________________ आमिणिबोहियणाण 303 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण जम्हा तम्मि समत्ते, पुणरस्सुअनिस्सियं भणियं / / 306 / / तस्माद्-अवग्रहादिसाम्याद् श्रुतनि:सृतस्य अश्रुतनि:सृ- तेऽन्तर्भावं कृत्वा केवलं श्रुतनि:सृतमेव मतिज्ञानमष्टाविंशतिभेदं व्याख्यातुमुचितं, नतुपरोक्तनीत्या व्यञ्जनावग्रहाऽपगमेन श्रुताऽश्रुतनि:सृतमिति। कुत: ? इत्याह-'जम्हा' इत्यादि, यत:-"से किंतंसुयनिस्सियं" इत्येवमागमे तस्मिन् श्रुतनि: सृते समाप्ते-निष्ठां नीते सति पुन: पश्चात्" से किं तं अस्सुयनि-स्सियं" इत्यादिना ग्रन्थेनाऽश्रुतनि:सृतं भणितम्। अयमभिप्राय:-श्रुतनि:सृतं सभेदमप्यभिधाय पश्चादेवा-ऽश्रुतनि:सृतमुक्तम्। अत: कथं तत्तत्र प्रक्षिप्यते? तस्मात्समयाऽभिप्रायेण श्रुतनि:सृतस्यैवाष्टाविंशतिभेदा: इति अतोन भवव्याख्यानं श्रेय: इतितदेवम्"चउवइरिताभावा" इत्यादिगाथा मूलटीकाऽभिप्रायेण व्याख्याता:! अन्ये त्वन्यथाऽपि व्याख्यानयन्ति, तदभिप्रायंत्वतिगम्भीरत्वान्न विद्यः। इति गाथार्थः। विशे०। ज्ञा०। अने।। एते चावग्रहादयोऽष्टाविंशतिभेदा: प्रत्येकं बह्वादिभिः सेतर: सर्वसङ्ख्याया द्वादशसंख्यैर्भेदैर्भिद्यमाना यदा विवक्ष्यन्ते तदा षट्त्रिंशदधिकं भेदानां शतत्रयं (336) भवति / तत्र बह्वादयः शब्दमधिकृत्य भाव्यन्ते। शङ्खपटहादिनानाशब्दसमूह पृपगेकैकं यदा अवगृह्णाति तदा अबह्नवग्रहः यदा त्वेकमेव कंचिच्छु ब्द-मवगृह्णति तदा अबवग्रहः, तथा शङ्खपटहदिना-नाशब्दसमूहमध्ये एकैकं शब्दभनेकै पर्याय: स्निग्धगाम्भीर्यादिभिर्विशिष्टं यथावस्थितं च यदा अवगृह्णाति, तदा स बहुविधाऽवग्रहः, यदात्वेकमनेकं वा शब्दमेकपर्याय-विशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रहः। यदा तु अचिरेण जानाति तदा स क्षिप्रावग्रहः, यदा तु चिरेण तदा अक्षिप्राऽवग्रह: तमेव शब्दं स्वरूपेण यदाजानाति:न लिङ्गपरिग्रहात् तदा अनिश्रितावग्रहः। लिङ्गपरिग्रहेण त्ववगच्छतो निश्रितावग्रहः, अथवा-परधमैर्विमिश्रितं यद ग्रहणं तन्मिश्रितावग्रहः, यत्पुन:-परधर्मरविमिश्रितस्य ग्रहणं तदमिश्रितावग्रहः। तथा निश्चितमवगृह्णतो निश्चितावग्रहः, संदिग्धमवगृह्णत: संदिग्धावग्रह: सर्वदैवं बह्वादिरूपेणावगृह्णतो ध्रुवाऽवग्रह: कदाचिदेव पुनर्बह्वादिरूपेणावगृह्णत: अध्रुवावग्रह: एष च बहुबहु-विधादिरूपोऽवग्रहो विशेषसामान्यावग्रहरूपो द्रष्टव्यः, नैश्चयिकस्यावग्रहस्य सकलविशेषनिरपेक्षा-निर्देश्यसामा न्यमात्रग्राहिण एकसामयिकस्य बहुविधादिविशेषग्राहकत्वा-ऽसंभवाद्, बह्रादीनां चानन्तरोक्तं व्याख्यानं भाष्यकारोऽपि प्रमाणयति"नाणासद्दसमूह, बहुं पिहं मुणइ भिन्नजातीयं। बहुविहमणेगभेयं, एक्कक्कं निद्धमहुराई।।३०८।। खिप्पमचिरेणतं चिय, सरूवओ जमनिस्सियमलिंग। निच्छियमसंसयंज,धुवमचंतन उकयाई।।