SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आभिणिबोहियणाण 312 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण स्य लोकस्य सप्त भागाः; सप्तरज्जव इत्यर्थः, उपरि-ऊर्ध्वम् इलिकागत्या विग्रहगतस्य निरन्तराऽपान्तराल-स्पर्शिनोऽनुत्तरविमानेषु गमने, तत आगमने वा / अधस्त्वनयैव गत्या षष्ठनरकपृथिवीगमने | आगमने वा पञ्चचतुर्दशभागाः पञ्च रज्जव: प्राप्यन्ते। इदमुक्तं भवतियदाऽत्राऽऽभिनिबोधिकज्ञानी मृत्वा / इलिकागत्यानुत्तरसुरेषूत्पद्यते, तेभ्यो वाऽत्र मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्ड: सप्तरज्जुप्रमाणक्षेत्रे भवति, अधस्त्वनयैव गत्या षष्ठनरकपृथिव्यां गच्छतः, तत आगच्छतो वा पञ्चरज्जुप्रमाणक्षेत्रेऽसौ लभ्यत इति। विराधितसम्यक्त्वो हि षष्ठपृथ्वीं यावत् गृहीतेनाऽपि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते कार्मग्रन्थिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्य, मनुष्यो वा तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते, न गृहीतेन; सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैवतेनोपजायते। आह भवत्वेवं किंतु य: सप्तमपृथिव्या गृहीतसम्यक्त्वोऽत्रागच्छति तस्याऽध: षट्चतुर्दश भागाः किमिति न लभ्यन्ते? इति (विशे०।) ('सम्मत्त' शब्दे सप्तमे भागे स्फुटीभविष्यति) (स्पर्शनाद्वाम्। क्षेत्रस्पर्शनयोर्विशेषश्च 'फासणा' शब्दे पञ्चमभागे (431) गाथया दर्शयिष्यते)। एकस्याऽऽभिनिबोधिक ज्ञानिजीवस्य वे क्षेत्रस्पर्शने, ताभ्यां सकाशान्नानाऽऽभिनिबोधिकजीवानां या: क्षेत्रस्य स्पर्शनास्ता असंख्येयगुणा: नानाऽभिनिबोधिकजीवानां सर्वेषामसंख्येयत्वा-दिति भाव: कालद्वारमधिकृत्याहएगस्स अणेगाण व, उवओगंतो मुहुत्ताओ।।४३४।। द्विधा मतिज्ञानस्य कालश्चिन्तनीयः- उपयोगतो, लब्धितश्च / तत्रैकजीवस्य तदुपयोगो जघन्यत उत्कृष्टतश्चाऽन्तर्मुहूर्तमेव भवति, परत उपयोगान्तरगमनादिति। सर्वलोकवर्तिनामनेकाऽऽभि-निबोधिकजीवानामपीदमे वोपयोगकालमानम्, केवलमिद-मन्तर्मुहूर्तमपि बृहत्तरमवसेयम्। लब्धिमङ्गीकृत्य कालमानमाहलद्धी वि जहण्णेणं, एगस्सेवं परा इमा होई। अह सागरोवमाई,छावहिं सातिरेगाई॥४३५|| आभिनिबोधिक ज्ञानलब्धिरपि तदावरणक्षयोपशमरूपाऽऽवाप्तसम्यत्वस्यैकजीवस्य जघन्यतएवमितिएवमेव; अन्त-मुहूर्तमेवेत्यर्थ: परतो मिथ्यात्वगमनात्, केवलाऽवाप्तेर्वा! परा तूत्कृष्टा तल्लब्धिरेकजीवस्येयम्-अनन्तरवक्ष्यमाणा भवति। अथ सैवोच्यते-सातिरेकाणि षट्षष्टिसागरोपमाणि। कथं पुनरेतानि भवन्ति, नानाजीवानां च कियान् लब्धि-काल: ? इत्याहदो वारे विजयाइसु, गयस्स तिनचुए अहव ताई। अइरेगं नरभवियं, नाणाजीवाण सव्वऽद्धं // 436 / / इह कश्चित्साधुर्मत्यादिज्ञानान्वितो देशोनां पूर्वकोटीया-वत्प्रव्रज्यां परिपाल्य