________________ आभिणिबोहियणाण 301 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण सद्भूतविशेषत्यागाभिमुखं च तदीहा, आह च (विशेषाऽऽवश्यक) भाष्यकृत्"जमणेगत्थालंबण-मपज्जुदासपरिकुंठियं चित्तं / सेय इव सव्वप्पयओ,तं संसयरूपमन्नाणं / / 183 / / तं चिय सयत्थहेऊ, वय त्ति वावारतप्परममोहं। भूयाऽभूयविसेसा, दाणचामिमुहमीहा।।१८४ा" इह यदि वस्तु सुबोधं भवति-विशिष्टश्च मतिज्ञानावर- णक्षयोपशमो वर्त्तते, ततोऽन्तर्मुहूर्तकालेन नियमात्तद्वस्तु निश्चिनोति, यदि पुनर्वस्तु दुर्बोधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमस्तत ईहोपयोगादच्युत: पुन-रप्यन्तर्मुहूर्तकालमीहते,एवमीहोपगाविच्छेदेन प्रभूतान्य-न्तर्मुहर्तानियावदीहतेतत ईहानन्तरंजानातिअमुक एषोऽर्थः शब्द इति, इदं च ज्ञानमवा (पा)यरूपं, ततोऽस्मिन् ज्ञाने प्रादुर्भवति 'णमि' ति वाक्यालङ्कारे, अपायं प्रविशति तत: 'से' तस्योपगतम्अवि- च्युत्या सामीप्येनात्मनि परिणतं भवति, ततोधारणां वासनारूपां प्रविशति, संख्येयमसंख्येयं वा कालम्। एवमनेन क्रमप्रकारेण एतेन पूर्वदर्शितेनाभिलापेन शेषेष्वपि चक्षुरादिष्विन्द्रियेषु अवग्रहादयो वाच्या:, नवरमभिलाष-विषये-"अव्वत्तं सदं सुणेज्जा" इत्यस्य स्थाने "अव्वत्तं रूपं पासेज्जा'' इति वक्तव्यं, उपलक्षणमेतत् तेन सर्वत्राऽपि शब्दस्थाने रूपमिति वक्तव्यं, तद्यथा-'तेणं रूवि त्ति उग्गहिए नो चेवणं जाणइ केवेस रूवि त्ति ततो इहं पविसइ, ततो जाणइ अमुगेएस रूवे त्ति, ततो अवायं पविसइ"इत्यादि तदवस्थमेव नवरमिह व्यञ्जनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाद् चक्षुषः, घ्राणेन्द्रियादिषु तुव्याख्येय:, एवं तुघ्राणेन्द्रियविषये "अव्वत्तं गंध अग्धाइज्जा" इत्यादिवक्तव्यं जिह्वेन्द्रिय विषये-"अव्वत्तं रसं आसाएज्जा" इत्यादि, स्पर्शनेन्द्रियविषये"अव्वत्तं फासं पडिसंवेदेज्जा' इत्यादि, यथा च शब्द इति निश्चिते तदुत्तर-कालमुत्तरधर्मजिज्ञासायां किंशाङ्क? किंवाशाङ्गः? इत्येवंरूपा | ईहा प्रवर्तते तथा रूपमिति निश्चिते तदुत्तरकालमुत्तरजिज्ञासायां किमयं स्थाणु:? किं वा पुरुष? इत्यादिरूपा (सा) प्रवर्तते। एवं घ्राणेन्द्रियादिष्वपि समानगन्धादीनि वस्तूनि ईहाऽऽलम्बनानि वेदितव्यानि, आह च (विशेषावश्यक) भाष्यकृत्"सेससु विरूपाइसु विसएसु होतिरूवलक्खाई। पायं पञ्चासन्न-तणेण ईहावत्थूणि / / 292! थाणुपरिसाइकुठु-प्पलादिसंभियकरिल्लमसाइ। सप्पुप्पलनालाइव, समाणरूवाइँ विसयाई।।२९३॥" ‘से जहानामए' इत्यादि स यथानामक: कोऽपि पुरुषोऽव्यक्तं स्वप्नं | प्रतिसंवेदयेत्, अव्यक्तं नाम-सकलविशेषविकल-मनिर्देश्यमिति यावत् स्वप्नमिति प्रज्ञापक:-सूत्रकारो वदति, स तु प्रतिपत्ता स्वप्नादिव्यक्तिविकलं किञ्चिदनिद्देश्यमेव तदानीं गृह्णाति, तथा अनेन प्रतिपत्त्रा"सुविणो त्ति उग्गहिए" इति स्वप्नमिति अवगृहीतम, अत्राऽपि स्वप्न इति प्रज्ञापकोवदति, स तु प्रतिपत्ता अशेषविशेषवियुक्तमेवाऽवगृहीतवान्, तथा चाह-नपुनरेवं जानाति-क एष स्वप्न इति ? स्वप्न | इत्यपि तमर्थन जानातीति भावः, ततईहां प्रविशतीत्यादि, प्राग्वत्,एवं स्वप्न- मधिकृत्य नोइन्द्रियस्याऽर्थावग्रहादयः प्रतिपादिताः। अनेन चोल्लेखेनाऽन्यत्राऽपि विषये वेदितव्याः,तदेवं मल्लकदृष्टान्तेन ध्यजनावग्रहप्ररूपणां कुर्खता प्रसङ्गतोऽष्टाविंशतिसंख्या अपि मतिज्ञानस्य भेदा: सप्रपञ्चमुक्ताः, संप्रति मल्लकदृष्टान्तमुपसंह- रति-"सेत्तं मल्लगदिढ़तेणं' एवं मल्लकदृष्टान्तेन व्यञ्जनाव- ग्रहस्य प्ररूपणा। नं। (7) मतान्तरेणाष्टाविंशति 28 भेदत्वम्-"उम्गह ईह अवाओ य" इत्यादिगाथायाम् 'आभिनिबोधिकज्ञानस्य' चत्वारि भेदवस्तूनि समासत इत्युक्तं, तत्किं व्यासतो बहुभेद-मप्याभिनिबोधिकज्ञानं भवति? 'इत्याशङ्कय तद्भेदबहु-विधत्वदर्शनात् 'समासेन' इति विशेषणस्य सफलत्वमाहसोइंदियाइभएण, छविहाऽवग्गहादओऽभिहिया। ते हॉति चउव्वीसं, चतुव्विहं वंजणोग्गहणं / / 30011 अट्टावीसइभेयं, एयं सुयनिस्सियं समासेणं / केइत्तु वंजणोग्गह-वज्जे छोटूणमेयम्मि ||30|| अस्सुयनिस्सियमेवं, अट्ठावीसइविहं ति भासंति। जमवग्गहो दुभेओ-ऽवग्गहसामण्णओग्गहियो / / 302|| श्रोत्रेन्द्रियादीनां पञ्चानामिन्द्रियाणां मनःषष्ठानां यो भेदस्तेनाऽवग्रहादय: प्रत्येकं षड्विधाश्चत्वारोऽप्यभिहिताः। ततस्तैः षभिश्चत्वारो गुणिताश्चतुर्विंशतिर्भवन्ति। अन्यच्च-स्पर्शनरसनघ्राणश्रोत्रेन्द्रियचतुष्टयभेदात् व्यञ्जनाऽवग्रहणम्- व्यञ्जनावग्रहश्चतुर्विधो भवति। एवमेतत् श्रुतनिः सृ (श्रि) तमाभिनियोधिक ज्ञानं सर्वमप्यष्टाविंशतिविधं संपद्यते। एतदपि भेदाऽभिधानं वक्ष्यमाणबहुतरभेदकलापापेक्षयाऽद्याऽपि समा-सेन-संक्षेपेण द्रष्टव्यम्। अन्ये त्वेतानष्टाविंशतिभेदानन्यथा पूरयन्तितन्मतमुपद-शयति-'केइ तु इत्यादि, के चित्पुनराचार्य एतस्मिन्नेव श्रुतानि: (श्रिते मतिज्ञानभेदसमुदये, व्यञ्जनावग्रहभेदचतुष्टयवर्जे 'उप्पत्ति-या, वेणइया, कम्मिया, पारिणामिया" इत्यादिना अन्यत्र, प्रागत्राऽपि च प्रतिपादितस्वरूपमश्रुतनि:- सृ(श्रि) तमौत्पत्तिक्यादिबुद्धिचतुष्टयं क्षिप्त्वामीलयित्वा एवमष्टाविंश-तिविधं सर्वमपि मतिज्ञानमितिभाषन्ते। अयं हित तेषामभिप्राय:मतिज्ञानस्य संपूर्णस्येह भेदा: प्रतिपादयितुं प्रक्रान्ताः। यदिच- अश्रुतनि:सृ (श्रितं बुद्धिचतुष्टयं न गण्यते तदा श्रुतनि:सृ (श्र) तरूपस्य मतिज्ञानदेशस्यैवैतेऽष्टाविंशति- भेदा: प्रोक्ता भवन्ति / न तु सर्वस्याऽपि; यदा तूक्तन्यायेन श्रुतनि:सृ (श्रि) तमश्रुतनि:सृ(श्रितं च मील्यते तदा सर्वस्याऽपि तस्य भेदा: सिद्धा भवन्ति। ननु साधुक्तं तै: केवलमेवं सतिव्यञ्जनाऽवग्रहचतुष्टयं क्व क्रियताम् ? न ह्येतदपि विक्रीयमाणं खलखण्डमात्रेण क्रीतम्, किंत्विदमपि मतिज्ञानान्तर्गतमेव ततोऽस्मान्निष्काश्यमानं वराकमिदं क्वाऽवस्थिति बध्नातु ? इत्याशङ्कयाह-'जमवग्गहो' इत्यादि, यत्यस्मा-व्यञ्जनार्थाऽवग्रहभेदतो योऽयमवग्रहो द्विभेद: प्रागुक्तः सोऽव-गृहसामान्येन गृहीतोऽवग्रहसामान्येऽन्तर्भावित: भवति च विशेषाणां सामन्ये ऽन्तर्भावः, यथा सेनायां गजादीनां