________________ आभिणिबोहियणाण 296 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण विशेषत्वमेव, न सामान्यत्वम्, इति पूर्वोक्तरूपो लोकप्रतीत: / सामान्यविशेषव्यवहार: समुच्छिद्येत / अथ प्रथमापायानन्तरमभ्युपगम्यते ईहोत्थानम्, उत्तरविशेषग्रहणं च; तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वं, यश्च सामान्यग्राहकः, यदनन्तरं चेहादि प्रवृत्ति: सोऽविग्रह: नैश्वयिकाद्यर्थावग्रहवत्, इत्युक्तमेव / इति सिद्धो व्यावहारिकार्थावग्रह: तत्सिद्धौ च सन्तानप्रवृत्त्या अन्त्यविशेष यावत्सिद्धः सामान्यविशेषव्यवहार: / इति गाथार्थः इति मतिज्ञानाद्यभेदलक्षणो द्विभेदोऽप्यवग्रहः समाप्त इति। अथ तद्वितीयभेदलक्षणामीहां व्याचिख्यासुराइय सामण्णगहणा-णंतरमीहा सदत्थवीमंसा। किमिदं सद्दोऽसहो, को होज्जद संखसंगाणं / / 289 / / इतिशब्द उपदर्शने, इत्येवं प्रागुक्तेन प्रकारेण नैश्वयिका-विग्रहे यत्सामान्यग्रहणं रूपाद्यव्यावृत्त्या व्यक्तवस्तुमात्रग्रहण- मुत्तं, तथा व्यवहारार्थावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादि- सामान्यग्रहणमभिहितं तस्मादनन्तरमीहा प्रवर्तते। विशे०। (तस्या: ईहाया: स्वरूपम् 'ईहा' शब्देऽस्मिन्नेव भागे वक्ष्यते) अथमतिज्ञानतृतीयभेदस्याऽपायस्य स्वरूपम्। (विशे०।२९० गाथया' अवाय' शब्दे प्रथमभागे 804 पृष्ठे गतम्) अथ चतुर्थो मतिज्ञानभेदो धारणा, इयं चाविच्युतवासनास्मृतिभेदात् त्रिधा भवत्यत: सभेदाऽपि। (विशे / साधारणा'धारणा' शब्दे चतुर्थभागे 291 गाथाया वक्ष्यते) तदेवं "से जहानामए के इ पुरिसे अव्वत्तं सदं सुणेज्ज'' इत्यादिसूत्राऽनुरोधेन शब्दमाश्रित्यावग्रहादयो भाविताः / अथ सूत्रकारेणैव यदुक्तम्-"एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंध फास' इत्यादि, तचेतसि निधाय भाष्यकारोऽप्यति देशमाहसेसेसु विरूवाइ-सु विसएस होति रूवलक्खाई। पायं पञ्चासन्न-तणेणमीहाइवत्थूणि / / 292 / / यथा शब्दे एवं शेषेष्वपि, रूपाऽऽदिविषयेषु साक्षादनु- तान्यपि रूपलक्षाणि कथितानुसारप्रसरत्प्रज्ञानां चतुरचेतसां सुज्ञेयानि भवन्ति / कानीत्याह-ईहादीन्याभिनिबोधिकज्ञानस्य भेद- वस्तूनि / केन रूपलक्षाणीत्याह- प्रायः प्रत्यासन्नत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेस्तत्राऽगृह्यमाणेन पुरुषादिना सह प्रायो बहुभिर्धर्मैर्यत्प्रत्यासन्नत्वं या प्रत्यासत्तिः सादृश्यमिति यावत् तेन ईहादीनि ज्ञेयानि न पुनरत्यन्तवैलक्षण्ये स्थाण्वादेरुष्ट्रादिना सहेत्यर्थः / इदमुक्तं भवतिअवग्रहे तावत्सामान्यमात्र-ग्राहकत्वात् द्वितीयवस्त्वपेक्षाऽपि न विद्यते। ईहा पुनरुभयवस्त्ववलम्बिनी तत्र पुरोदृश्यमानस्य वस्तुनो यत्प्रतिपक्षभूतं वस्तु तत्प्रायो बहुभिर्धम्म: प्रत्यासन्नंग्राह्यं न पुनरत्यन्तविलक्षणं पुरो हि मन्दमन्दप्रकाशे दूरात् दृश्यमाने स्थाण्वादौ 'किमयं स्थाणुः, पुरुषो वा ?' इत्येवमेवेहा प्रवर्तत, ऊध्वस्थानारोह- परिणाहतुल्य- | तादिभिः प्रायो बहुभिर्धर्म: पुरुषस्य स्थाणुप्रत्यासन्नत्वादिति। 'किमयं स्थाणुः, उष्ट्रो वा' इत्येवंतुन प्रवर्तते। उष्ट्रस्य स्थाण्यपेक्षया प्रायोऽत्यन्तविलक्षणत्वात् / अत एव सामान्यमात्रग्राही अवग्रहोऽत्रादौ न कृतः, किंतु'ईहादीनि' इत्येवमेवोक्तं उभयवस्त्व-वलम्बित्वेनेहाया एव'पायं पचासन्नत्तणेण' इति विशेषणस्य सफलत्वाद् अपायस्याऽपि 'स्थाणुरेवायं, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः / किंचिद्विशेषणस्य सफलत्वादादि-शब्दोऽप्यविरुद्धः / इति गाथार्थः / इह 'किं शब्दः, अशब्दो वा'? इति श्रोत्रेन्द्रियस्य प्रत्यासन्नवस्तूपदर्शनं कृतमेव / अथाऽशेषचक्षुरादीन्द्रियाणां विषयभू-तानि प्रत्यासन्नवस्तूनि क्रमेण प्रदर्शयतिथाणुपुरिसाइकुछ-प्पलाइसंमियकरिल्लमसाइ। सप्पुप्पलनालाइव, समाणरूवाइविसयाई / / 293 / / 'ईहादिवस्तूनि रूपलक्षणि" इत्युक्तं कथं भूतानि सन्ति पुनस्तानि रूपलक्षाणि? इत्याह-समान: समानधर्मा रूपसरसादिर्विषयो येषामीहादीनां तानि समानरूपा-दिविषयाणीति पूर्वगाथायां संबन्धः / क: पुनरमीषां समानधर्मा रूपादिविषयः? इत्याह-स्थाणुपुरुषादिवदिति पर्यन्ते निर्दिष्टोऽपि विषयोपदर्श- नाभिद्योतको वच्छब्दः सर्वत्र योज्यते। ततश्चक्षुरिन्द्रियप्रभव- स्यहादे: स्थाणुपुरुषादिवत्समानधर्मा रूपविषयो द्रष्टव्यः; आदिशब्दात्-किमयं शुक्तिका रजतखण्डवा? मृगतृष्णिका, पय:पूरो वा ? 'रज्जुर्विषधरो वा' इत्यादिपरिग्रहः / घ्राणेन्द्रियप्रभवस्येहादे: कुष्टो (ठो)त्पलादिवत्समानगन्धो विषय:,तत्र कुष्टः (8) गन्धिकहट्टविक्रेयो वस्तुविशेष:,उत्पलं-पद्मम् अनयोः किल समानगन्धो भवति / तत ईदृशेन गन्धेन 'किमिदं कु (ठं) ष्टम्, उत्पलं वा?' इत्येवमीहाप्रवृत्तिः, आदिशब्दात्-किमत्र सप्तच्छदा:, मत्तकरिणो वा?' 'कस्तूरिका, वनगजमदो वा?' इत्यादिपरिग्रहः,रसनेन्द्रियप्रभवस्येहादेः संभृतकरीलमां- सादिवत्समानरसो विषयः / तत्र संभृतानि संस्कृतानि संधानीकृ- तान्यद्धृतानि यानि वंशजालसंबन्धीनि करीलानि, तथा मांसम्, अनयोः किलाऽऽस्वाद: समानो भवति / ततोऽन्धकारादावन्यतर-स्मिन् जिह्वाग्रप्रदत्ते भवत्येवं-'किमिदं संभृतवंशकरीलम्, आमिषं वा ?' इति; आदिशब्दाद्- 'गुड: खण्डं वा ?' मृबीका, शुष्कराजादनं वा ? इत्यादिपरिग्रहः / स्र्पशनेन्द्रियप्रभवस्येहादे: सप्पोत्पलनालादिवत्समानस्पर्शो विषय:, सर्पो-त्पलयोश्व तुल्यस्पर्शनेहाप्रवृत्तिः सुगमैव, आदिशब्दात् - स्त्रीपुरुषलेष्ट्रपलादिसमानस्पर्शवस्तुपरिग्रहः / इति गाथार्थः / अथ यदुक्तं सूत्रे 'जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासेज्जा" इत्यादि, तदनुसृत्य स्वप्ने मनसोऽप्यवग्रहादीन् दर्शयन्नाहएवं चिय सिमिणाइसु, मणसो सहाइएसु विसएसु। होतिदियबावारा- भावे वि अवग्गहाईया / / 294 / / एवमे व-उक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वप्नादिषु, आदिशब्दात्- दत्तकपाट सान्धकारापवरकादीनीन्द्रियव्या