SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आमिणिबोहियणाण 297 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण षाराभाववन्ति स्थानानि गृह्यन्ते, तेषु केवलस्यैव मनसो मन्य- मानेषु शब्दादिविषयेष्ववग्रहादयोऽवग्रहेहापायधारणा भवन्तीति स्वयमभ्यूह्या: तथाहि- स्वप्नादौ चित्तोत्प्रेक्षामात्रेण श्रूयमाणे गीतादिशब्दे प्रथम सामान्यमात्रोत्प्रेक्षायामवग्रह:, 'किमयं शब्द:, अशब्दो वा' इत्याधुत्प्रेक्षायां त्वीहा, शब्दनिश्चये पुनरपाय: तदनन्तरंतुधारणा। एवं देवतादिरूपे, कर्पूरादिगन्धे, मोदका- दिरसे, कामिनीकुचकलशादिस्पर्श चोत्प्रेक्ष्यमाणे अवग्रहादयो मनस: केवलस्य भावनीयाः / इति गाथार्थः। (5) आह नन्वेते अग्रहादय उत्क्रमेण व्यतिक्रमेण वा किमिति न भवन्ति / यद्वा-ईहादयस्त्रयो द्वौएको वा किंनाऽभ्युपगम्यन्तेयावत्सर्वेऽप्यभ्युपगम्यन्त इत्याशङ्कयाहउक्कमओऽइक्कमओ, एगाभावे विवान वत्थुस्स। जं सब्भावाहिगमो, तो सव्वे नियमियक्कमा य / / 295 / / एषामवग्रहादीनामुत्क्रमेण- उत्क्रमत: अतिक्रमेण- अति- क्रमत: 'अपिशब्दस्य भिन्नक्रमत्वादेकस्याप्यभावे वा यस्मान्न वस्तुनः सद्भावाधिगम: तस्मात्सर्वे चत्वारोऽप्येष्टव्याः तथा नियमितक्रमाश्चसूत्रनिर्दिष्ट परिपाट्यन्विताश्च 'भवन्त्येतेऽवग्रहा- दयः' इति प्रक्रमाल्लभ्यते / इत्यक्षरयोजना / भावार्थस्तूच्यते- तत्र पश्चानुपूर्वीभवनमुत्क्रमः। अनानुपूर्वी भवनं त्वतिक्रमः। कचिद-वग्रहमतिक्रम्येहा तामप्यतिलयापायस्तमप्यतिवृत्य धारणेति; एवमनानुपूर्वीरूपोऽतिक्रम इत्यर्थः / एताभ्यामुत्क्रम-व्यतिक्रमाभ्यां तावदवग्रहादिभिवस्तुस्वरूपं नाऽवगम्यते / तथैषां मध्ये एकस्याऽप्यन्यतरस्याऽभावे वैकल्येन वस्तु-स्वभावावबोध इत्यसकृदुक्तप्रायमेव / तत: सर्वेऽप्यमी एष्टव्याः, नत्वेकः द्वौ त्रयो वेत्यर्थः / तथा-"उग्गहो ईहाऽवाओ यधारणा एव होन्ति चत्तारि" इत्यस्यां गाथायां यथैवकारेण पूर्वमेतेषांनियमित: क्रमः, तथैवैते नियमितक्रमा भवन्त, नोत्क्रमाऽतिक्रमाभ्यामिति भावः / इति गाथार्थः। अथोत्क्रमाऽतिक्रमयो रे कादिवैकल्ये चाऽवग्रहादीनां वस्त्वधिगमाऽभावे युक्तिमाहईहिज्ज्जइ नाऽगहियं, नज्जइ नाणीहियं न याऽनायं / धारिज्जइ जंवत्थु, ते क्कमोऽवग्गहाई उ / / 296 / / यस्मादवग्रहेणागृहीतं वस्तु नेह्यते- न तत्रेहा प्रवर्तते, ईहाया, विचाररूपत्वाद् अगृहीते च वस्तुनि निरास्पदत्वेन वि- चाराऽयोगादिति भावः / तदनेन कारणेनादौ अवग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा / न चाऽनीहितम्-अविचारितं ज्ञायते- अपा- यविषयतां याति, अपायस्य निश्चयरूपत्वात्, निश्चयस्य च विचारपूर्वकत्यादिति हृदयम् / एतदभिप्रायवता चापायस्यादौ ईहा निर्दिष्टेति / न चाज्ञातम्अपायेनाऽनिश्चितं धार्यते-धारणाविष- यीभवति वस्तुधारणाया अर्थावधारणरूपत्वादवधारणस्य च निश्चयमन्तरेणाऽयोगादित्यभिप्रायः / ततश्च धारणादावपायः / ततः किम्? इत्याहतेनाऽवग्रहादिरेव क्रमो न्याय्य:, नोत्क्रमातिक्रमौ, यथोक्तन्यायेन