________________ आमिणिबोहियणाण 302 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण वनादौ धवखदिरादीनाम्। अतोऽवग्रहस्य सामान्यरूपतया एकत्वादवग्रहे हाऽपायधारणानामिन्द्रियमनोभेदेन प्रत्येक षडविंधत्वात् / श्रुतनि: सृ(श्रिोतमतिज्ञानस्य चतुर्विंशतिरेवं भेदा: अश्रुतनि: सृ (श्रि) तसय तु बुद्धिचतुष्टयलक्षणाश्चत्वारः इत्येवं सर्व मतिज्ञानमष्टाविंशतिभेदं सिद्ध्यति / इति केषांचिन्मतम् / इति गाथात्रयार्थः / एतच तन्मतमयुक्तम् / कुत: ? इत्याहचउवइरित्ता भावा, जम्हान तमुग्गहाईओ। भिन्नं तेणोग्गहाइ-सामण्णउतयं तग्गयं चेव // 303|| चतुभ्यः-अवग्रहेहापायधारणावस्तुभ्यो व्यतिरिक्तं चतुर्यतिरिक्तं तस्य चतुर्व्यतिरिक्तस्याश्रुतनि: सृ(श्रि) तस्याऽभावात्कारणाद्यस्मात्- यतो न तदश्रुतनि: सृ(श्रिोतम-वग्रहादिभ्यो भिन्नम्। तत: किम्, इत्याह-तेन कारणेनावग्रहादिसामान्याद्अवग्रहादिसामान्यमाश्रित्य 'तयंतगयं चेव' त्ति- तेष्ववग्रहादिसंबन्धिष्वष्टाविंशति-भेदेष्वन्तर्गतं--प्रविष्टमन्तर्भूतं तदन्तर्गतमेवाऽश्रुतनि: सृ(श्रि) तं बुद्धिचतुष्टयम्। अत: किमिति व्यञ्जनावग्रहचतुष्टयं पातयित्वा श्रुतनि:सृतं बुद्धिचतुष्टयं पुनरपि प्रक्षिप्यते ? इत्यभिप्राय:। इदमुक्तं भवति- "सोइंदियाइभे एण छटिवहावग्गहादओ" (300) इत्यादिना प्रतिपादितैरवग्रहादिसंबन्धिभिरष्टाविंशतिभेदैः किलाऽसंगृहीतत्वाव्यञ्जनावग्रहचतुष्टयापगमं कृत्वा श्रुतनि: सृतं बुद्धिचतुष्टयं मतान्तरवादिभिः प्रक्षिप्यते एतचायुक्त, यत: सोइंदियाइभेएणं' इत्यादिनाऽवग्रहादीनामेव अष्टाविंशतिर्भेदा: प्रोक्ता: अवग्रहादयश्च बुद्धिचतुष्टयेऽपि सन्ति, अतोऽवग्रहादिभणनद्वारेण तदप्यश्रुतनि: सृ(श्रितं बुद्धिचतुष्टयमेतेष्वष्टाविंशतिभेदेषु संगृहीतमेवेति, किमित तै: पुनरपि प्रतिक्षप्यते? इति गाथार्थः। तत्रैतत्स्यात्प्रष्टव्यं परस्य कथमौत्पत्तिक्यादिबुद्धिचतुष्टयेऽव-ग्रहादय: संभवन्ति? तदत्र यथा ते भवन्ति, तथा दर्शयन्नाहकिह पडिकुक्कुड हीणो, जुज्मे बिंबेणऽवग्गहो ईहा। किं सुसिलिट्टमवाओ, दप्पणसंकंतबिंबं ति||३४|| इह किलाऽऽगमे- "भरह-सिल-मिंढकुचकुड-तिल-वालु यहत्थिअगड-वणसंडे / पायसआइयापत्ते-खाडहिला पंच पियरो य"||६|| (नन्दी सूत्र-२७) इत्यादिना औत्पत्तिक्यादिबुद्धीनां बहून्युदाहरणान्युक्तानि, तन्मध्याच्छेषोपलक्षणार्थ कुक्कुटोदाहरणमाश्रित्यौत्पत्तिक्यां बुद्धौ अवग्रहादयो भाव्यन्ते-राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टं यदुत-अयं मदीयकु (कु) क्कुटोद्वितीयकु (कुक्कुटमन्तरेणैकक एव योधनीयः। ततस्ते न जिज्ञासितं मनसि कथमयं प्रतिकु (कुक्कुटहीन: प्रतिपक्षभूतद्वितीयकुकुक्कुटवर्जितो युध्येत। एतच जिज्ञासमानस्य तस्य झगित्येव स्फुरितं चेतसि किम्? इत्याह-बिंबेने' त्ति-आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दप्पीध्मातत्वादयं युध्यत इत्यवगृहीतमित्यर्थ: एतच किम् ? इत्याहअवग्रहासामान्येनैव बिम्बमात्राग्रहणादवग्रहो; मतिप्रथमभेद इत्यर्थः। ईहा तर्हि का ? इत्याह- 'ईहा किं सुसिलिट्ठ' मिति, किं पुनस्तर्हि | प्रतिबिम्बमस्य योधनाय सुश्लिष्टं- सुष्ठ युज्यमानकं भवेत्-किं तडागपय:-पूरादिगमतम्, आहोस्विद्दर्पणगतम्? इत्यादिबिम्बविशेषान्वेषणम् ईहत्यर्थः। अपायमुपदर्शयति-'अवाओ दप्पणसंकंतबिंब' ति-कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वाद्, अस्पष्टत्वाच जलादिगतबिम्बमिह न युक्तं ; तत: स्थिरत्येन, स्पष्टादित्वेन च चरणाघातादिविषयत्वाद्दप्पणसंक्रान्तमेव तदत्र युज्यते इत्येवं बिम्बविशेषनिश्चयः अपाय इत्यर्थः। एवमन्येष्यपि बुद्ध्युदाहरणेष्ववग्रहादयो भावनीयाः, तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावात् श्रुतनि:(श्रि) सृतमतिज्ञानसंबन्धिष्ववग्रहादिगताऽष्टाविंशतिभेदेष्ववग्रहादिसाम्येन बुद्धिचतुष्टयस्यान्तर्भावो भावनीयः। ततो न युक्त व्यञ्जनावग्रहचतुष्टयागमेन पुनर्बुद्धिचतुष्टयप्रक्षेपणम्। इति स्थितम्। इति गाथार्थः। आह ननु यद्यवग्रहादिसाम्ये नाश्रुतनि: (श्रि) सृतावग्रहादिष्वन्तर्भवति, तर्हि "आभिनिबोहियनाणं दुविहं पन्नत्ते, तं जहासुयनिस्सियं, असुयनिस्सियं च "इत्येवमागमे यः श्रुतनि: (श्रि)सृतादश्रुतनि:(श्रि)सृतस्य भेद उक्तः स विशीर्यत एव इत्याशङ्कयाहजह उग्गहाइसाम-पणओ विसोइंदियाइणा मेओ। तह उग्गहाइमास-प्रणओ वितमणिस्सिया भिन्न / / 305 / / यथेहावग्रहादीनामवग्रहादिसामान्ये सत्यपि; अवग्रहादित्वे तुल्येऽपि सतीत्यर्थः। किम् ? इत्याह- श्रोत्रेन्द्रियादिना भेदः, तथा हि-एके श्रोत्रेन्द्रियसंबन्धिनोऽवग्रहादयः, यावदन्ये स्पर्श-नेन्द्रियसंबन्धिन: अपरे तु मन:संबन्धिनः; तथा तेनैव प्रकारे- णाऽवग्रहादिसामान्ये सत्यपि तदश्रुतनि: सृ(श्रितं भिन्नं' श्रुतनि: स(श्रितादिति विशेषः। कस्मात् हेतोर्भिन्नम्?; इत्याह-'अणिस्सिय' त्ति-भावप्रधानोऽयं निर्देश: अनि:सृ(श्रि)तत्वात्: श्रुतानिः सृतत्वादित्यर्थः; एतदुक्तं भवतिअष्टाविंशतिभेदविचार- प्रक्रमेऽवग्रहादिमत्त्वं सामान्य धर्ममाश्रित्याश्रुतनि:सृतस्य श्रुतनि: सृत एवान्तर्भावो विवक्ष्यते, श्रुताऽश्रुतनि: सृतविचारप्रस्तावे त्वश्रुतनि: सृतत्वं विशिष्टं धर्ममुररीकृत्य श्रुतनि: सृतादश्रुतनि: सृतं पृथगेवेष्यते, इत्यागमोक्तस्तयोर्भेदोऽपि न किंचित् विशीर्य- ते न च वक्तव्यं कथमेकस्यैवैकस्मादेव भेदश्वाऽभेदश्च; विरोधात् इति यतो यदि तेनैव धर्मेण भेदः, अभेदश्चेष्येत् स्यात्तदा विरोध: धर्मान्तरनिबन्धनौतु भेदाऽभेदौ न विरुध्येते / किं हि नाम तद्वस्त्वस्ति, यस्य वस्त्वन्तराद्भेदाऽभेदौ न स्त:? घटादयोऽपि हि घटादित्वसामान्येन परस्परमभेदिनोऽपि स्वद्रव्यक्षेत्रका लादिमत्त्वेन भिन्ना इति। अत्र बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थग्रहनताप्रसङ्गाद्, अनेकान्तजयपताकादिषु / विस्तरेणोक्त-त्वाचा इति गाथार्थ: स्यादेतत्, किमेतावता कष्टेन ? भदीयव्याख्यापक्ष एव सुखावहः, श्रुतनि:सृताऽश्रुतनि:सृतयोरभेदापत्तेरभावात् समस्त- मतिज्ञानभेदभणनाचेति। तदेतदयुक्तं सिद्धान्ताभिप्रायबहिर्भूतत्वादेतदेवोपसंहारपूर्वकमाहअट्ठावीसइ मेयं, सुयनिस्सियमेव केवलं तम्हा। १-अनेकान्तजयताकानाग्नि ग्रन्थे।