SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ आभिणिबोहियणाण 309 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण विशे०। (अस्याः गाथाया: व्याख्या 'आएस' शब्देऽस्मिन्नेव गागे गता) क्षेत्रादिस्वरूपं विशेषत: ग्राहखेत्तं लोगाऽलोग, कालं सव्वद्धमहव तिविहं ति। पंचोदइयाईए, भावे जं नेयमेवइयं ||ll क्षेत्रमपि-लोकाऽलोकस्वरूपं सामान्यादेशेन कियत्पर्याय- विशिष्ट सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशि-ष्टमिति। एवं कालमपि सर्वाऽद्धारूपम् अतीताऽनागतवर्तमानभे- दतस्त्रिविधं वा इत्येक एवार्थ:। भावतस्तु सर्वभावानामनन्तभागं जानाति, औदयिकौपशमिकक्षायिकक्षायकौपशमिकपारिणामिकान्वा पञ्च भावान् सामान्येन जानाति न परत:। कुत: ? इत्याह- यत्-यस्मादेतावदेव ज्ञेयमस्ति; नाऽन्यदिति। इह क्षेत्रकालौ सामान्येन द्रव्यागतावेव वेचलं भेदेन रूढत्वा-त्पृथगुपादानममवसेयमिति! आदेशस्य व्याख्यानान्तरमाहआएसो तिव सुत्तं,सुओवलद्धेसु तस्स मइनाणं। पसरइ तन्मावणया, विणा विसुत्ताणुसारेण ||405| अथवा-आदेश: सूत्रमुच्यते, तेन-सूत्रादेशेन सूत्रोपलब्धेष्वर्थेषु तस्य मतिज्ञानिन: सर्वद्रव्यादिविषयं मतिज्ञानं प्रसरति। ननु श्रुतोपलब्धेष्वर्थेषु यज्ज्ञानं तच्छुतमेव भवति, कथं मतिज्ञानम् ? इत्याह-'तब्भावणये' त्यादि, तद्भावनया-श्रुतोपयोगमन्तरेण तद्वासनामावत एव यद्रव्यादिषु प्रवर्तते, तत्सूत्रादेशेन मति-ज्ञानमिति भावः। एतच्च पूर्वमपि 'पुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं' इत्यादि प्रोक्तमेव। इति गाथाचतुष्टयार्थः। विशे०। भा। (13) तदेवं तत्त्वभेदपर्यायैर्मतिज्ञानं व्याख्याय, विषयं च द्रव्यादिकमस्य निरूप्य, साम्प्रतमिदमेव सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्विचारयितुमाहसंतपयपरूवणयार, दय्वपमाणं च 2 खेत्त३, फुसणा या कालो या५ अंतरं६ भाग भावः अप्पाबहुंचेव९||४०६|| सच तत्पदं च सत्पदंतस्य प्ररूपणं सत्पदत्ररूपणंगत्यादिद्वारेषु विचारणं तद्भाव: सत्पदप्रूपणता 'कस्मिन् गत्यादिद्वारे इदं सद्' इत्येवं सतोविद्यमानस्याऽऽभिनिबोधिक ज्ञानस्यगत्यादि- द्वारेषु; प्ररूपणा कर्तव्ये त्यर्थः / तथा द्रव्यप्रमाणमिति। 'मति- ज्ञानि जीवद्रव्याणामेकस्मिन्समये कियन्तो मतिज्ञानं प्रतिपद्यन्ते, सर्वे वा कियन्तस्ते? इत्येवं प्रमाणं वक्तव्यमित्यर्थः चशब्द: समुच्चयेश तथाक्षेत्रमिति 'कियति क्षेत्रे तत्संभवति?' इत्येवं मतिज्ञानस्य क्षेत्र वक्तव्यम् 3 / तथा-'कियत्क्षेत्रं मतिज्ञानिन: स्पृशन्ति' इत्येवं स्पर्शना वक्तव्या। यत्राऽवगाढस्तत्क्षेत्रं पार्श्व- तोऽपि च स्पर्शना, इत्येवं क्षेत्रस्पर्शनयोर्विशेष:, च: समुच्चये 4 तथा काल: स्थितिलक्षणो मतिज्ञानस्य वाच्य: चस्तथैव दा एकदा प्रतिपद्य वियुक्त: कियता कालेन पुनरपि प्रपद्यते' इत्येवम् अन्तरं च तस्य वक्तव्यम्घातथा मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्ते' इत्येवं भागोऽस्य वक्तव्य: / तथा कस्मिन् भावे मतिज्ञानिनो वर्तन्ते?' इत्येवं भावो भणनीय:दा तथा अल्पबहुत्वं वक्तव्यम्, भागद्वारादपि तल्लब्धमिति चेत्। नैवं, यतोऽत्र मतिज्ञानिनां स्वस्थान एव पूर्वप्रतिपन्नप्रतिपद्यमानकापे- क्षयाऽल्पबहुत्वमभिधानीय, भागस्तु शेषज्ञानापेक्षया चिन्तनीय इति विशेष: 9 / इति नियुक्तिगाथाद्वयार्थः। विस्तरार्थं तु भाष्य- कार एव वक्ष्यति। अथ (1) सत्पदप्ररूपणता किमुच्यते ? इत्याहसंतं ति विज्जमाणं, एयस्स जा परूवणया। गइआइएसु वत्थुसु, संतपयपरूवणा सा उ||४०७।। जीवस्स च तं संतं, जम्हा तं तेहि तेसु वा पयति। तो संतस्स पयाई, ताई तेसु प्ररूवणया ||408|| गत्यादिद्वारेषु सत्त्वेन चिन्त्यमानत्वात्पदं सत् उच्यते। ततश्च सतोविद्यमानस्य पदस्य या वक्ष्यमाणेषु गत्यादिद्वारेषु प्ररूपणता सा सत्पदप्ररूपणतोच्यते। अथवा जीवस्य यत्सज्ज्ञा-नदर्शनादिकं तत्तैश्च कारणभूतैः, तेषुवाऽधिकरणभूतेषु यस्मात् पर्यति' त्ति-पद्यतेअनुगभ्यते, विचार्यते तत:-तस्मात्सत: पदानि सत्पदानि तानि गत्यादीनि द्वाराण्युच्यन्ते तै:,तेषु वा प्ररूपणता मत्यादेः' इति गम्यते, सत्पदप्ररूपणता! इति गाथाद्वयार्थः। तान्येव सत्पदानि गत्यादिद्वाराणि दर्शयतिगइइंदिए य काए, जोए वेए कसायलेसासु। सम्मत्त-नाण-दसण-संजय-उवओग-आहारे।।४०९|| भासग-परित्त-पज्ज-त्त-सुहम-सण्णीय भविय-चरिमेय। पुथ्वपडिवन्नए वा, पडिवज्जते य मग्गणया||४१०।। एतेषु गत्यादिषुद्वारेषु मतिज्ञानस्य पूर्वप्रतिपन्ना: प्रतिपद्य- मानकाः, तदुभयम्, उभयाभावश्च इत्येतचतुष्टयं चिन्त्यते। तत्र येषु स्थानेषु मतिज्ञानिनो न प्रतिपद्यमानका:, नाऽपि पूर्वप्रतिपन्ना:, किंतु उभयाभावः तान्यपोद्धृत्य दर्शयतिएगिदियजाईओ, सम्मा मिच्छो य जो य सम्वन्नू। अपरित्ताय अभव्वा,ऽचरिमा (य) एएसया सुण्णा / / 411| इह सर्वेष्वपि गत्यादिद्वारेषु यावान् कोऽप्ये केन्द्रियजातीय:एकेन्द्रियप्रकार:; एकेन्द्रियभेद इत्यर्थः। एष सर्वोऽपि मतिज्ञानेन शून्यः, न तत्र मतिज्ञानस्य प्रतिपद्यमानक:, नापि पूर्व प्रतिपन्न: संभवतीत्यर्थः। "उभयाभावो एगिदिएसु सम्मत्तलद्धिए'' इति वचनादितिा क: पुनरेकेन्द्रियजातीय:? इति चेत्। उच्यते इन्द्रियद्वारेतावदेकेन्द्रिय एव कायद्वारे-पृथिव्यप्तेजोवायुवन-स्पतयः। सूक्ष्मद्वारे तु-सूक्ष्म इत्यादि। तथा- सम्यग्मिथ्यादृष्टि- रपि सम्यक्त्वद्वारे मतिज्ञानशून्यः। "सम्मामिच्छदिट्ठी णं भंते! किं नाणी, अन्नाणी?| गोयमा! नो नाणी, अण्णाणी" ऊ इत्यादिवचनादिति। यश्च क्वाऽपि द्वारे-सर्वज्ञ: केवली संभवति, सोऽपि तच्छून्य एव; तद्यथा- गतिद्वारे
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy