________________ आमिणिबोहियणाण 299 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण पविसइ तओ णं धारेइ संखिज्जवा कालं असंखिज्जं वा कालं। से जहानामए केइ पुरिसे अव्वत्तं गंधं अग्घाइज्जा तेणं गंधे त्ति उग्गहिए नो चेव णं जाणइ के वेस गंधे ति तओ ईहं पविसइ तओ जाणइ अमुकेएस गंधे तओ अवायं पविसइतओ से उवगयं हवइ तओ धारणं पविसइ तओ णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं / से जहानामए केइ पुरिसे अव्वत्तं रसं आसाइज्जा तेणं रसो त्ति उग्गहिए नो चेवणं जाणइ केवेस रसे त्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस रसे तओ अवायं पविसइ तओ से उवगयं हवइ तओ धारणं पविसइ, तओ णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं से जहानामए केइ पुरिसे अव्वत्तं फासं पडिसंवेइज्जा तेणं फासे त्ति उग्गहिए नो चेव णं जाणइ के वेस फासे त्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस फासे तओ अवार्य पविसइ तओ से उवगयं हवइ तओ धारणं पविसइ तओ णं धारेइ संखिज्जं वा कालं असंखिज्ज वा कालं / से जहानाम केइ पुरिसे अव्वत्तं सुमिणं पासिज्जा तेणं सुमिणो त्ति उग्गहिए नो चेव णं जाणइ केवेस सुमिणे त्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस सुमिणे तओ अवायं पविसइ तओ से उवगयं हवइतओ धारणं पविसइ तओ णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं। सेत्तं मल्लगदिहतेणं। (सूत्र-३५) 'एवं अट्ठावीसे' इत्यादि। एवम् -उक्तेन प्रकारेण अष्टाविंशतिविधस्य, कथमष्टाविंशविधतेति, उच्यते-चतुर्दा व्यञ्जनावग्रह: षोढा अर्थावग्रह: षोढा ईहा, षड्विधोऽपाय: षोढा धारणेत्याद्यष्टाविंशतिविधता एवमष्टाविंशतिविधस्याभिनि-बोधिकज्ञानस्य संबन्धी यो व्यञ्जनाग्रह: तस्य स्पष्टतरस्वरू-पपरिज्ञानाय प्ररूपणां करिष्यामि कथम् ? इत्याह प्रतिबोधकदृ- ष्टान्तेन, मल्लकदृष्टान्तेन च / तत्र प्रतिबोधयतीति प्रतिबोधक:- सुप्तस्योत्थापक: स एव दृष्टान्त: प्रतिबोधकदृष्टान्त: तेन, मल्लकं- शरावं तदेव दृष्टान्तो मल्लकदृष्टान्तस्तेन च, 'से किं तमि' त्यादि, अथ केयं प्रतिबोधकदृष्टान्तेन, व्यञ्जनावग्रहस्य प्ररूपणेति शेषः / आचार्य: प्राह-प्रतिबोधकदृष्टान्तेनेयं व्यञ्जनावग्रहप्ररूपणा, स यथानामकोयथासंभवनामधेयः कोऽपि पुरुषः, अत्र सर्वत्राप्येकारो मागधिकभाषालक्षणा-नुसरणात्, तच्च प्रागेवानेकशः उक्तं चकश्चिदनिर्दिष्टनामानं यथासंभवनामकं पुरुष सुप्तं सन्तं प्रतिबोधयेत्, कथमित्याहअमुक अमुक इति, तत्र एवमुक्ते सति 'चोदको' ज्ञाना वरणकर्मोदयत: कथितमपिसूत्रार्थमनवगच्छन् प्रश्नं चोदयतीति चोदक:, यथावस्थितं सूत्रार्थं प्रज्ञापयतीति प्रज्ञापको गुरुः, तम् एवं वक्ष्यमाणेन प्रकारेण अवादीत् भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थः, वदनप्रकारमेव दर्शयति-किमेकसमयप्रविष्टा: पुद्गला ग्रहणमा गच्छन्ति?.. ग्राहातामुपगच्छन्ति, किंवा द्विसमयप्रविष्टा?, इत्यादि सुगमम्, एवं वदन्तं चोदकं प्रति प्रज्ञापक: अवादीत्-उक्तवान् नो एकसमयप्रविष्टा इत्यादि, प्रकटार्थ यावन्नो संख्येयसमयप्रविष्टा: पुद्गला ग्रहणमागच्छन्ति नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्थावग्रहलक्षणविज्ञान-ग्राह्यतामधिकृत्य वेदितव्यो, यावता पुनः प्रथमसमयादुप्यारभ्य किंचि-त्किञ्चिदव्यक्तं ग्रहणमागच्छन्तीति प्रतिपत्तव्यम्, 'जं वंजणोग्गहणमिति भणियं विन्नाण अव्वत्तं' इतिवचनप्रमाण्यात् 'असंखेज्जे त्यादि, आदित आरभ्य प्रतिप्रसमयप्रवेशनेनासंख्येयान्समयान्यावत्ये प्रविष्टा: ते असंख्येय-समयप्रविष्टा: पुद्गला ग्रहणमागच्छन्ति अर्थाव- ग्रहरूपविज्ञानग्राह्यतामुपपद्यन्ते असंख्येयसमयप्रविष्टेषु तेषु चरमसमये प्रविष्टा: पुद्रला अर्थावग्रहविज्ञानमुपजनयन्तीत्यर्थः / अर्थावग्रहाविज्ञानाच्च प्राक्सर्वोऽपि व्यञ्जनावग्रहः / एषा प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपरूपणा व्यञ्जनाव- ग्रहस्य च कालो जघन्यत: आवलिकाsसङ्ख्येयभागः, उत्कर्षत: संख्येयावलिका: ता अपि संख्येया आवलिकाः आनपानपृथ- क्त्वकालमाना वेदितथ्याः, यत उक्तम्-' वंजणवग्गहकालो आवलियासंखभागातुल्लो उ। थोवा उक्कोसा पुण, आणापाणू पहुत्तंति' ||1|| 'सेत्तमि'-त्यादि, नियमनम्, सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा।। 'से किं तमि' त्यादि, अथ केयं मल्लकादृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा ? सूरिराह-सःअनिर्दिष्टस्वरूपो यथानामकः कश्चित् पुरुष: आपाकशिरस:- आपाक: प्रतीत: तस्य शिरसो मल्लकंशरावं गृहीत्वा इदं हि किल रूक्षं भवति ततोऽस्योपादानं, तत्र मल्लकं एकमुदकविन्दु प्रक्षिपेत्, स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः, ततो द्वितीयं प्रेक्षिपेत् सोऽपि विनष्टः, एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति स उदकबिन्दुर्यस्तत् मल्लकं 'रावेहिइ' इति देश्योऽयं शब्द:- आर्द्रतां नेष्यति, शेषं सुगम, यावदेवमित्यादि, एवमेव उदकबिन्दुभिरिव निरन्तरं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैरनन्तै: शब्दरूपतापरिणतैः पुद्गलैर्यदा तद् व्यञ्जनं पूरितं भवतितदा हुंकरोति-हुंकारंमुञ्चति-तदातान् पुद्गलान् अनिर्दिश्यरूपतया परिच्छिनत्ति, इति भावार्थः / अत्र व्यञ्जनशब्देन उपकरणेन्द्रियं शब्दादिपरिणतं वा द्रव्यं तयो: संबन्धो गृह्यते, तेनन कश्चिद्वि-रोध: आह च भाष्यकृत् "तोएण मल्लगं पि व वंजणमापूरियं ति जं भणियं / तं दव्वमिंदियं वा, तत्संबंधो व न विरोहो // 250 // " तत्र यदा व्यञ्जनमुपकरणेन्द्रियमधिक्रियते तदा पूरितमिति कोऽर्थः- परिपूर्ण भृतंव्याप्तमित्यर्थः, यदा व्यञ्जनं द्रव्यमभिगृह्यते तदा पूरितमिति प्रभूतीकृतं स्वप्रमाणमानीतं स्वव्यक्तौ समथा-कृतमित्यर्थः, यदातुव्यञ्जनंद्वयोरपि संबन्धोगृह्यतेतदा पूरितमिति। किमुक्तं भवति-तावत्संबन्धोऽभूतयावति सति ते शब्दादिपुद्गला ग्रहणमागच्छन्ति, आह च चूर्णिकृत- "यदा पु