विजयवैजयन्तजयन्ताऽपराजितविमानाना मन्यतरविमाने उत्कृष्टं त्रयस्त्रिंशत्सागरोपमलक्षणदेवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषु उत्पन्नो देशोनां पूर्वकोर्टी प्रव्रज्यां विधाय तदैव विजयादिषूत्कृष्टमायुःसंप्राप्य पुनरप्रतिप- तितमत्यादिज्ञान एव मनुष्यो भूत्वा पूर्वीकोटी जीवित्वा सिद्ध्यतीति। एवं विजयादिषु वारद्वयं गतस्य; अथवा- अच्युत-देवलोके द्वाविंशतिसागरोपमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि षट्षष्टिसागरोपमाणि अधिकानि भवन्तिः अधिक चेह नरभवसंबन्धिदेशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रव्यम्। नाना-जीवानां तु सर्वाऽद्धसर्वकालं मतिज्ञानस्य स्थितिः। इति गाथा (विशे०)ऽर्थः / अथाऽन्तरद्वारमाश्रित्याहएगस्स जहन्नेणं, अंतरमंतो मुहुत्तमुक्कोसं / पोग्गलपरिअट्टद्धं, देसूणं दोसबहुलस्स / / 437|| इह कश्चिज्जीवः सम्यक्त्वसहितं मतिज्ञानमवाप्य- प्रतिपत्त्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्यक्त्वसहितं तदेव प्राप्नोति। तदेतन्मतिज्ञानस्य जघन्यमन्तरमुहूर्तमन्तरं प्राप्ति-विरहकालरूपं भवति। आशातनादिदोषबुहलस्यतुजीवस्य सम्यक्त्वात् प्रतिपतितस्य देशोनपुद्गलपरावर्ताऽर्द्धरूपमुत्कृष्ट- मन्तरं भवति, एतावता कालेन पुनरपि सम्यक्त्वाऽऽभिनि-बोधिकलाभात् इत्येकजीवस्योक्तमन्तरम्। अथ नानाजीवानां तदभिधित्सुः, भावद्वारं च बिभणिषुराहजमसुन्नं तेहिं तओ, नानाजीवाणमंतरं नऽत्थि / मइनाणी सेसाणं,जीवाणमणंतभागम्मि / / 438 / / यत् यस्मात्तै:- आभिनिबोधिक ज्ञानिभिरशून्यं सर्वदैव नारकादिगतिचतुष्टयाऽन्वितं त्रिभुवनमिदंततस्तस्मान्नानाजीवाना-श्रित्य नाऽस्ति मतिज्ञानस्याऽन्तरकालः। तथा मतिज्ञानिन: शेषज्ञानवतां जीवानामनन्ततमे भागे वर्तन्ते, शेषज्ञानिनो हि वेचलिसहितत्वादनन्ता:, आभिनिबोधिकज्ञानिनस्तु सर्व-लोकेप्यसंख्याता एवेति भावः। इति गाथाद्वयार्थ:। अथ भावद्वारम्, अल्पबहुत्वद्वारं चाऽभिधित्सुराहभावे खओवसमिए, मइनाणं नथिसेसमावेसुं। थोवा मइनाणविऊ, सेसाजीवा अणंतगुणा / / 439|| मतिज्ञानाचरणे हि कर्मण्युदीर्णे क्षीणे, अनुदीर्णे तूपशान्ते मतिज्ञानमुपजायते, अत: क्षायोपशमिक एव भावे तद्वर्त्तते, न तु शेषेष्वौदयिक क्षायिकादिभावेष्विति मतिज्ञानेन विदन्तीति मतिज्ञानविद: स्तोकाः शेषज्ञानयुक्तास्तु सिद्धकेवल्यादयो जीवा अनन्तगुणा इति। एवमपि तावदल्पबहुत्वं भवति। केवलमिहै- वमुच्यमाने भागाऽल्पबहुत्वद्वारयोरर्थत: परमार्थतो न कश्चिद्विशेषो भेदो दर्शितो भवति। तेन तस्यैवाऽऽभिनिबोधिकस्य पूर्वप्रति-पन्नप्रतिपद्यमान-- कानाश्रित्याऽल्पबहुत्वं वक्तुमुचितं, पौन-रुक्त्याऽभावादिति। एतदेवाहनेह त्थओ विसेसो, भागप्पबहण तेण तस्सेव /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy