________________ आभिणिबोहियणाण 307 अभिधानराजेन्द्रः भाग२ आभिणिबोहियणाण 'अवग्रह' इति-व्याख्यानान्नैश्वयिकोर्थाऽवग्रहो द्रष्टयः। स किम् ? त्याह-सर्वजघन्य: कालविशेष: समयः, तमेकं समयं भवति, न परतः। ईहाऽ-पायौ प्राकनिर्णीतस्वरूपौ'मुत्तमंतंत्वि' ति-अन्त:शब्दो मध्यवचन:, ततश्च जघन्यत:, उत्कृष्टश्चमुहू-न्तर्भिन्नं मुहूर्त ज्ञातव्यौ भवत:; अन्तर्मुहूर्त्तमित्यर्थः। तुश्च- कारार्थः। चकारश्चातानुक्तसमुच्चये। ततश्च व्यञ्जनाऽवग्रह-व्यावहारिकार्थाऽवग्रहौ च प्रत्येकमन्तर्मुहूर्त भवत इति द्रष्टव्यम्। क्वचित् "मुहुत्तमद्धं त्वि'' ति-पाठः, तत्राऽपि | मुहूर्तार्द्धशब्दे-नान्तर्मुहूर्तमेव मन्तव्यम्। तुशब्दोऽपितथैवा कलनं काल: न विद्यते संख्या पक्षमासयनसंवत्सरादिका यस्यासावसङ्ख्य पल्योपमादिलक्षण: तं कालमसंख्यं, तथासंख्यायत इति संख्य: पक्षमासवयनादिप्रमित इत्यर्थः। तं संख्यं चशब्दादन्तर्मुहूर्त च धारणा प्रागभिहितस्वरूपा भवति-ज्ञातव्या। इदमुक्तं भवतिअविच्युतिस्मृतिवासनाभेदाद्धारणा त्रिविधा। तत्राऽविच्यु- तिरूपा, स्मृतिरूपा च प्रत्येकमन्तर्मुहूर्त भवति। या तु तदर्थज्ञानावरणक्षयोपशमरूपा स्मृतिबीजरूपा वासनाख्या धारणा सा संख्येयवर्षायुषां सत्त्वानां संख्येयं कालम, असंख्येयवर्षायुषां तुपल्योपमादिजीविनामसंख्येयं कालं भवति। इति नियुक्तिगाथार्थः। अथैनां भाष्यकारो व्याख्यानयतिअत्थोग्गहो जहन्नो, समयं सेसोग्गहादओ वीसुं। अंतो मुहुत्तमेगं, तु वासना धारणां मोत्तुं / / 334|| अवग्रह इत्यस्य व्याख्यानमर्थाऽवग्रह इति, अयमपि निश्चयव्यवहारभेदतो द्विधा, ततो व्यवहारार्थाऽवग्रहव्यवच्छे- दार्थमाह'जहन्न' इति-अतिस्तोककालत्वेन जघन्यो नैश्चयि- कोऽर्थावग्रहौ; नेतर इत्यर्थः, अयमेकसमयं भवति। शेषास्त्वेकां वासनारूपां धारणां मुक्त्वा ये अवग्रहादयो व्यञ्जनाऽवग्रहा व्यावहारिकार्थाऽवग्रहेहापायाऽविच्युतिस्मृतिरूपा मतिभेदास्ते सर्वेऽपि विष्वक्-पृथक्एकमेवान्तर्मुहर्त भवन्ति। वासना- धारणायास्तु नियुक्तिगाथोक्तमेव कालमानमवगन्तव्यम् इत्यभिप्राय:। इति गाथार्थः। विशे! (12) अथ नानादेशजविनेयाऽनुग्रहार्थं तत्पर्यायान् (आभिनिबोधिकज्ञानपर्यायान) आभिधित्सुराहाईहा अपोह वीमंसा, मग्गणा य गवेसणा। सण्ण सईमई पण्णा, सव्वं आमिनिबोहिय।।३९६।। 'ईह चेष्टायाम्, ईहनमीहा-सतामन्वयिनां, व्यतिरेकिणां चार्थानां, पर्यालोचना। अपोहनमपोहो निश्चयः। विमर्षणं विमर्षः, अपायात्पूर्य: ईहायाश्चोत्तर: 'प्रायः शिर:कण्डूयनादयः पुरुषधर्मा इह घटन्ते, इति संप्रत्ययः। तथा- मार्गणमन्वयधर्मान्वेषणंमार्गणा। चशब्द: समुच्चयार्थाः। गवेषणं व्यतिरेकधर्मालोचनं गवेषणा। तथा-संज्ञानं संज्ञाअवग्रहोत्तरकालभावी मतिविशेष एव। स्मरणं स्मृतिः। पूर्वानुभूतार्थालम्बन: प्रत्ययः! मननं मति: कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः। तथा