________________ आभिणिबोहियणाण 298 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण भ्रान्तोऽयमनुभव इति दर्शयन्नाहउप्पलदलसयवेहे व्व, दुट्विभावत्तणेण पडिहाइ। समयं वसुक्कसक्कुलि-दसणे विसयाणमुवलद्धी / / 299 / / 'क्वचित्प्रथममेवाऽपाय: क्वचित्तु धारणैव' इति यत्त्वया प्रेर्यते, तत् 'प्रतिभाति' इत्यनन्तरगाथोक्तेन संबन्धः / केनैतत् प्रतिभाति? इत्याह-दुःखेन विभाव्यते दुर्विभावो दुर्लक्षस्तद्भा- वस्तत्त्वं तेन दुर्विभावत्वेन दुर्लक्षत्वेनाऽवग्रहादिकालस्येति गम्यते / कस्मिन्निव इत्याह-उत्पलंपद्म तस्य दलानि- पत्राणि तेषां शतं तस्य सूच्यादिना वेधनं वेधस्तस्मिन्निव / इदमुक्तं भवति-यथा तरुण: समर्थपुरुष: पद्मपत्रशतस्य सूच्यादिना वेधं कुर्वाण एवं मन्यते, मया एतानि युगपद्विद्धानि, अथच प्रतिपत्रंतानि कालभेदेनैव भिद्यन्ते, न चाऽसौ तं कालमतिसौक्ष्म्या - देनावबुद्ध्यते, एवमत्राप्यऽवग्रहादिकालस्यातिसूक्ष्मतया दुर्विभावनीयत्वेनाऽप्रतिभासः, न पुनरसत्त्वेन, ईहादयो ह्यन्यत्र क्वचित्तावत्स्फुटमेवानुभूयन्ते, यत्राऽपि स्वसंवेदनेन नाऽनुभू- यन्ते, तत्राऽपि "ईहिज्जइ नागहियं नज्जइ नाणीहियं" इत्यादि प्रागसकृदभिहितयुक्तिकलापादवसेयाः / तस्मादुत्पलदलशतवेधोदाहरणेन भ्रान्त एवायं प्रथमत एवाऽपायादिप्रतिभासः / अथोदाहरणान्तरेणाप्यऽस्य भ्रान्ततामुपदर्शयति-'समयंवे' त्यादि, वा' इति-अथवा, यथा शुष्कशष्कुलीदशने समयं - युगपदेव सर्वेन्द्रियविषयाणां - शब्द रूप-रस-गन्ध-स्पर्शाना-मुपलब्धि: प्रतिभाति, तथैषोऽपि प्राथम्येनाऽपायादिप्रतिभासः / एतदुत्तं भवतियथा कस्यचित् शुष्कां दीर्घा शष्कुलिकां भक्षयत:, तच्छब्दोत्थानाच्छउदविज्ञानमुपजाते, अत एव शुष्क त्वविशेषणं मृव्यामेतस्यां शब्दानुत्थानादिति शब्दश्रवणसमकालमेव च दीर्घत्वात् तस्या दृष्टया तदूपदर्शनं चाऽयमनुभवति, अतएव च दीर्घत्वविशेषणम्, अति-हस्वत्वे मुखप्रविष्टायास्तस्याः शब्दश्रवणसमकालं रूपदर्शनानुभवाभावादिति। रूपदर्शनसमकालं च तद्गन्धज्ञानमनुभवति, अत एव शष्कुलीग्रहणं गन्धोत्कटत्वात्तस्याः; इक्षुखण्डादिषु तु दीर्धेष्वऽपि तथाविधगन्धाभावाद्विति गन्धादिज्ञानसमकालं च तद्रसस्पर्शज्ञानेऽ-नुभवति / तदेवं पञ्चानामपीन्द्रिय-विषयाणामुपलब्धियुगपदेवास्य प्रतिभाति / न चेयं सत्या इन्द्रियज्ञानानां युगपदुत्पादाऽयोगात्, तथा हि-मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति; नाऽन्यथा, अन्यमनस्कस्य रूपादिज्ञानानुपलम्भात्। न च सर्वेन्द्रियैः सह मनो युगपत्संयुज्यते, तस्यैकोपयोगरूपत्वाद्, एकत्र ज्ञातरि एककालेऽनेकै संयुज्यमानत्वायोगात् / तस्मान्मनसोऽत्यन्ताशुसंचारित्वेन कालभेदस्य दुर्लक्ष्यत्वाधुगपत्सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति / परमार्थतस्त्वस्वामपि कालभेदोऽस्त्येव ततो यथाऽसौ भ्रान्तै!पलक्ष्यते तथावग्रहादिकालेऽपीति प्रकृतम् / दीर्घत्व-विशेषणं च शष्कुलिकाया गाथायामनुक्तमप्युपलक्षण- त्वाद्विहित-मिति परिभावनीयम्।। तदेवमवग्रहादीनां नैकादिवैकल्यं नाप्युत्क्रमाऽ-तिक्रमाविति स्थितम्। इति गाथार्थः / विशे। (7) आभिनिबोधिकज्ञानस्य अष्टाविंशति२८ भेदाःएवं अट्ठावीसइविहस्स अमणिवोहियनाणस्स / वंजणुग्गहस्स परू वणं करिस्सामि पडिवोहगदिढतेणं, मल्लगदिलुतेण य / से किं तं पडिबोहगदिटुंतेणं? पडिबोहगदिहतेणं से जहानामए केइ पुरिसे कंचि पुरिसं सुत्तं पडियोहिज्जा अमुगा! अमुग ! त्ति, तत्थ चोयगे पन्नवगं एवं वयासी- किं एगसमयपविट्ठा पुग्गला गहणमागच्छंति, दुसमयपविट्ठा पुग्गला गहणमागच्छंति, जाव दससमयपविठ्ठा पुग्गला गहणमागच्छंति, संखिज्ज- समयपविट्ठा पुग्गला गहणमागच्छंति, असंखिज्ज- समयपविट्ठा पुग्गला गहणमागच्छंति, एवं वदंतं चोयगं पण्णवए एवं वयासी- नो एगसमयपविट्ठा पुग्गला गहणमागच्छंति, नो दुसमयपविट्ठा पुग्गला गहणमागच्छंति, जाव नो दससमयपविट्ठा पुग्गला गहणमागच्छंति, नो संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति, असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति, सेतं पडिबोहगदिटुंऽतेणं॥ से किं तं मल्लगदिटुंतेणं? मल्लगदिटुंतेणं- से जहानामए केइ पुरिसे आपागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिविज्जा से नहे, अण्णे वि पक्खित्ते से वि नहे; एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जेणं तं मल्लगं रावेहिइ त्ति, होही से उदगबिंदू जेणं तंसि मल्लगंसि? ठाहिति, होही से उदगबिंदू जेणं तं मल्लग भरिहिति, होही से उदगबिंदूजेणं तं मल्लगं पवाहेहिति, एवामेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं अणंतेहिं पुग्गलेहिं जाहे तं वंजणं पुरियं होइ ताहे हुंति करेइ, नो चेवणं जाणइ केवि एस सद्दाइ ? तओ ईहं पविसइ तओ जाणइ अमुगे एस सद्दाइ, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ णं धारणं पविसइ, तओ णं धारेइ संखिज्जं वा कालं असंखेज्जं व कालं / से जहानामए केइ पुरिसे अव्वत्तं सह सुणिज्जा तेणं सहो त्ति उग्गहिए, नो चेवणं जाणइ केवेस सद्दाइ तओ ईहं पविसइ तओ जाणइ अमुगे एस सद्दे तओणं अवार्य पविसइतओ से उवगयं हवइ तओ धारणं पविसइ, तओ णं धारेइ संखिज्जं वा कालं असंखिज्ज वा कालं / से जहानामए केइ पुरिसे अव्वत्तं रूवं पासिज्जा तेणं रूव त्ति उग्गहिए नो चेव णं जाणइ के वेस रूव त्ति तओ ईहं पविसइ तओ जाणइ अमुगे एस रूवे त्ति तओ अवायं पविरसइ तओ से उवगयं हवइ तओ धारणं