SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आमिणिबोहियणाण 308 अभिधानराजेन्द्रः भाग२ आभिणिबोहियणाण हादिवचनेन संग्रह्यते, न पुनस्तदेकदेश एव तीवग्रहादिश-ब्दानां सर्वेषामे कमरूपता प्राप्नोति, एकाभिधेयत्वाद्, बहुपुरुषोचारितघटाघेकशब्दवत् इत्याशङ्याह-'केवलमि' त्यादि, केवलं-1 नवरम् अर्थविशेष प्रत्यवग्रहादयः शब्दा भिन्नाः। इदमुक्तं भवतिअवग्रहशब्दोऽवग्रहलक्षणेनार्थेन सर्वमाभिनिबोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपायस्त्ववगमनलक्षणेन, धारणा तु धरणलक्षणेनेत्यादि। ततोऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेक्ष्याग्रहादिशब्दा भिन्ना: तत्त्वतस्त्वभिधेयं सर्वेषामा-भिनिबोधिकज्ञानमेव / अथवा, आह- ननु यदि सर्वमप्याभिनिबोधिकमवग्रहादि- वचनेन संगृह्यते, तविग्रहेहापायधारणानां तद्भेदानां सर्वेषामपि संकरः प्राप्नोति,अनन्तरवक्ष्यमाणव्युत्पत्तित: प्रत्येक मेषां सर्वेषामप्यवग्रहादिरूपत्वाद, इत्याशङ्कयाह-'केवलमत्थविसेसमि' त्यादि, केवलं-नवरम् अर्थविशेष प्रति अवग्रहादयो भिन्ना:। इदमुक्तं भवतियद्यप्यर्थाऽवग्रहणेहनावगमनधारणमात्रस्य सामा- न्यस्य प्रत्येक सर्वेष्वपि विद्यमानत्त्वादेकैकशोऽप्यवग्रहादिशब्दे- नोच्यन्तेऽवग्रहादयः, तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव, तथाहि- यथाभूतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूत- मेवेहायां, किं तु-विशिष्टं विशिष्टतरं, विशिष्टतमं, चाऽपाय-धारणयोः; यथाभूता चेहायां मतिचेष्टा न तथाभूतान्यत्र, किं तुविशिष्टा, विशिष्टतरा चाऽपायधारणयो: अविशिष्टतरा चाऽवग्रहेऽर्थावगमनमप्यपायात् विशिष्टं धारणायाम् अविशिष्टमविशिष्टतरं चेहावग्रहयोः; अर्थधारणमप्यवग्रहेहापायेभ्य: सर्वप्रकृष्टं धारणायाम, इत्येवमवग्रहणादिमात्रे सर्वेषां सामान्ये सत्यप्यर्थविशेष ग्राह्यमाश्रित्य भिन्ना एवावग्रहादयः। स चार्थविशेषोऽमीषां ग्राह्यः प्राग्विस्तरेण दर्शितएव, इत्येवं वा उत्तरार्द्धमिदं व्याख्याते-इदमेव च व्याख्यानं वृद्धसम्मतं लक्ष्यते, युक्त्या तु प्राक्तनमपि घटते। इत्यलं विस्तरेणेति। कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनिबोधिकं संगृहाते ? इत्याहउग्गहणमोग्गहो त्ति, य, अविसिट्ठमवग्गहो तयं सव्वं / ईहा जं मइचेट्ठा, मइवावारो तयं सव्वं ||47oll अवग्रहणं तावदवग्रह उच्यते इति कृत्वा अविशिष्टं तत्सर्वमपि ईहादिभेदभिन्नमाभिनिबोधिकज्ञानमवग्रह एव। इदमुक्तं भवतिअवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्याभिनिबोधिकज्ञानमवग्रहो भवति, यथाह्यवग्रह: कमप्यर्थमवगृह्णाति, एवमीहाऽपि कमप्यर्थमवगृह्णात्येव, एवमपायधारणे अपि इति। सर्वमप्याभिनिबोधिकज्ञानं सामान्ये-नावग्रहः। तथा यत्-यस्माद्ईहचेष्टायाम्, नमीहेतिव्युत्पत्ते: ईहापि मतेश्चेष्टा मतिचेष्टा वर्त्तते तस्मात्सर्वमपि तदा-भिनिबोधिकमविशिष्टं मतियव्यापार; ईहे-त्यर्थः, अहग्रहापाय-धारणानामपि सामान्येन मतिचेष्टारूपत्वा- दितिभावः। यतश्वाऽवगमनमवा(पा)यो