वस्त्ववगमाऽभावप्रसङ्गात्। इति गाथार्थः / तदेवं निराकृतौ सयुक्तिकमुत्क्रमाऽतिक्रमौ। अथ यदुक्तम्- "एगाऽभावे विवान वत्थुस्सजंसब्भावाहिगमोतोसव्ये त्ति, तत्रापीयमेव युक्तिरितत दर्शयन्नाहएत्तो चिय ते सवे, भवंति य नेव समकालं। न वइक्कमो य तेसिं, न अन्नहा नेयसब्भावो // 297 / / यत एव 'नाऽगृहीतमीह्यते, इत्याधुक्तम, एतस्मादेव च तेऽवग्रहादयः सर्वे चत्वारोऽप्येष्टव्या भवन्ति, उक्तन्यायान्नैक- वैकल्येऽपि मतिज्ञानं संपद्यते इत्यर्थः / 'पूर्वमवगृहीमीह्यत' इत्याधुक्तेरेव च ते भिन्ना:परस्परमसंकीर्णाः, उत्तरोत्तरापूर्वभिन्न- वस्तुपर्यायग्रहणादिति / नागृहीतमीह्यत' इत्यादियुक्तेरेव च न ते समकालम्, भिन्ना: सिद्धास्तेऽवग्रहादयः समकालमपि नैव भवन्ति; युगपन्न जायन्त इत्यर्थः / 'पूर्वमवगृहीत-मेवोत्तरकालमीह्यते, ईहोत्तरकालमेव च निश्चीयते' इत्या-द्युक्तन्यायेनैवावग्रहा-दीनामुत्पत्तिकालस्य भिन्नत्वात् न युगपत्संभव इति भावः / उक्तयुक्तेरेव तेषां न व्यतिक्रम:, उपलक्षणत्वात् 'नाऽप्युत्क्रमः' इत्यपि द्रष्टव्यम् / एतच 'तेण कमोवग्गहाईउ' इत्यनन्तरगाथाचरमपादेन सामर्थ्यादुक्तमपि प्रस्तावात्पुनरपि साक्षादुक्तम्, इत्यदोष: तदेवं 'ईहिज्जइ नागहियं' इत्यादियुत्ते- यथोक्तधर्मका एवाऽवग्रहादय: न विपर्ययधर्माण इति साधितम्। अथ ज्ञेयवशेनाऽप्येषां यथोक्तधर्मकत्वं सिसाधयिषुरिदमाह'न अन्नहा नेयसब्भावो' त्ति-ज्ञेयस्याप्यवग्रहादिग्राहसय शब्दरूपादे न्यथा स्वभावोऽस्ति, येनाऽवग्रहादयस्तद्ग्राहका; यथोक्तरूपतां परित्यज्याऽन्यथा भवेयुरित्यर्थः / इदमुक्तं भवति ज्ञेयस्याऽपि शब्दादे: स स्वभावो नास्ति य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः समकालभाविभिरुत्क्रमातिक्रमवद्भिश्चाव-गम्येत / किंतु-शब्दादिज्ञेयस्वभावोऽपि तथैव- व्यवस्थितो यथा- ऽमीभि: सर्भिन्नैः असमकालै:, उत्क्रमातिक्रमरहितैश्च संपूर्णो यथावस्थितश्चावगम्यते, अतो ज्ञेयवशेनाप्येते यथोक्तरूपा एव भवन्ति / तदेवम्'उक्कमओ अतिक्कमओ एगाऽभावे वि वा' इत्यादिगाथोक्तं प्रसङ्गतोऽन्यदपि भिन्नत्वम्, असमकालत्वं चसमर्थितम्, इतिगाथार्थः / अत्र पर: प्राऽऽहअब्भत्थेऽवाओ चिय, कत्थइ लक्खिज्जई इमो पुरिसो। अन्नत्थ धारण चिय, पुरोवलद्धे इमं तंति / / 298 / / स्वभ्यस्तेऽनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये पुन: क्वचित्कदाचिदवलोकिते अवग्रहेहाद्वयमतिक्रम्य प्रथमतोऽ- प्यपाय एव लक्ष्यते-अनुभूयते निर्विवादमशेरैरपि जन्तुभि: यथाऽसौ 'पुरुष' इति। अन्यत्र पुन: कचित्पूर्वोपलब्धे सुनिश्चिते दृढवासने विषयेऽवग्रहहापायानतिलच्य स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद्वस्तु यदस्माभिः पूर्वमुपलब्धम्' इति तत्कथम् ? उच्यते-उत्क्रमाऽतिक्रमाभ्याम् एकादिवैकल्ये च न वस्तुसद्भावाऽधिगमः? इदं च कथमभिधीयते "ईहिज्जइ नागहियं" इत्यादीप्रेरकाभिप्राय: / इति गाथार्थः।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy