________________ आभिणिबोहियणाण 311 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण भते / अत: प्रस्तुते सम्यक्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, नतुप्रतिपद्यमानक:, सम्यक्त्वज्ञानयोर्युगपल्लाभात, तत्काले च क्रियाया अभावात, तदभावे च प्रतिपद्यमानकत्वायोगादिति। निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिबोधकस्य पूर्वप्रतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियाया: कार्यनिष्ठायाश्च युगपद्भावस्य समर्थितत्वात्। इत्यलमतिविस्तरेणेति। विशे। ज्ञानद्वारे - मतिश्रुतावधिमनःपर्यायकेवलभेदात्पञ्चधा ज्ञानम्। व्यवहारनयमतेनमतिश्रुतावधिमन:पर्यायज्ञानिन: आभिनि- बोधिकस्य पूर्वप्रतिपन्ना भवन्ति, नतु प्रतिपद्यमानका:ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन प्रागुक्तत्वात्। केवलिनां तूभयाभावः, तेषां क्षयोपशमिकज्ञानातीतत्वात्। मत्यज्ञानश्रुताऽ- ज्ञानविभङ्गज्ञानवन्तस्तु प्रतिपद्यमानका: कदाचित् भवन्ति, युक्तेदर्शितत्वात्, नतु पूर्वप्रतिपन्नाः, निश्चयनयमतनेन तु मति- श्रुतावधिज्ञानिन: पूर्वप्रतिपन्ना नियमत: सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्ते: समर्थितत्वात्। मन:- पर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानका: पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मन: पर्यायज्ञानसद्भावात्ा केवलिनां तूभयाभावः। एवं मत्या- धज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः। दर्शनद्वारे- चक्षुरचक्षुरवधिकेवलदर्शनभेदात् दर्शनं तु चतुर्धा! अत्राद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमत: प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीया:, तदुपयोगत्वाश्रित्य पूर्वप्रतिपन्ना एव नतु प्रतिपद्यमानका: मतिज्ञानस्य लब्धित्वात्, लब्ध्युत्पत्तेश्व दर्शनोपयोगे निषिद्धत्वात, "सव्वाओ विलद्धीओ, सागारोपउत्तस्स उववज्जति''इति वचनादिति / केवलद-शनिनां तूभयाभावः / संयतद्वारे- संयतादयश्चाऽऽभिनिबोधकस्य पूर्वप्रतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते। ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात्संयत: कथं प्रतिपद्यमानकोऽवाप्यते? सत्यं, किंतु-योऽतिविशुद्धिवशात्स-म्यकत्वं चारित्रं च युगपत्प्रतिपद्यते स तस्यामवस्थायां प्रतिप- द्यमानस्य संयमस्य प्रतिपन्नत्वात्संयतो मतेः प्रतिपद्यमानको भवतिः उक्त चावश्यकचूर्णी-"नऽस्थि चरित्तं सम्मत्तविहूणं दंसणं तु भयणिज्ज''। भजनामेव आह-"सम्मत्तचरित्ताइ जुगवं, पुव्वं च सम्मत्त" उपयोगद्वारेउपयोगो द्विधा-पञ्च ज्ञानानि, त्रीणि चाज्ञानानि साकारोपयोगः; चत्वारि दर्शनानि अनाकारोपयोग: तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिप- द्यमानकास्तु भजनीयाः। अनाकारोपयोगे तु प्रतिपन्ना एव, नतु प्रतिपद्यमानकाः। अनाकारोपयोग लब्ध्युत्पत्ते: प्रतिषिद्धत्वादिति। आहारकद्वारेआहारकाः