प्रज्ञानं प्रज्ञा विशिष्ट क्षयोपशमजन्या प्रभूतवस्तुगत यथावस्थितधर्मालोचनरूपा: मतिः। सर्वमिदमाभिनियोधिक कथंचित किंचिद्भेददर्शनेऽपि तत्त्वत: सर्व मतिज्ञानमेवेदमित्यर्थः। इति नियुक्तिश्लोकार्थ:: विशे / आ०म०१ अ० 12 गाथा। अत्रैव तद्व्याख्यानाय भाष्यम् - होई अपोहोऽवाओ, सई धिई सव्वमेव मइपन्ना। ईडा सेसा सव्वं, इदमामिणिबोडियं जाण // 397 / / अपोहस्तावत्किमुच्यत इत्याह-अपोहो भवति-अपाय: योऽयमपोह: स मतिज्ञानतृतीयभेदोऽपायो: निश्चय उच्यत इत्य- र्थः। स्मृति: पुनतिर्धारणोच्यते धारणाभेदत्वेनाप्यवयवे समुदा- योपचारादिति। मतिप्रज्ञे-मतिप्रज्ञाशब्दाभ्यां सर्वमपि मतिज्ञान-मुच्यते'ईहा सेस' त्ति शेषाऽभिधानानि त्वीहा-विमर्श-मार्गणा गवेषणा-संज्ञालक्षणानि सर्वाण्यऽपि ईहा ईहाऽन्तर्भावीनि द्रष्टव्यानीत्यर्थः। एवं विशेषत: कथंचिद्भेदसद्भावेऽपि सामान्यत: सर्वमिदमाभिनिबोधिकज्ञानमेव जानीहि, यतः-ईहाऽपोहादयः सर्वेऽच्यमी आभिनिबोधिकज्ञानस्यैव पर्याया: केषांचिद्वचनपर्याय-त्वात्, केषांचित्त्वर्थपर्यायत्वादिति। एतदेवं दर्शयतिमइपन्नाभिनिबोहिय-बुद्धीओ हॉति वयणपज्जाया। जा उग्गहाइसण्णा,ते सव्वे अत्थपज्जाया ||398 / / इह ये शब्दा: किल सर्ववस्तु-संपूर्ण प्रतिपादयन्तितेवचनरूपा वस्तुनः पर्याया वचनपर्याया उच्यन्ते। ये तु तदेकदेशमभिदधति तेऽथैकदेशप्रतिपादका: पर्याया अर्थपर्या उच्यन्ते, तत्रमतिप्रज्ञाभिनिबोधिकबुद्धयो वचनपर्याया भवन्ति। मतिप्रज्ञा-मिनिबोधिक बुद्धिलक्षणाश्चत्वारः शब्दा: आभिनिबोधिक- ज्ञानस्य ज्ञानपञ्चकाद्यभेदलक्षणस्य, वचनपर्याया द्रष्टव्या इत्यर्थः, संपूर्णस्याऽपि तस्यामीभिः प्रतिपाद्यमानत्वात्। येऽत्ववग्रहे हादि- का: संज्ञाविशेषास्ते सर्वेऽप्यर्थपर्यायाः तदेकदेशप्रतिपादकत्वात्। ततश्चात्रेहाऽपोहादय: आभिनिबोधिकाज्ञानस्यैवाथ पर्यायाः। मतिप्रज्ञाशब्दौ तु तस्यैव वचनपर्यायौ अत: सर्वमेवेदंसामान्येनाऽभिनिबोधिकज्ञानमेवेति स्थितमा अथ वा- सर्वेषामपि वस्तूनामभिलापवाचका: शब्दा: वचनरूपापन्ना वचनपर्याया:, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्यात्मभूता भेदा; यथा कन-कस्य कटककेयूरादयः; ते सर्वेऽप्यर्थपर्याया: भण्यन्ते। ततश्च प्रस्तुतस्याभिनिबोधिकज्ञानस्य मतिप्रज्ञावग्रहहादय: सर्वेऽपि वाचका ध्वनयो वचनपर्याया एव, तदभिधेयास्त्वाभिनिबोधिकस्यात्मभूता भेदा अर्थपर्याया इत्यवसेयमिति। इह पूर्व मतिप्रज्ञादिशब्दानां सर्वमप्याभिनिबोधिकज्ञानं वाच्यम्, अवग्रहेहादिशब्दानां तु तदेकदेशा एवाऽभिधेया इति दर्शितम्। अथाऽवग्रहेहादिभिरपि शब्दैरन्वर्थवशात्सर्वमप्याभिनि-बोधिकम भिधीयते, इति दर्शयतिसव्वं वाऽऽमिनिबोहिय-मिहोग्गहाइवयणसंगहियं। केवलमस्थि विसेसं,पइ भिन्ना उग्गहाईया ||399 / / 'वा' इति-अथवा, इह सर्वमाभिनिबोधिक ज्ञानमवग्र हे -