३०९।। एतो चियपडिवक्खं, साहेज्जा निस्सिए विसेसोऽयं। परधम्मेहँ विमिस्सं, मिस्सियमविमिस्सियं इयरं / / 310 // " यदा पुनरालोकस्य मन्द-मन्दतर मन्दतमस्पष्ट -- स्पष्टतरस्पष्टतमत्वादिभेदतो विषयस्याऽल्पत्वमहत्त्वसंनिकर्षादिभेदतः | क्षयोपशमस्य च तारतस्यभेदतो भिद्यमानं मतिज्ञानं चिन्त्यते, तदा तदनन्तभेदं प्रतिपत्तव्यम् / न०३५ सूत्र टीला आ.मा कर्मा (8) अष्टाविंशतिविधत्वं मतिज्ञानस्योपदी, विवक्षान्त- रेण बहुतरभेदमप्येतद्भवतीति दर्शयन्नाहजंबहु-बहुविह-खिप्पाऽनिस्सियनिच्छियधुवेअरविभिन्ना / पुणरुग्गहादओ तो,तं छत्तीसत्तिसयमेयं / / 307 / / यत्-यस्माद् बहु-बहुविधक्षिप्राऽनिश्रितनिश्चितधुवैः सेतरैः सप्रतिपक्षरेकैकशो विभिन्ना भेदभाजः पुनरप्यग्रहादय इष्यन्ते। ततस्तदेवाष्टाविंशतिविधमाभिनिबोधिक ज्ञानमे तै दिशभिर्मेदैः प्रत्येकं भिद्यमानत्वात् षड्विंशदधिकत्रिशत 336 भेदं भवति। इदमुक्तं भवति-अनन्तरवक्ष्यमाणन्यायेन संक्षेपत: प्रागभिहितयुक्तया च श्रोत्रादिभिः कश्चिद्वगृह्णाति, कश्चित्त्वबहु, अपरस्तु बहुविधम्, अन्यस्त्वबहुविधम्, एवं यावदन्यो ध्रुवम्, अपरस्त्वध्रुवमवगृह्णातीति। एवमीहाऽ-पाय-धारणास्वपि सप्रभेदासु प्रत्येकममी द्वादश 12 भेदा योजनीयाः। नवरमीहते, निश्चिनोति, धारयति, इत्याद्यभिलाप: कार्यः। ततश्चाष्टाविंशतौ द्वादभिर्गुणितायां षत्रिंशदधिकानि त्रीणि शतानि 336 मेदानां भवन्तीति गाथार्थः। अथ शब्दलक्षणं विषयमाश्रित्य तावबहादीनामर्थ व्याख्या-तुमाहनाणासद्दसमूह, बहुं पिहं मुणइ भिन्नजातीयं / बहुविहमणेगमेयं,एक्कक निद्धमहुराई ||30|| खिप्पमचिरेण तं चिय, सरूवओ जं अणिस्सियमलिंग। निच्छियमसंसयं जं,धुवमचंतं न उकयाइ / / 309|| इह श्रवणयोग्यदेशस्थेतूर्यसमुदाये युगपदाद्यमाने कोऽपि श्रोता तस्य तूर्यसंघातस्य संबन्धिनं पटहढक्काशङ्खभेरिभाणकादिनानाशब्दसमूहमाकर्णितं सन्तं क्षयोपशमविशेषाद् बहुमवग्र- हादिना मुणतिजानाति। कोऽर्थ:? इत्याह पृथग-भिन्नजातीयम्, एतावन्तोऽत्र भेरिशब्दा: एतावन्तो भाणकशब्दा:.एतावन्तस्तु शङ्ख-पटहादिशब्दा: इत्येवं पृथगेकैकशो; भिन्नजातीयत्वेनतं नानाशब्दसमूहं बुद्ध्यत इत्यर्थः। अन्यस्त्वल्पक्षयोपशम- त्वात्तत्समानदेशोऽप्यबहु मुणति सामान्येन "नानातूर्यशब्दोऽ- यमि' त्यादिमात्रकमेव जानाति इति प्रतिपक्षः। एवमुत्तरगा- थायामतिदेक्ष्यमाणा प्रतिपक्षभावना सर्वत्रावबोद्धव्या। अन्यस्तु क्षयोपशमवैचित्र्याद् बहुविधं मुणति। कोऽर्थ:? इत्याहअनेक- भेदम् इदमपि व्याचष्टे -एकैकं शङ्खमेर्यादिशब्द स्निग्धत्वमधुर-त्वतरुणमध्यमवृद्धपुरुषवाद्यत्वादिबहुविधधर्मोपेतं जानातीत्य- र्थः। अन्यस्तु-अबहुविधं स्निग्धमधुरत्वादिस्वल्पधर्मान्वितमेव पृथग्मिन्नजातीयं नानाशब्दसमूहं जानाति। अन्यस्तु क्षिप्रम्। कोऽर्थः, इत्याह-अचिरेण-शीघ्रमेव परिच्छिनत्ति; नतु चिरेण विमृश्येत्यर्थः। अन्यस्तुअक्षिप्रं-चिरविमर्शितं जानाति। तथा-"तं चिय सरूवओ जं अणिस्सियमि" ति तमेव नानाशब्दसमूह कोऽप्यनि (श्रि)सृतं मुणतीति संबन्धः। यं किम् इत्याह- यं