साकारोपयोगवद् / अनाहारकास्त्व-पान्तरालगतौ प्रतिपन्ना: संभवन्ति, प्रतिपद्यमानकास्तु नभवन्त्येव। भाषकद्वारे भाष्यकार एवाह मासासलद्धिओ लमई,भासमाणो अभासमाणो वा। पुष्वपडिवन्नओवा, उभयं पि अलद्धिए नऽस्थि / / 427|| भाषालब्ध्या सह वर्त्तते इतत भाषासलब्धिक: भाषालब्धिमांश्चेद्भवतीत्यर्थः तदा भाषमाणोऽभाषमाणो वा लभते प्रतिपद्यते कश्चिन्मतिज्ञानं, पूर्वप्रतिपन्नौ वा भवति, भाषालब्धियुक्तो मनुष्यादिर्जात्यपेक्षया पूर्वप्रतिपन्नो नियमाल्लभते प्रतिपद्यमानकोऽपि भजनयेति तात्पर्यम्। अलब्धिके भाषालब्धिशून्ये पुनरुभयमपि नास्ति, सोकेन्द्रिय एव, तस्य च प्रागुक्तवदुभयाभाव एवेत्यर्थः। इति गाथार्थः / परीत्तद्वारे-परीत्ता: प्रत्येकशरीरिणः, परीत्तीकृतसंसारा वा; स्तोकावशेषभवा इत्यर्थः। एते उभयेऽपि पूर्वप्रतिपन्ना नियमा-ल्लभ्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः। अपरीतास्तु साधार- णशरीरिणः, अपार्द्धपुद्गलपराव दप्युपरिवर्तिसंसारा वा; मिथ्यादृष्टित्वादुमयेऽप्युभयविकला:। पर्याप्तकद्वारे-षट्पर्याप्ति-भि: पर्याप्ताः परीतवद्वाच्यास्तदपर्याप्तास्तुप्रतिपन्ना एवन वितरे। सूक्ष्मद्वारे-सूक्ष्मा उभयविकला:। बादरास्तु पर्याप्तकवद्वाच्याः। संज्ञिद्वारे-दीर्घकालिकोपदेशेन संज्ञिनो गृह्यन्ते,ते चबादरवद्भावनीयाः / असंज्ञिनस्तु अपर्याप्तवदिति। भवद्वारेभवसिद्धिका: संज्ञिवद। अभवसिद्धिकास्तूभयशून्या:। चरमद्वारे- चरमो भवो भविष्यति येषां तेऽभेदोपचाराचरमा भव्यवद् अचरमास्त्वभव्यवदिति / तदेवं कृता गत्यादिद्वारेषु भाष्ये वृत्तौ च सत्पदप्ररूपणता। अथ (2) द्रव्यप्रमाणमाहकिमिहाभिणिबोहिनियनाणि-जीवदव्वपमाणमिगसमए। पडिवज्जेज्जंतुन वा, पडिवज्जे जहन्नओ एग्गो ||426|| खेत्तपलिओवमासं-खभागउक्कोसओ पवज्जेज्जा। पुथ्वपवना दोसु वि, पलियासंखेज्जईभागो // 429|| किमिहाऽस्मिन् लोकेआभिनिबोधिकज्ञानपरिणामापन्नजी- द्रव्याणां प्रमाणमेकस्मिन् विवक्षितसमये? एवं शिष्येण पृष्टे सत्याह-प्रतिपद्येरन्, नवेति। इदमुक्तं भवति-यदि प्रतिपद्य- मानकानां प्रमाणं पृच्छसि, तदा प्रतिपद्यमानकास्तस्य विवि- क्षितसमये प्राप्यन्ते न वा। तत्र प्रतिपद्यमानप्राप्तिपक्षे जघन्यत एक: प्रतिपद्येत, उत्कृष्टस्तु सर्वलोके क्षेत्रपल्योपमासंख्येयभागः प्रतिपद्येता अथ पूर्व प्रतिपन्नानां तेषां प्रमाणमिच्छसि ज्ञातुं, तर्हि पूर्वप्रतिपन्ना द्वयोरपि पक्षयोर्जघन्योत्कृष्टलक्षणयोः क्षेत्रपल्योप- माऽसंख्येयभागप्रदेशराशिप्रमाणा: प्राप्यन्ते, केवलं जघन्यपदा-दुत्कृष्टं विशेषाऽधिकम्। इति गाथाद्वयार्थः। अथ (3) क्षेत्रद्वारमधिकृत्याहखेत्तं हवेज्ज चोहस-भागा सत्तोवरि अहे पंच। इलियागईए विग्गह-गयस्स गमणेऽहवाऽऽगमणे // 430 / / नानाजीवानपेक्ष्य सर्वेऽप्याभिनिबोधिक ज्ञानिनः पिण्डिता लोकासंख्ये यभागमेव व्याप्नुवन्ति। एक जीवस्य तु क्षेत्रं भवेत्कियद ? इत्याह- सप्तचतुर्दशभागा: चतुर्दशभागीकृत