SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आभिणिबोहियणाण 295 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण संभवत्स्वपि अन्यविशेषेषु यतो विशेषात्परत: प्रमातुस्तज्जि-ज्ञासा निवर्त्तते सोऽन्त्य: तमन्त्यं विशेषं यावद्व्यावहारिकार्थाऽवग्रहहाऽपायार्थ सामान्यविशेषापेक्षा कर्त्तव्या। इति गाथात्रयाऽर्थः / इह च गाथात्रयेऽपि यः पर्यवसितोऽर्थो भवति, तमाहसव्वत्थेहाऽवाया, निच्छयओ मोत्तुमाइसामण्णं। संववहारत्थं पुण, सव्वत्थाऽवग्गहोऽवाओ।।२८५।। सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयत:- परमार्थत: ईहाऽपायौ भवतः, 'ईहा, पुनरपाय: पुनरीहा, पुनरप्यपाय:' इत्येवं क्रमेण यावदन्त्यो विशेषस्तावदीहापायावेव भवत: नाऽर्थावग्रह इत्यर्थः / किंसर्वत्र एवमेव ? न इत्याह- 'मौत्तुमाइसामण्णं ति' आद्यमव्यक्तं सामान्यमात्रालम्बनमेकं सामयिक ज्ञानं मुक्त्वा-ऽन्यत्रेहापायौ भवतः, इदं पुनर्नेहा, नाऽप्यपाय:, किं त्वर्थावग्रह एवेति भावः / संव्यवहारार्थ व्यावहारिकजनप्रतीत्यपेक्ष पुनः सर्वत्र यो योऽपाय: स स उत्तरोत्तरेहाऽपायाऽपेक्षया, एष्यविशेषापेक्षया चोपचारतोऽर्थावग्रहः / एवं च तावन्नेयं, यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते / इति गाथार्थः। तरतमयोगाभावे तु किं भवतीत्याहतरतमजोगाऽभावे, ऽवाउ चिय धारणा तदंतम्मि। सव्वत्थ वासणा पुण, भणिया कालंतरे विसई ||286 / / तरतमयोगाऽभावे-ज्ञातुरठोतनविशेषाकाक्षः निर्वृत्तौ अपाय एव भवति; न पुनस्तस्यावग्रहत्वमिति भावः, तन्निमित्तानां पुनरीहादी- [ नामभावादिति। यद्यग्रत ईहादयो न भवन्ति, तर्हि किं भवति ? इत्याहतदन्ते-अपायान्ते धारणातदर्थोपयोगा- प्रच्युतिरूपा भवति। शेषस्य वासनास्मृतिरूपस्य धारणाभेदद्व- यस्य व संभव:? इत्याह- 'सव्वत्थ वासणा पुण' इत्यादि, वासना च वक्ष्यमाणरूपा तथा कालान्तरे स्मृति:, साच सर्वत्र भणिता। अयमर्थ:- अविच्युतिरूपा धारणाऽपायपर्यन्त एव ' भवति, वासना-स्मृतीतु सर्वत्र कालान्तरेऽप्यविरुद्धे। इति गाथार्थ: / एवं चामिहितस्वरूपव्यावहारिकार्थावग्रहाऽपेक्षया यथाश्रुतार्थव्याख्यानमपि सूत्रस्याविरुद्धमेव, इति दर्शयन्नाहसद्दो त्तिय सुयभणियं, विगप्पओ जइ विसेसविण्णाणं। चिप्सेज्जतं पि जुज्जइ, संववहारोग्गहे सव्वं / / 287 / / 'वा' शब्दोऽथवार्थे, ततश्चाऽयमभिप्राय:- 'सद्दे त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद्व्याख्यातं"तेणं सद्देत्ति उग्गहिए'' इत्यादिसूत्रम्। अथवा-'शब्द' इति यत्सूत्रे भणितम्- "शब्दस्तेनाऽवगृहीतः" इति यत्सूत्रे प्रतिपादितम्, तद्यदि विकल्पतो विवक्षावशतो विशेषविज्ञानं गृह्यते, तदपि सर्वं युज्यते / कस्मिन्? इत्याह- यथोक्ते औपचारिके सांव्य-वहारिकार्थावग्रहे गृह्यमाणे सति, अत्र हि 'शब्दः' इति विशेषज्ञानं युज्यते, सर्वग्रहणात्तदनन्तरमीहादयश्चोपपद्यन्ते, पूर्वोक्तयुक्तेः। ततश्च "से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा , तेणं सद्दे