमायरंति आयरिया। सवसत्तसीगसगणाणं च हियमायरंति आयरिया। पाणपरिचाए विउ पुढवादीणं समारंभ नाऽऽयरंति, नारभंति, णाणुजाणंति, आयरिया। सुहुमावरद्धेवि ण कस्सइमणसाऽवि पावमायरंति त्ति वा आयरिया। महा.३अ / "स्याद्भव्यचैत्यचौर्यसमेषु यात्"||२|१०वा इति हैमप्राकृतसूत्रेण चौर्यशब्देन समेषु शब्देषु संयुक्तस्य यात्पूर्वइता प्रा!"आचार्ये चोऽच 8973 / / इति हैमप्राकृतसू-त्रेणाचार्य्यशब्दे चस्याऽऽत इत्त्वमत्त्वं च। प्रा० / गुरौ० पं. 2013 गाथाटी०। पञ्चस्थविराणां मध्ये प्रथमे स्थविरे, ध०३ अधि० 54 श्लोका आचार्या:-अर्थदातारः। बृ.१ उ०३ प्रक० 639 गाथटी। आचार्यम्सूत्रार्थदाता, दिगाचार्यो वा कल्प, 3 अधि९क्षण 46 सूत्र टी। आचार्य्यस्सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्चा आव०३ अ 1995 गाथाटी। विषयाः(१) निक्षेप आचार्यपदस्य। (2) भेदा:-कलाचार्य: 1, शिल्पाचार्य:२, धर्माचार्यश्चेति 3, तेषां विनय:। (3) स्वरूपमाचार्य्यस्येह परत्र च। प्रव्राजनाचार्या उपस्थापनाचार्याश्च / स्वरूपमाचार्य्यस्य 'सुत्तत्थ' इत्यादि। (6) लक्षणमाचार्य्यस्य। गुणा आचार्य्यस्य यै रहितो गुरुर्न भवति। (8) गुणा आचार्य्यस्य 'अपरिश्रावी' त्यादि।