________________ आभिणिबोहियणाण 305 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण रूपेण ग्रहणमेवेति भावः। नैश्वयिकाऽर्थाऽवग्रहरूपोऽवग्रहः। पुनरनध्यवसितमनध्यवसाय एव, अनिद्देश्यसामान्यमात्रग्राहि- त्वात्, नह्यत्र कस्याऽप्यर्थस्य संबन्ध्यध्यवसायोऽस्तीतिकृत्वा। तदेवं संशयादिरूपत्वात् नाऽवग्रहादयो ज्ञानमिति! अतो न ते मतिज्ञानभेदा: तद्भेदत्वे वा मतिज्ञानमपि न किञ्चित्, दोषशतज- जराऽवग्रहाद्यात्मकत्वात्। इति गाथार्थः। अत्राऽऽचार्य:प्राऽऽहइह सज्भमोग्गहाई-णसंसयाइत्तणं तह विनाम। अन्भुवगंतुं भण्णइ, नाणं चिय संसयाऽऽईया ||314|| इह यदवग्रहादीनां संशयादित्वं त्वयोद्भावितंतदद्याऽपि साध्यं-साधनीयं वर्तते, त्वदुक्तनियुक्तिकवामात्रेणैव मदुक्तहे- तोरसिद्धत्वाभावादिति मन्तव्यं, नपुनरेतायतैव जातात्वत्स- मीहितसिद्धः; इति प्रमुदितेनन भाव्यमिति भावः। तथा हि- यदुक्तम् 'संदिग्धे संशयविपर्ययौ' इति तदयुक्तम्, अभिप्रा-याऽपरिज्ञानात् नह्यस्माभिस्तथाविधवस्त्वप्रापकं संदिग्धत्वं विवक्षितं,येन वस्त्वप्रापणात, विपर्ययप्रापणाद्वातत्र संशयविपर्ययौ स्यातां; किंतु-कृतेऽपि वस्तुप्रापकेऽवितथे निश्चये यत्र तथा विधक्षयोपशमवैचित्र्यान्मनसि किंचिदल्पं शङ्कामात्रं न निवर्तते 'सम्यक् न जाने, तथैव स्यादन्यथा वा' इति, तचेह संदिग्धत्वं विवक्षितम्। न चैतावन्मात्रेणैवाऽज्ञानता युक्ता, व्यव- हारोच्छेदप्रसङ्गात्। न खलु धूमबलाकादेः सकाशात्सम्यग्दहन-जलादौ निश्चतेऽपि मुखेन तन्निश्चयं ब्रुवतामपि सर्वेषां प्रमातृणां चेतसि शङ्कामात्रं विनिवर्तते। नच ते सर्वेऽपि निश्चितं वस्तुन प्राप्नुवन्ति। नच क्वाऽपि संशयविपर्ययत्वेन अज्ञानता तेषां दृष्टा। यदप्युच्यते-'ईहाऽपि संशय एव' तदप्यसंगतम्, न हि 'किमयांस्थाणुः, पुरुषो वा' इत्यादिरूपः संशय ईहाभ्युपगम्यते। किंतु यदनन्तरमेव निश्चयोऽवश्यं भवति स एवाऽन्वय-धर्मघटनव्यतिरेकधर्मनिराकरणाभ्यां निश्चयाभिमुखो बोध ईहा, इत्यसकृदेव पूर्वमावेदितम्। न चाऽयं संशयो निश्चया- भिमुखत्वात्। नाऽपि निश्चयस्तत्प्रत्यासत्तिमात्रप्राप्तत्वात्। नचवक्तव्यं निश्चयादन्यस्य सर्वस्य संशयत्वादज्ञानतैवेति; निश्चयो- पादानक्षणस्यापि सर्वथाऽज्ञानत्वप्रसङ्गात् / तथा च सति निश्चय- स्याप्यज्ञानताप्राप्तिः। 'नह्यविशिष्टात्कारणाद्विशिष्टकार्योत्पत्तिः' इत्युक्तत्वादिति। यदप्युक्तम्'नि:सृतं विपर्यास: इति। तदप्युक्तम् 'लिङ्गासृतं नि:सृतम्' इत्यस्मिन् व्याख्यानेऽस्य दोषस्य सर्वथै- वाऽसंबध्यमानत्वात, 'परधम्मेहि विमिस्सं निस्सियं' (310) इत्यस्य च व्याख्यानान्तरमात्रत्वात्। भवतु तदपि व्याख्यानं तथाऽपि व्याख्यानात् परधर्मास्तस्मिन्नाशङ्किता एव द्रष्टव्याः; नतु निश्चिता:, तथा गौरवात्र, केवलमश्व इव मतिभाति' इति। | एतावन्मात्रेणैव चेयं विपर्ययोपलब्धिरवगन्तव्या; नतु सर्वथा विपर्ययधर्मनिश्चयात्सर्वथा विपर्यय तथाऽऽश्वादिसत्त्वप्रसङ्गात्। नचवक्तव्यम्- | एवं सतीदमनिश्चितान्न भिद्येत, तत्र