त्ति उग्गहिए, न उण जाणइ के वेस सद्दे, तओ ईहं पविसइ, तओ अवायं गच्छइ' इत्यादिसर्व सुस्थं भवति। यद्येवम्, अयमेवार्थावग्रह: कस्मान्न गृह्यते, येन सर्वोऽपि विवाद: शाम्यति? इति चेत्। नैवं 'शब्द एवायम्' इत्याद्यपायरूपोऽयमविग्रह: अपायश्च सामान्यग्रहणेहाभ्यामन्तरेण न संभवति, इत्याद्यसकृत्पूर्वमभिहितमेव / इति प्राक्तनमेव व्याख्यानं मुख्यम् / इत्यलं विस्तरेण / इति गाथार्थः / व्यावहारिकार्थाऽवग्रहाभ्युपगमे यो गुणस्तं सविशेषमुपदर्शयन्नाहखिप्पेयराइमेओ, पुष्वोइयदोसजालपरिहारो। जुज्जइ संताणेण य, सामण्णविसेसववहारो / / 288 / / क्षिप्रेतरादिभेदं यत्पूर्वोदितदोषजालं तस्य परिहारो युज्यते, 'अस्मिन् व्यावहारिकेर्थावग्रहे सति' इति प्रकमाद् गम्यते / इदमुक्तं भवतिएकसामयिकनैश्चयिकार्थावग्रहव्याख्यातारं प्रति प्राग् यदुक्तंयद्यसावेकसामयिकस्तर्हि कथं क्षिप्रचिरग्रहण- विशेषणमस्योपपद्यते; तथा यद्यसौ सामान्यमात्रग्राहकः, तर्हि बहु-बहुविधादिविशेषणोक्तं विशेष ग्रहणं कथं घटते? तथाऽर्थावग्रहस्य विशेषग्राहकत्वे यत्समयोपयोगबाहुल्यमुक्तम् इत्यादि कस्य दोषजालस्य परिहारो व्यावहारिकेविग्रहे सति युज्यते, तथा हि-नैश्चयिकावग्रहवादिना इदानीं शशक्यमिदं वक्तुं यदुत-क्षिप्रेतरादिविशेषणानि व्यावहारिकावग्रहविषया-ण्येतानि, असंख्येयसमयनिष्पन्नत्वेनास्य क्षिप्रचिरग्रहणस्य युज्य-मानत्वात् विशेषग्राहकत्वेन बहु बहुविधादिग्रहणस्यापि घटमानकत्वादिति। 'सामण्णतयण्णविसेसेहा, इत्यादिना प्रागमिहितं समयोपयोगबाहुल्यमप्यस्मिन्निरास्पदमेव, सामान्य-ग्रहणेहापूर्वकत्वेन, असंख्ये यसामयिकत्वेन चैकसमयोपयोग-याबाहुल्यस्याऽत्रासंबध्यमानत्वादिति / ननु नैश्वयिकावग्रहे किं क्षिप्रेतरादिविशेषणकलापो, न घटते, येन व्यावहारिका-वग्रहापेक्ष: प्रोच्यते ? सत्यं, मुख्यतया व्यवहारावग्रहे एव घटते, कारणे कार्यधर्मोपचारात् पुनर्निश्चयावग्रहेऽपि युज्यते, इति प्रागप्युक्तं, वक्ष्यते च, विशिष्टादेव हि कारणात्कार्यस्य वैशिष्ट्यं युज्यते, अन्यथा त्रिभुवनस्याप्यैश्व र्यादिप्रसङ्गः, काष्ठखण्डादेरपि रत्नादिनिचयाऽवाप्तेः, इत्यलं प्रसङ्गेन। प्रकृतमुच्यते- सन्तानेन च योऽसौ सामान्यविशेषव्यवहारो लोकेरूढः सोऽपि 'व्यवहारावग्रहे सति युज्यते' इतीहापि संबध्यते। लोकपि हि यो विशेष: सोऽप्य- पेक्षया सामान्यं, यत्सामान्यं तदप्यपेक्षया विशेष इति व्यवहियते, तथाहि-'शब्द एवायम' 'इत्येवमध्यवसिताऽर्थः पूर्वसामान्यापेक्षया विशेष: शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम्, इत्येवं यावदन्त्यो विशेष: इति प्रागप्युक्तम् / अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण सन्तानेन लोकेरूढ: सामान्यविशेषव्यवहार औपचारिकावग्रहे सत्येव घटते; नाऽन्यथा / तदनभ्युपगमे हि प्रथमापायानन्तरमीहानुत्थानम् उत्तरविशेषाग्रहणं चाभ्युपगतं भवति, उत्तरविशेषाऽग्रहणे च प्रथमाऽपायव्यवसितार्थस्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy