________________ आभिणिबोहियणाण 310 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण सिद्धिगतौ सिद्धः इन्द्रियद्वारे-अतीन्द्रिय: कायद्वारेअकाय:, योगद्वारे- अयोग:, लेश्याद्वारे-अलेश्यः, ज्ञानद्वारे-केवलज्ञानी, दर्शनद्वारेकेवलदर्शनी, तथा, संयमपरीत्त-पर्याप्त-सूक्ष्म- संज्ञि-भव्यद्वारेषुयथासंख्यं नोसंयत-नोपरीत्त-नोपर्याप्त-नो-सूक्ष्म-नोसंज्ञि-नोभव्या इति। एते सर्वेऽपि सर्वज्ञत्वान्मतिज्ञानशून्या:,छास्थस्यैव तत्संभवादिति भावः। तथा-परीत्त-भव्य- चरमद्वारेषु परीत्ता-ऽभव्याऽचरमा अपि मिथ्यादृष्टित्वान्मतिज्ञानशून्या:। तदेवमेते सर्वे सर्वदैव मतिज्ञानशून्या मन्तव्या उभयाभादात् / इति गाथार्थः। अथ गत्यादिद्वारोष्वेव पूर्वप्रतिपन्नप्रति पद्यमानकचिन्तां कुर्वन्नावियला अविसुद्धलेसा, मणपज्जवणाणिणो अणाहारा। असण्णि अणगारोव-ओगिणो पुव्वपडिवन्ना ॥४९शा सेसा पुष्वपवण्णा, नियमा पडिवज्जमाणया भइया। भयणा पुष्वपवण्णा अकसायाऽवेयया हॉति / / 413|| विकला:-द्वित्रिचतुरिन्द्रियलक्षणा विकलेन्द्रियाः तथाअविशुद्धलेश्या: भावलेश्यामङ्गीकृत्य कृष्ण-नील-कापोत लेश्या-वृत्तयः तथा-मन:पर्यायज्ञानिन: अनाहारकाः, असंज्ञिन:, अना-कारोपयुक्ताः; एते सर्वेऽपि मतिज्ञानस्य यदि भवन्ति। तथा पूर्व- प्रतिपन्ना एव, नतु प्रतिपद्यमानकाः, तथा हि-इन्द्रियद्वारे केचि- द्विकलेन्द्रिया ये सास्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति तेषां पूर्वप्रतिपत्तिमङ्गीकृत्य स्यान्मतिज्ञान, प्रतिपद्यमानस्त्वस्य विकलेन्द्रिया: सर्वेऽपिन भूवन्त्येव, तथाविधविशुद्ध्यभावात्। तथा-लेश्याद्वारे-अविशुद्धलेश्या अपि पूर्वप्रतिपन्ना: केचिद्भवन्ति, नतुप्रतिपद्यमानका: विशुद्धभावलेश्यानामेव तत्प्रतिपत्तेः ज्ञानद्वारे-मन:पर्यायज्ञानिन: सर्वेऽपि पूर्वप्रतिपन्ना: भवन्त्येव, नतु प्रतिपद्यमानका:, सम्यक्त्वसहचरितप्राप्तमतिज्ञानस्यैव पश्चादप्रमत्तसंयतावस्थायां मन:पर्यायज्ञानोत्पत्तेः सम्यक्त्वसहचरितचारित्रलाभे तु मति सहचरितं मनः पर्यायज्ञानं नोत्पद्यत एव, अत एव वचनाद् अन्यथा अवधिज्ञानीव मन: पर्यायज्ञान्यपि निश्चयनयमतेन प्रतिपद्यमानक: स्यादिति / आहारकद्वारे अनाहारकाः केचिद्देवादयः पूर्वभावाद् गृहीतसम्यक्त्वा मनुष्यादिषूत्पद्यमानाः मते: पूर्वप्रतिपन्ना भवन्ति, नतु प्रतिपद्यमानका: तथाविधविशुद्ध्यभावात्। संज्ञाद्वारे असंज्ञिनो विकलेन्द्रियवद्भावनीयाः। उपयोगद्वारे अनाकारोपयोगिन: के चित्पूर्वप्रतिपन्ना भवन्ति, नतु प्रतिपद्यमानका: मतिज्ञानस्य लब्धित्वात्तदुत्पत्तेश्चाना-कारोपयोगे प्रतिषिद्धत्वादिति। उक्तशेषास्तुगतिद्वारे नारकादयः, इन्द्रियद्वारेतुपञ्चेन्द्रिया:, कायद्वारे तुत्रसकायिकाः, इत्येवमादयो जातिमपेक्ष्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीया:-कदाचिद्भवन्ति, कदाचिन्नेति / अतिव्याप्तिनिषेधार्थमाह- 'भयणा पुव्वपवन्ना' इत्यादि कषायद्वारे अकषायाः वेदद्वारे त्ववेदकाः, भजनया पूर्वप्रतिपन्नया एव भवन्ति, छद्मस्था: पूर्वप्रतिपन्ना: मतेर्भवन्ति, नतु केवलिन:, प्रतिपद्यमान कास्त्वमी न