________________ आमिणिबोहियणाण 294 अमिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण अत्रोत्तरमाहसकिमुग्गहो त्ति भणइ, गहणेहाऽवायलक्खणत्ते वि। अह उवचारो कीरइ, तो सुण जह जुज्जए सोऽवि / / 281 / / इह पूर्वमनेकधा प्रतिविहितमप्यर्थं पुन: पुन: प्रेरयन्तं प्रेरक वलोक्यान्तर्विस्फुरदसूयावशात्साक्षेपं काचा सूरि: पृच्छति-'किमुग्गहो त्ति भण्णइ' त्ति-किंशब्द: क्षेपे, यो बहुबहुधादिवि- शेषणवशात् विशेषावगम:स किमबुधचक्रवर्तिन! अवग्रह:- अर्थाऽवग्रहा भण्यते? क्व सत्यपि ? इत्याह-'गहणे-हि' त्यादि, गहणं च सामान्यार्थस्य, ईहा अवगृहीतस्य, अपायश्च ईंहिताऽर्थस्य गहणे-हाऽ-पायास्तैर्लक्ष्यतेप्रकटीक्रियते यः स तथा तद्भावस्तत्त्वं तस्मिन् सत्यपि बहुबहुविधादिग्राहको हि विशेषाऽवगमो निश्चय: स च सामान्याऽर्थग्रहणम्, ईहां च विना न भवति, यश्चतदविनाभावी सोऽऽपाय एव, कथमर्थावग्रह इति भण्यते? इति। एतत्पूर्वसकृदेवोक्तमपिहन्त ! विस्मरण-शीलतया, जडतया, बुद्धाभिनिवेशतया वा पुन: पुनरस्मान् भाणयसीति किं कुर्म:? पुनरुक्तमपि ब्रूमो यद्यस्मादायासेनाऽपि कश्चिन्मार्गमासादयतोति। ननु ग्रहणम, ईहा च विशेषावगमस्य लक्षणं भवतु, ताभ्यां विना तदभावाद्, अपायस्तु कथं तल्ल-क्षणं, तत्स्वरूपत्वादेवास्य ? सत्यं, किं तु स्वरूपमपि भेदवि-वक्षया लक्षणं भवत्येव,यदाह-'विषाऽमृते स्वरूपेण, लक्ष्यते कलशादिवत् / एवं च स्वस्वभावाभ्यां, व्यज्येते खलसज्जनौ // 1 // " आह-यदि बहु-बहुविधादिग्राहकोऽप्राय एव भवति, तर्हि कथमन्यत्राऽवग्रहादीनामपि बह्वादिग्रहणमुक्तम्। सत्यं, किंतु अपायस्य कारणमवग्रहादय: कारणे च योग्यतया कार्यस्व-रूपमस्ति, इत्युपचारतस्तेऽपि बह्वादिग्राहका: प्रोच्यन्ते, इत्यदोषः / यद्यैवं, तर्हि वयमप्यपायगतं विशेषज्ञान-मर्थावग्रहेऽप्युपचरिष्याम इति एतदेवाह'अहे' त्यादि अथोक्तन्यायेनोपचारं कृत्वा विशेषग्राहकोऽर्थाऽवग्रहः प्रोच्यते / नैतदेवं, यतो मुख्याभावे सति प्रयोजने निमित्ते चोपचार: प्रवर्तते / नचैवमुपचारे किंचित्प्रयोजनमस्ति।"तेणं सद्दे त्ति उग्गहिए" इत्यादिसूत्रस्य यथा श्रुतार्थनिगमनं प्रयोजनमिति चेत् / न "सदे त्ति भणइ वत्ता'' इत्यादिप्रकारेणाऽपि तस्य निगमितत्वात् / सामर्थ्यव्याख्यानमिदं, न यथाश्रुतार्थव्याख्येति चेत् / तर्हि यधुपचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायते इति तवाभिप्राय:, तर्हि यथा युज्यते उपचारस्तथा कुरु, न चैवं क्रियमाणोऽसो युज्यते, यत: 'सिंहो माणवकः' 'समुद्रस्तडागः' इत्यादाविव किंचत्साम्ये सत्ययं विधीयमानः शोभते / न चैतत्सामायिकेऽर्थावग्रहेऽसंख्येयसामयिक विशेषग्रहणं कथमप्युपपद्यते तर्हि कथमयमुपचार: क्रियमाणो घटते ? इति चेद् / अहो ! सुचिरादुपसन्नोऽस्ति। ततः शृणु समाकर्णयाऽवहितेन मनसा, सोऽपि तथा युज्यते तथा कथयामि- 'सद्दे ति भणइ वत्ता' इत्यादिप्रकारेण तावद्व्याख्यातं सूत्रम्। यदि चौपचारिकेणाऽप्यर्थेन भवत: प्रयोजनं, तर्हि सोऽपि यथा घटमानकस्तथा कथ्यत इत्यपिशब्दाभिप्राय: / इति गाथार्थः / यथा प्रतिज्ञातमेव संपादयन्नाहसामण्णमेत्तग्गहणं, नेच्छइओ समयमुग्गहो पढमो। तत्तोऽणंतरमीहिय-वत्थुविसेसस्स जोऽवाओ॥२८२ / / सो पुणरीहावायाऽ-विक्खाओऽवग्गहो त्ति उवयरिओ। एस्सविसेसाऽऽविक्खं,सामण्णं गिण्हएजेणं / / 283 / / तत्तोऽऽणंतरमीहा, ततोऽऽवाओ यतव्विसेसस्स। इसामण्णविसेसा-वेक्खा जावंऽतिमो भेओ।।२८४ / / इहै कसमयमात्रमानो नैश्चयिको निरुपचरित: प्रथमोऽर्थावग्रह: कथंभूत:? इत्याह-सामान्यमात्रस्याऽव्यक्तनिर्देशस्य वस्तुनो ग्रहणं; सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव निश्चयवेदिनोऽवगच्छन्तीति नैश्चयिकोऽयमुच्यते। अथ छद्मस्थव्यवहारिभिरपि यो व्यवह्रियते, तं व्यावहारिकमुपचरितमर्थाऽवग्रहं दर्शयति- 'तत्तो' इत्यादि, ततो नैश्चयिकाऽर्थाऽवग्रहादननन्तरमीहितस्य- वस्तुविशेषस्य योऽपाय: स पुनर्भाविनीमीहाम्, अपायंचाऽपेक्ष्यो-पचरितोऽवग्रहोर्थाऽवग्रह इति द्वितीयगाथायां संबन्धः / उपचारस्यैवास्य निमित्तान्तरमाह- 'एस्से' त्यादि, एष्योभावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनायमपायोऽपि सन् सामान्यं गृह्णाति, यश्व सामान्यं गृह्णाति सोऽर्थावग्रहो यथा प्रथमो नैश्चयिक: / एतदिह तात्पर्य प्रथमं नैश्चयिकेऽर्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादि वस्तु सामान्यं गृहीतं, ततस्तस्मिन्नीहिते सति 'शब्द एवायम्' इत्यादि निश्चयरूपोऽपायो भवति / तदनन्तरंतु 'शब्दोऽयं किं शाङ्कः, शाङ्गो वा इत्यादिशब्दविशेषविषया पुनरीहाप्रवर्तिष्यते 'शाङ्क एवाऽयं शब्द:' इत्यादिशब्दविशेषविषयोपायश्च यो भविष्यति तदपेक्षया 'शब्द एवायम्' इति निश्चय: प्रथमोऽपायोऽपि सन्नु- पचारादविग्रहो भण्यते, ईहाऽपायापेक्षया तुइत्यनेन चोपचारस्यैकं निमित्त सूचितम्, 'शाकोऽयं शब्दः' इत्याद्येष्यविशेषापेक्षया येनाऽ- सौ सामान्यशब्दरूपं सामान्य गृह्णातीति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितं; तथा हियदनन्तरमीहा पायौ, प्रवर्त्तते, यश्च सामान्यं गृह्णाति, सोऽर्थावग्रहः यथा आद्यो नैश्वयिक: प्रवर्त्तते च 'शब्द एवायमि' त्याद्यपायानन्तरमीहापायौ गृह्णाति च 'शाहो- ऽयमि' त्यादिभाविविशेषापेक्षयाऽयं सामान्यम् / तस्मादविग्रहः एष्यविशेषापेक्षया सामान्यं गृह्णातीत्युक्तम् / ततस्तदनन्तरं किं भवति ? इत्याह- तृतीयगाथायाम्'ततोऽणंतरमि' त्यादि, तत: सामान्येन शब्दनिश्चयरूपात्प्रथमाऽपायादनन्तरं किमयं 'शब्द: शाङ्क: शार्हो वा ? इत्यादिरूपा ईहा प्रवर्तते। ततस्तद्विशेषस्य शङ्खप्रभवत्वादे: शब्दविशेषस्य 'शाङ्क एवायमि' त्यादिरूपेणापायश्च निश्चयरूपो भवति / अयमपि च भूयोऽन्यतमविशेषाकाङ्क्षावत: प्रमातु विनीमीहामपायं चापेक्ष्य एष्यविशेषापेक्षया सामान्यालम्बनत्वाचार्थावग्रह: इत्युपचर्यते / इयं च सामान्यविशेषापक्षा तावत् कर्त्तव्या यावदन्यो वस्तुनो भेदो विशेषः / यस्माच विशेषात्परतो वस्तुनोऽन्ये विशेषान संभवन्ति सोऽन्त्य: अथवा