परधर्मनि:सृतत्वा- भावात्, विवक्षितवस्त्वभावशङ्कामात्रस्यैव सद्भावादिति। न च विपर्ययधर्मशङ्का मात्रेणाऽप्यज्ञानता, वस्तुप्राप्तिविघाताऽभावादिति। यदप्युक्तम्'अवग्रहोऽयवसाय:' इति तदप्ययुकक्तम्। तत्र ह्यध्यवसाय: साक्षादेव नास्ति, योग्यतया पुनरस्त्येव, अन्यथा तत्कार्येषुअपायादिष्वपि तदभावप्रसङ्गात्, इत्युक्तमेवा अतिमत्तमूर्छितानामेव हि ज्ञानमनध्यवसाय उच्यते, तत्र योग्यतयाऽप्यध्यवसायस्यवक्तुमशक्यत्वात, तत्कार्यभूतस्याऽपायाद्यवसायस्याप्यलक्षणत्वात् / तदेवमवग्रहादीनामसिद्धंसंशयादित्वम्। तथाऽपि अभ्युपगन्तुम्' अङ्गीकृत्यापि तेषां संशयादिरूपतां ब्रूमः। ज्ञानमेव संशयादयः। संशयविपर्ययाऽनवध्यवसाया:- तश्च तश्च संशयादिरूपत्वेऽपि नावग्रहादीनां मतिज्ञानभेदत्वं विरुद्ध्यत इति भावः। इदमुक्तं भवति- नाऽस्माभिः 'समीहितवस्तुप्रापकं ज्ञानम्, इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रमाणाऽप्रमाणभूते ज्ञानाऽज्ञाने विचारयितुमुपक्रान्ते, किं तु-'ज्ञायते येन किमपि, तत्सम्यग्दृष्टिसंबन्धिज्ञानम्' इत्येतावन्मात्र-कमेव व्याख्यातुमभिप्रेत; वस्तुपरिज्ञानमात्रंतु संशयादिष्वपि विद्यते, इतिन तेषामपि सम्यग्दृष्टिसम्बन्धिनां ज्ञानत्वहानि: इति गाथार्थः। कथं पुनः संशयादयो ज्ञानमित्याहवत्थुस्स देसगमग-त्तभावओ परमयप्पमाणं व। किह वत्थुदेसविण्णा-णहेयवो सुणसुतंवोच्छं // 311|| ज्ञानमेव संशयादय इति प्राक्तनी प्रतिज्ञा, वस्तुनो-गवादे: स्वपरपर्यायैरनन्तधर्माऽध्यासितस्य यो देश:-एकदेशस्तस्य गमकत्वभावात्, इति हेतु:पराभिमतं प्रमाणं निश्चयमानरूपं तद्वदिति दृष्टान्त: इह यदस्त्वेकदेशस्य गमकं तज्ज्ञानं दृष्ट, यथा परमतं निश्चयरूपं प्रमाणं, वस्त्वेकदेशगमकाश्वसंशयादयः, ततस्तेज्ञानम्, इति। अत्र हेतोरसिद्धता मन्यमानः परः पृच्छति- कथं वस्त्वेकदेशविज्ञानहेतवः संशयादय:? वस्तुनो निरंशत्वेन देशस्यैवाभावान्न ते एकदेशग्राहिणो घटन्त इति परस्याऽभिप्राय:। आचार्य: प्राह- यत्त्वया पृष्टं तद्वक्ष्ये-भणिष्यामि अहं, शृणु-समवहितः समाकर्णय त्वम्। इति गाथार्थः। यथा प्रतिज्ञातमेवाहइह वत्थुमत्थवयणा-इपज्जयाऽणंतसत्तिसंपनं। तस्सेगदेसविच्छे-यकारिणो संसयाईया ||316|| इह वस्तुनो-घटादे: मृण्मयत्वपृथुबुध्नत्ववृत्तत्वकुण्डलायतग्रीवायुक्तत्वादयोऽर्थरूपा: पर्याया:-अर्थपर्यायाः अनन्ता भवन्ति। घटकुटकुम्भकलशादयस्तुवचनरूपा: पर्याया:वचनप-र्यायास्तेऽप्यनन्ता भवन्ति, आदिशब्दात्-परव्यावृत्तिरूपा अप्यनन्ता ग्रह्यन्ते। ततश्चेत्थं समास: कर्त्तव्य:-अर्थश्च वचनानि च आदिशब्दात्-परव्यावृत्तयश्च तद्रूपा: पर्याया अर्थवच-नादिपर्याया:, तेच तेऽनन्ताश्च त एव शक्तयः, ताभिः संपन्नं-युक्तं यतो तस्तु भवति अतस्तस्यैकदेशविच्छेदकारिण: संशया-दयो ज्ञेया:। इदमुक्तं भवति-न खलु वयं निरंशवस्तुवादिनः, किंतु-यथोक्ताऽनन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशा: सन्तीति वयं मन्यामहे। तन्मध्याच एकैक देशग्राहिणः संशयादयोऽपि