________________ आभिणिबोहियणाण 300 अभिधानराजेन्द्रः भाग२ आभिणिबोहियणाण ग्गलदव्वा वंजणं तया पूरियंति पभूया ते पुग्गलदव्वा जायास्वं प्रमाणमानीता: सविसयपडिबोहसमत्था जाया" इत्यादि, "जया उवगरणिंदियं वंजणं तथा पूरियंति कहं उच्चते ? जाहे तेहिं पुग्गलेहिं तं दव्विंदियं आवृतं भरियं व्यापितं तया पूरयंति भण्णइ, जया उभयसंबंधो बंजणं तया पूरियंति कहं ? उच्यते, दव्वें दियस्स | पुग्गला अंगीभावमागता, पोग्गला दव्विंदिए अभिषिक्ता इत्यर्थः / तया पूरियंति इति भण्णइ इति, एवं च यदापूरितं भवति व्यञ्जनं तदा हु इति करोतिअर्थावग्रहरूपेण ज्ञानेन तमर्थ गृह्णाति, किं च ? नामजात्यादिकल्पनारहितं, तथा चाह-"नो चेव णं जाणइ केवेस सद्दाइ त्ति'-न पुनरेवं जानाति क एष शब्दादिरर्थ इति, स्वरूपद्रव्यगुणक्रियाविशेषकल्पनारहितमनिर्दृश्यं सामान्यमानं गृह्णातीत्यर्थः / एवं रूपसामान्यमात्रकारणत्वादविग्रहस्य एतस्माच पूर्व: सर्वोऽपि व्यञ्जनावग्रह: एषा मल्लक दृष्टान्तेन व्यञ्जनाऽवग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहबलप्रवर्तितम्, तत ईहां प्रवि- शति किमिदं किमिदमिति विमर्श कर्तुमारभते, तत ईहानन्तरं क्षयोपशम- विशेषभावाज्जानाति अमुक एष शब्दादिरिति, 'तत' एवं रूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति, ततोऽपायानन्तरमन्तर्मुहूर्तकालं यावदुपगतं भवतिसामीप्येना- त्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तमुहर्तकालं यावत् प्रवर्तत इत्यर्थ: ततो धारणां प्रविशति, सा च धारणा वासनारूपा द्रष्टव्या, यत आह- "तत्तो णमि'' त्यादि, ततो धारणायां प्रवेशात् 'णमि' तिवाक्यालंकारे, संख्येयं वा असंख्येयं वा कालं हृदि धारयन्ति, तत्र संख्येयवर्षायुष: संख्येयं कालम्, असंख्येयवर्षायुषस्तु असंख्येयं कालम् / अत्राह-सुप्तमङ्गीकृत्य पूर्वोक्त: प्रकार: सर्वोऽपिघटते, जाग्रतस्तु शब्द-श्रवणसमनन्तरमेवाऽवग्रहेहाव्यतिरेकेणावायज्ञानमुपजायते तथा प्रतिप्राणि संवेदनात् तन्निषेधार्थमाह- 'से जहानामए' इत्यादि, स यथानामकः कश्चित् जाग्रदपि पुरुषोऽव्यक्तं शब्द शृणुयात्, अव्यक्तमेव प्रथमं शब्दं सृणोति, अव्यक्तं नाम अनिद्देश्यस्वरूपं नामजात्यादिकल्पनारहितम्, अनेनाऽवग्रहमाह, अर्थाऽवग्रहश्च श्रोत्रेन्द्रियस्य संबन्धिव्यञ्जनाऽवग्रहमन्तरेण न भवति ततो व्यञ्जनाऽवग्रहोऽप्युक्तो वेदितव्यः, अत्राह-नन्वेवं क्रमो न कोऽप्युपलभ्यते, किंतु प्रथमत एव शब्दाऽपायज्ञानमुपजायते, सूत्रेऽपि चाऽव्यक्तमितिशब्दविशेषणं कृतम्, ततोऽयमों व्याख्येय:-अव्यक्तम्अनवधारितशाङ्कशाङ्गादिविशेषं शब्दं शृणुयादिति, इदं च व्याख्यानमुत्तरसूत्रमपि संवादयति-'तेणं सहो त्ति उम्गहिए तेनप्रमात्रा शब्द इत्यवगृहीतं, 'नो चेवणं जाणइ वेवेस सद्दाऽऽह' न पुनरेवं जानातिकएष शब्द:-शाङ्क:शाइतिवा? शब्द इत्यत्राऽऽदिशब्दात्-रसादिष्व- / प्ययमेव न्याय इति ज्ञापयति, तत ईहांप्रविशति इत्यादि सर्व संबद्धमेव, तदेतदयुक्तम्, सम्यक् वस्तुतत्त्वापरिज्ञानात्, इह हि यत्किचपि वस्तु निश्चीयते तत्सर्वमीहापूर्वकम्, अनीहितस्य सम्यक निश्चितत्वाऽयोगात्, नखलु