भण्यते, अतोऽनया व्युत्पत्त्या सर्वमपि तदाभिनिबोधिक मर्थस्यापाय: अवग्रहे हाधारणा स्वपि सामान्येनार्थावगमनस्य विद्यमानत्वात्। तथा, धरणं धारणा यतो भण्यतेअतोऽनया व्युत्पत्त्या तत्सर्वमप्याभिनिबोधि-कमर्थधरणरूपत्वाद्धारणा, अवग्रहेहापायेष्वप्यविशिष्टस्यार्थधरणस्य विद्यमानत्वादिति। संकरप्राप्तिश्चैवमवग्रहादीनां प्राक् "केवलमत्थवि- सेसं पई" (399) इत्यादिना परिहृतैवेति गाथापञ्चकार्थः। विशे ।नं।आ० मा"ईह त्ति वा 1, अपोहो त्ति वा 2, वीमंस त्ति वा 3, मगण त्ति वा 4, गवेसण त्ति वा 5, सण्ण त्ति वा६, सई त्ति वा 7, मति त्ति वा 8. पन्नत्ति वा 9." सव्वमेयं आभिणिबोहियं एतेहिं एगट्ठिएहिं भणितं ति। आ.यू. 10 12 गाथा (१-ईहाया: विचारो विस्तरतः 'ईहा' शब्देऽ-स्मिन्नेवभागेऽग्रे करिष्यते)(२-अपोहशब्दार्थविचार:'अपोह' शब्दे प्रथमभागे विस्तरत: समुक्त:)(अत्र 'आगम' शब्देऽस्मिन्नेव भागे (11) विषयसूच्यङ्के विस्तर: प्रतिपादितः। ततोऽवशिष्ट: 'सह' शब्दे सप्तमे भागे 337 पृष्ठादारभ्य दर्शयिष्यते) (3- विमर्शशब्दविचार: 'वीमंस शब्दे पृष्ठभागे करिष्यते) (४-मार्गणाशब्दार्थनिरूपणम् दृष्टान्तश्च मग्गणा' शब्दे षष्ठभागे, तथाअस्यैकार्थिकानि 'मग्गण' शब्दे तस्मिन्नेव भागे दर्शयिष्यन्ते) (५गवेषणाविषयो विशेष: 'गवेषणा' शब्दे तृतीय- भागे करिष्यते) (६संज्ञासर्वस्वविचार: 'सण्णा' शब्दे७ भागे दर्शयिष्यते) (७-स्मृतिस्वरूपम् 'सई' शब्दे सप्तमे भागे विस्त- रतो वक्ष्यते) (मतिस्वरूपं विस्तरत: 'मइ' शब्दे पष्ठभागे वक्ष्य-ते)(८-प्रज्ञाशब्दार्थविचार: ‘पण्णा' शब्दे पञ्चमे भागे करिष्यते) तदेवं तत्त्वभेदपर्यायराभिनिबोधिकज्ञानं व्याख्याय, साम्प्रतं तद्विषयनिरूपणार्थमाहतं पुण चउट्विहं नेयं, भेयओ तेण जं तदुवउत्तो। आदेसेणं सव्वं, दव्वाइँ चउट्विहं मुणइ 11402|| तत्पुनराभिनिबोधिकज्ञानं चतुर्विध-चतुर्भेदम्। नन्ववग्रहा- दिभेदेन भेदकथनं प्रागस्य कृतमेव किमिह पुनरपि भेदोपन्या- स:?। सत्यम्, ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेदं, ज्ञानस्य तु तद्भे- दादेव भेदोऽत्राऽभिधीयते, सूत्रे तथैवोक्तत्वात्। तथा च नन्दि- सूत्रं- "तं समासतो चउव्विहं पन्नत्तं, तं जहा-दव्वओ१, खेत्तओ 2, कालओ 3, भावओ४ तदव्वओणं आभिणिबोहियनाणी आदेसेणं सव्वदव्वाईजाणइ नपासइ (सूत्र-३६)" इत्यादि। ज्ञेयभेदादपि तत्कथं चतुर्विधमित्याह'जंतदुवउत्तो इत्यादि यत्-यस्मात्कारणात्तेनाभिनिबोधिकज्ञानेन सर्व द्रव्यादि मुणतीति संबन्धः। कथंभूतम् ? इत्याह-चतुर्विधंचतुर्भेदं द्रव्यक्षेत्रकाल- भावभेदभिन्नमित्यर्थः। कथंभूतः सन्। मूणति इत्याहतस्मिन्- आभिनिबोधिकज्ञाने उपयुक्तस्तदुपयुक्तः। केन? इत्याह - आदेशेनिति। कोऽयमादेश इत्याहआएसोत्ति पगारो, ओहादेसेणसव्वदव्वाई। धम्मत्थिआइयाई, जाणइ न उ सव्वभेदेणं / / 403|| को तथा अवगमणमवाओ त्तिय, अत्थावगमो तयं हवइ सध्वं / .धरणं च धारणं त्तिय,तं सवं धरणमत्थस्स ||4||
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy