________________ आमिणिबोहियणाण 306 अभिधानराजेन्द्रः भाग२ आमिणिबोहियणाण भवन्त्येव, इति कथं न ते ज्ञानम् ? यदि पुनस्ते किमपि न गृह्णीयु; तदा तेषामनुत्थानमेव स्यात्, सर्वथा निर्विषयज्ञानस्य प्रसवा-ऽयोगात्, गगननलिनज्ञानवत्। ततश्च ज्ञायतेऽनेनेति ज्ञानमिति व्युत्पुत्यर्थात्संशयादीनामपि ज्ञानता न विरुद्ध्यते / इति गाथार्थः। अथ समस्तवस्तुरूपग्राह्येव ज्ञानं, नैकदेशग्राहकम् इत्ये- तदाशय निराकुर्वन्नाह अहवा न सव्वधम्मा-वभासया तो न नाणमिटुंते। नणु निन्नओ वितद्दे-समेत्तगाहि त्ति अन्नाणं / / 317 / / अथवा-अथ चेदेवं ब्रूयात्परः। किम्? इत्याह न सर्वध- माऽवभासका:- | न कान्येन गवादिवस्तुसमग्राहिणः, ततो न ज्ञानमिष्टं ते संशयादय: संपूर्णवस्तुस्वरूपग्राहिण एव ज्ञानत्वात्। अत्रोत्तरमाह-ननु भवता ज्ञानत्वेऽङ्गीकृतस्तर्हि निर्णयोऽप्य-ज्ञानमेव प्राप्रोति। कुत्त:? इत्याहतस्य गवादिवस्तुन एकदेशमात्रग्राहीति कृत्वा तथा हि-गौरयं, घटोऽयं, पटोऽयमित्यादिभिर्निर्णयैरपि गोत्वघटत्वादिको वस्त्वेकदेश एव गृह्यते, अतस्तेऽपि कथं ज्ञानरूपतां भजेयुः? अथ देशस्य देशिनमन्तरेण कदाचिदप्यभावात्तदग्रहणद्वारेण सर्वमपि वस्तु निर्णयेन गृहीतम् इत्यतो ज्ञानमेवाऽसौ। तदेतत्संशयादिष्वपि समान; तथा हि-'किमयं स्थाणुः पुरुषो वा' इत्यादिरूप: संशयोऽपि स्थाणुत्वादिकं वस्त्वेकदेशं जानाति, विपर्यासोऽपि विपर्ययवस्त्वेकदेशमवबुद्ध- यते अनध्यवसायोऽपि | सामान्यमात्ररूपं वस्त्वेकदेशमवगृह्णाति। ततश्च संशयादयोऽप्येक- | देशपरिज्ञानद्वारेण समग्रमपि वस्तु जानन्त्येव, इति तेषामपि ज्ञानता केनवार्यत? अथ गृह्यते संशयादिभिर्वस्त्वेदेश:, केवलं संशयेन संदिग्धः; विपर्यासेन विपर्यस्त:, अनवध्यवसायेन त्वविशिष्ट इतिचेत्। ननुप्रतिविहितमप्यदः किं विस्मरसि;? यत:-'ज्ञायतेऽनेनेति ज्ञानमतिरूपं ज्ञानं मतिज्ञानम्' इत्येवं सामान्येनैव सम्यग्दृष्टिसंबन्धि मति- ज्ञानमिह विचार्यते। तस्य च संशयादिरूपस्य निर्णयरूपस्य वा सम्यग्दृष्टिसंबन्धिनो ज्ञानता न विरुध्यते, 'ज्ञायतेऽनेनेति ज्ञानम्' इत्यस्याऽर्थस्य सर्वत्रोपपद्यमानत्वादिति। ननु यदि संश- यादयोऽपि मतिज्ञानं, तर्हि चतुर्भेदत्वमतिक्रम्य सप्तभेदत्वं तस्य प्रसज्यते, इति चेत्। नैतदेवं, यतोऽनध्यवसायस्तावत् सामान्यमात्रग्राहित्वेनाऽवग्रहे अन्तर्भवति संशयोऽपि पूर्वोक्तस्व- रूपेहाप्रकारत्वात, तत्कारणत्वाच तस्यामेवान्तर्विशति, यदपि संशयस्य पूर्वमीहात्वमपाकृतं तदपि व्यवहारिजनानुवृत्या, नतु सर्वथेति; विपर्यासस्तु निश्चयरूपत्वात्साक्षादपाय एव, इति कुतश्चतुर्भेदाऽतिक्रम:? इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा सम्य- गदृष्टिसंबन्धिनः संशयादयो मतिज्ञानादतिरिच्यमाना: क्वाऽन्त- भवेयु:? अज्ञान इति चेत्। नैवं ''सम्मट्ठिीणं भंते! किं नाणी, अन्नाणी? गोयमा! नाणी, नो अन्नाणी" इत्याद्यागमवचनात्स-म्यग्दृष्टे: सदैव ज्ञानित्वादिति, भवत्वेवं, तथाऽपि सम्यग्दृष्टि- संबन्ध्येव मतिज्ञानमिह विचार्यत इति कुतो लभ्यते? इति चेद् उच्यतेज्ञानपञ्चकमेवेह विचारयितुमुपक्रान्तम्। ज्ञानं च सम्यग- दृष्टरेव भवति / अतस्तत् संबन्ध्येव मतिज्ञानमिह विचार्यते,सम्य- गदृष्टिसंबन्धिनांच संशयादीनां ज्ञानता साध्यते इत्यलं विस्तरेण। इति गाथार्थ:। विशे०। (10) सम्प्रति पुनर्द्रव्यादिभेदतश्चतुष्प्रकारतामाहतं समासओ, चउव्विहं पन्नत्तं,तं जहा-दव्वओ१,खेत्तओ 2, कालओ३, भावओ। तत्थ दव्वओ णं आभिणिबोहियनाणी आएसेणं सवाई दवाइं जाणइ, न पासा खेत्तओ णं आमिणिबोहियनाणी आएसेणं सव्वं खेत्तं जाणइ, न पासइश कालओ णं आमिणिबोहियनाणी आएसेणं सव्वकालं जाणा, न पासइ 3 भावओ णं आमिणिबोडियनाणी आएसेणं सवे भावे जाणइ, न पासइ (सूत्र-३६४) 'तं समासओ' इत्यादि-तन्मतिज्ञान समासत:-संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यत:१, क्षेत्रत:२, कालतो३, भावतश्च तत्रद्रव्यतो णमिति वाक्यालङ्कारे, आभिनिबोधि- कज्ञानी, 'आदेसेणं' तिआदेश:-प्रकार:, स च द्विधासामा- न्यरूपो विशेषरूपश्च। तत्रेह सामान्यरूपो ग्राह्यः, तत: आदेशेन द्रव्यजातिरूपसामान्यादेशेन सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति किंचिद्विशेषतोऽपि, यथाधर्मास्तिकायो धर्मास्तिकायस्य प्रदेश: तथा-धर्मास्तिकायो गत्युपष्टम्भहेतुरमूर्तो लोकाऽऽकाशप्रमाणः इत्यादि, न पश्यति सर्वात्मना; धर्मास्तिकायादीन् न पश्यति, घटादीस्तु योग्यदेशादस्थितान् पश्यत्यपि, अथ वा- 'आदेश' इति- सूत्रादेशस्तस्मात्सूत्रादेशात्सर्वद्रव्याणि धर्मास्तिकायादीनि जानाति, न तु साक्षात्सर्वाणि पश्यति, ननु यत्सूत्रादेशतो ज्ञानमुपजायते तत् श्रुतज्ञानं भवति; तस्य शब्दार्थपरिज्ञानरूपत्वात्। अथ च मतिज्ञानमभिधीयमानं वर्त्तते, तत्कथमादेश इति सूत्रादेशो व्याख्यातः? तदयुक्तम्, सम्यग्वस्तुतत्त्वापरिज्ञानाद, इह हि श्रुतभावितमते: श्रुतोपलब्धेष्वप्यर्थेषु सूत्रानुसारमात्रेण येऽवग्रहहापायादयो बुद्धिविशेषाः प्रादु:ष्यन्ति ते मतिज्ञानमेव, न श्रुतज्ञानं, सूत्रानुसारनिरपेक्षत्वात, आह च भाष्यकृत्"आदेसो त्ति व सुत्तं, सुओवलद्धेसु तस्समइनाणां पसरइतब्भावणया, विणा वि सुत्ताणुसारेणं // 405||1, एवं क्षेत्रादिष्वपि नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्रं लोका-लोकात्मकम् 2, काल: सर्वाऽद्धारूपः, अतीतानागतवर्तमानरूपोवा३, भावाश्च पञ्चसंख्या: औदयिकादयः, तथा चाह भाष्यकृत"आएसो त्ति पगारो, ओहादेसेण सव्वदव्वाई। धम्मत्थिकाइयाई, जाणइन उसव्वभावेणं // 403|| खेत्तं लोगालोग, कालं सव्वऽद्धमहव तिविहंच। पंचोदइयाईए, भावे जंनेवमेवइयं / / 404|| अनं०/ (11) अथ तेषामेव कालनिरूपणार्थमाह नियुक्तिकार:उग्गहो एक्कं समयं, ईहाऽवाया मुहुत्तमेत्तं तु / कालमसंखं संख, च धारणा होईनायव्वा // 333))