प्रथमाक्षिसन्निपाते सत्य- धूमदर्शनेऽपि यावत्किभयं धूमः? किं वा मशकवर्तिरिति विमृश्य धूमगतकण्ठ क्षणनकालीकरणसोष्मतादिधर्मदर्शनात् सम्यक् धूमं धूमत्वेन न विनिश्चिनोति तावत्स धूमो निश्चितो भवति, अनिवर्तितशङ्कतया तस्य सम्यक् निश्चितत्वायोगात्, तस्माव-दश्यं यो वस्तु विशेषनिश्चय: स ईहापूर्वक शब्दोऽयमिति च निश्चयो वस्तुविशेषनिश्चयो रूपादिव्यवच्छेदात् ततोऽवश्यमितः पूर्वमीहया भवितव्यम्, ईहा च प्रथमत: सामान्यरूपेणाऽवगृहीते भवति, नाऽनवगृहीते, न खलु सर्वथा निरालम्बनमीहनं क्वापि भवदुपलभ्यते नचाऽनुपलभ्यमानं प्रतिपत्तुं शक्नुमः, सर्वस्या अपि प्रेक्षावतां प्रतिपत्ते: प्रमाणमूलत्वाद, अन्यथा प्रेक्षावत्ताक्षितिप्रस- त्तेः, तस्माद्-ईहायाः प्रागवग्रहोऽपि नियमात्प्रतिपत्तव्य: अमु- मेदार्थ भाष्यकारोऽपि द्रढयति-"ईहिज्जइ नाऽगहियं; नज्जई नाऽनीहियं न याऽनायं / धारिज्जइ तं वत्थु, तेण कमोऽवग्गहाई उ' ||296 // अवग्रहश्च शब्दोऽयमिति ज्ञानात् पूर्व प्रवर्त्तमानोऽ-निद्देश्यसामान्यमात्र-ग्रहणरूप एवोपपद्यते, नाऽन्य: अत एवोत्तं सूत्रकृता-'अव्यत्तं शब्दं शृणुयात्' इति, स हि परमार्थतः शब्द एव, तत: प्रज्ञापकस्तं शब्दमनूद्य तद्विशेषणमाचष्टे- अव्यक्तमिति तं शब्दमव्यत्तं शृणोति, किमुत्तं भवति ? शब्दव्यक्त्यापि व्यत्तं न शृणोति, किं तु सामान्यमात्रनिद्देश्यं गृह्णाति इत्यर्थः यदपि चोक्तम्- तेन प्रमात्रा शब्द: इत्यवगृहीतमिति, तत्रशब्दइति प्रतिपादयति प्रज्ञापक: सूत्रकारो, न पुनस्तेन प्रमात्रा शब्द इति अवगृह्यते, शब्द इति ज्ञानस्याऽपायरूपत्वात्, तथा हिशब्दोऽयमिति, किमुत्तं भवति ?- न शब्दाऽभावो, नच रूपादिः, किंतुशब्द एवाऽयमिति, ततो विशेषनिश्चयरूपत्वादयमवगमोऽपायरूप एव, नाऽवग्रहरूपः, अथ च अवग्रहप्रतिपादनार्थमिदमुच्यमानं वर्तते तत: शब्द इति प्रज्ञापक: सूत्रकारो वदति, न पुनस्तेन प्रमात्रा शब्द इत्यवगृहीते इति स्थितं, तथा चाह सूत्रकृत्- "नो चेव णमि'' त्यादि, न पुरेरवं जानाति क एव शब्दादिरर्थ इति, शब्दादिरूपतया तमर्थन जानातीति भावार्थ: / अतिनिद्देश्य-सामान्यमात्रप्रतिभासात्मकत्वादर्थाऽवग्रहस्य, अर्थाऽवग्रहश्च श्रोतेन्द्रियघ्राणेन्द्रियादीनां व्यञ्जनाऽवग्रहपूर्वक इति पूर्व व्यञ्जनाऽवग्रहोऽपि द्रष्टव्यः, तदेवं सर्वत्राप्यवग्रहेहापूर्वमवायज्ञानमुपजायते, केवलमभ्यासदशामामापन्नस्य शीघ्रंशीघ्रतरमवग्रहादेयः प्रवर्तन्ते इति कालसौक्ष्म्यात्ते स्पष्ट न संदेद्यन्ते इति स्थितम्।तत ईहां प्रविशित, इह केचिदीहां संशयमात्रं मन्यन्ते, तदयुत्तं, संशयो हिनामाऽज्ञानमिति, ज्ञानांऽशरूपा चेहा, तत: सा कथमज्ञानरूपा भवितुमर्हति? नन्वीहाऽपि किमयं शाङ्कः, किंवा शाङ्ग? इत्येवं रूपतया प्रवर्तते, संशयोऽपि चैवमेव ततः कोऽनयो: प्रतिविशेष:? उच्यते-इह यत् ज्ञानं शाशशाङ्गादिविशेषाननेकानालम्बतेन चासद्भूतं विशेषमुपासितुं शक्नोति, किंतु सर्वात्मना शयानमिव वर्तते; कुाठीभूतं तिष्ठतीत्यर्थ:, तदसद्भूतविशेषाऽपर्युदापरिकुण्ठितं संशयज्ञानमुच्यते यत्पुनः सद्भूतार्थविशेषविषये हेतुपपत्तिव्यापारपरतया सद्भूतार्थविशेषोपादानाभिमुखम