भवन्त्येव, पूर्वप्रतिपन्न- मतिज्ञानानामेव क्षपकोशमश्रेणिप्रतिपत्तेः। इति गाथाद्वयार्थः। तदेवं संक्षेपतो गत्यादिद्वारेषु भाष्यकृता मतिज्ञानस्य कृता सत्पदप्ररूपणा। अथ विनेयाऽनुग्रहार्थं किंचिद्विस्तरतोऽप्यसौ विधीयते-तत्र मतिज्ञानं किमस्ति, नवा ? यद्यस्ति, क्व ? तद्गत्यादिस्थानेषु। तत्र नारकतिर्यङ् नरामरभेदागतिश्चतुर्दा। तत्र चतुविधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमात्सन्ति, प्रतिपद्यमानकास्तु भाज्या:- विवक्षितकाले कदाचिद्भवन्ति, कदाचित्तु नेत्यर्थः। आभिनिबोधिकप्रतिपत्तिप्रथमसमये प्रतिपद्यमानका उच्यन्ते, द्वितीयादिसमयेषु तु पूर्वप्रतिपन्ना इत्यनयोर्विशेषः। इन्द्रियद्वारेएकन्द्रियेषूभयाभावः। सैद्धान्तिकमतेन कार्मिकग्र- न्थिकास्तुलब्धिपर्याप्तबादरपृथव्यवनस्पतीन् करणाऽपर्याप्तान् पूर्वप्रपन्नानिच्छन्ति, सास्वादनस्य तेषूत्पत्तेः। विकलेन्द्रियास्तूम- यमतेनाऽपि करणाऽपर्याप्ताः सास्वादनमेव पूर्वभवायातमङ्गी- कृत्य पूर्वप्रतिपन्ना लभ्यन्ते, नतु प्रतिपद्यमानका: पञ्चेन्द्रियास्तु सामान्येन पूर्वप्रतिपन्ना नियमत: सन्ति प्रतिपद्यमानकास्तु भजनीया:। कायद्वारे-पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात्षोढा काय:। तत्राद्यकायपञ्चकैउभयाभावः त्रसकाये तुपञ्चेन्द्रियवद्वाच्यम्। योगद्वारे कायवाङ्मनोभेदात्रिधा योग:, स एष त्रिविधोऽपि समुदितो येषामस्ति तेषां पञ्चेन्द्रियद्वाच्यम्, मनोरहितवाग्योगिनां विकलेन्द्रियवत्, केवलकाययोगिनां त्येकेन्द्रियवदिति। वेदद्वारेस्त्रीपुंनपुंसकभेदात् त्रिविधेऽपि वेदे पञ्चेन्द्रियवत् भावनीयम्। कषायद्वारे तु चतुर्खनन्ताऽनुबन्धिषु सास्वादनमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते; न प्रतिपद्यमानक:, शेषेषु द्वादासु कषायेषु पञ्चेन्द्रियवदेवा लेश्याद्वारेभावलेश्यामङ्गीकृत्य कृष्णादिकासु तिसृष्वप्रशस्तलेश्यासुपूर्वप्रतिपन्ना: संभवन्ति, नत्वितरे;प्रशस्तेतु नेश्यात्रये पञ्चेन्द्रियवदेवा सम्यक्त्वद्वारेनिश्चयव्यवहारनयाभ्यां विचारः। तत्र व्यवहारनयो मन्यतेमिथ्यादृष्टिरज्ञानी च सम्यक्त्वज्ञानयोः प्रतिपद्यमानको भवति, न तु सम्यक्त्वज्ञानसहित:। निश्चयनयस्तु ब्रूते- सम्यग्दृष्टिानी च सम्यक्त्वज्ञाने प्रतिपद्यते, नतु मिथ्यादृष्टिः, अज्ञानी चा विशे०। (यत्तत् 'कज्जकारणभाव' शब्दे तृतीयभागे (114) इत्यादिगाथाभिः दर्शयिष्यते) तस्माद्-'इय न श्रवणादिकाले नाणं' (417) इत्यनेन यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिध्यते, तदा सिद्धसाध्यता। अथ चरमक्रियासमयेऽपि तन्निवार्यते, तदयुक्तम्, तत्र तस्य प्रसाधितत्वादितिा तस्मिश्च धर्मश्रवणादिक्रिया चरम-समये सम्यक्त्वं ज्ञानं च प्रतिपद्यमानं प्रतिपन्नमेवेति। अत: सम्य-गदृष्टिानी च सम्यक्त्वज्ञाने प्रतिपद्यते। इति निश्चय-नयमततात्पर्यम्। व्यवहारनयस्तु ब्रूतेतस्मिश्वरमसमये सम्य-क्त्वज्ञानयोरद्याप्यसौ प्रतिपद्यमानक:, प्रतिपद्यमानंचाप्रतिपन्न-मेवा अतोमिथ्यादृष्टि: अज्ञानीचसम्यकत्वज्ञाने प्रतिपद्यते / उत्तरत्र क्रियानिष्ठासमये तु सम्यकत्वज्ञाने युगपदेव ल