SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आमिणिबोहियणाण 293 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण परिसुण्णो" इत्यादिना साधितमेवेदम् / अतोऽर्थदर्शनरूपमालो- चनं कथमर्थशून्य- व्यञ्जनावग्रहात्मकं भवितुमहर्ति ? विरो-धाद्। अथ द्वितीयविकल्पमङ्गीकृत्याह-अथव्यञ्जनस्य शब्दा- दिविषयपरिणतद्रव्यसंबन्धमात्रस्य तत्समालोचनमिष्यते, तर्हि कथभालोचनं कथमालोचकत्वं तस्यघटते? इत्यर्थः / कथं- भूतस्य सत:? इत्याहअर्थशून्यस्य व्यञ्जनसंबन्धमात्रान्वित- त्वेन सामान्यार्थालोचकत्वानुपपत्तेरित्यर्थ: / इति गाथार्थः / ननु शास्त्रान्तरप्रसिद्धस्यालोचनज्ञानस्य वरा ___ कस्य तर्हि का गति:? इत्याहआलोयण त्ति नाम,हविज्जतं वंजणोग्गहस्सेव। होज्ज कहं सामण्णग्गहणं तत्थऽत्थसुण्णम्मि? ||277 / / तस्मादालोचनमिति यन्नाम तदन्यत्र निर्गतिकं सत्पारि- शेष्याद्व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत्। नच विव-क्षामात्रप्रवृत्तेषु वस्तूनां बहुष्वपि नामसु क्रियमाणेषु कोऽपि विवादमाविष्करोति? अत एतदपि नामान्तरमस्तु, को दोष:? इति / नैतदेवम्, यस्मादिदं सामान्यग्रसहकमालोचनज्ञानं भविष्यति, अर्थावग्रहस्तु विशेषग्राहक / इति; एवमप्यस्माकं समीहितसिद्धिर्भविष्यतीति चेत्, इत्याह-'होज्ज' त्यादि / व्यञ्जनावग्रहस्यैव पारिशेष्यादालोचनज्ञानत्वमापन्नं तत्र च प्रागुक्तयुक्तिभिरर्थशून्ये कथं सामान्यग्रहणं भवेत, येन भवतः समीहितसिद्धिप्रमोद:? इति। तस्मादविग्रह एव सामान्याऽर्थ-ग्राहक: न पुनरेतस्मादपरमालोचनाज्ञानम् / अत एव यदुक्तम्"अस्तिह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम्" इत्यादि, तदप्यर्थावग्रहाश्रयमेव, यदि घटते; नाऽन्यविषयम्। इति गाथार्थः। अथ 'दुर्बलं वादिनं दृष्ट्वाऽभ्युपगमोऽपि कर्त व्य: इति न्यायप्रदर्शनार्थमाहगहियं व होउ तहियं, सामण्णं कहमणीहिए तम्मि। अत्थाऽवग्गहकाले, विसेसणं एस सहो त्ति।।२७८ // आथवा भवतु तस्मिन् व्यञ्जनाऽवग्रहे सामान्यं गृहीतं, तथाऽपि कथमनीहिते-अविमर्शिते तस्मिन्नकस्मादेवार्थाऽवग्रहकाले 'शब्द एषः' इति विशेषणं विशेषज्ञानयुक्तं, 'शब्द एवैषः' इत्ययं हि निश्चयः, न चायमीहामन्तरेण जगित्येव युज्यते, इत्यसकृदेवोक्तप्रायम् / अतो नार्थाऽवग्रहे 'शब्दः' इत्यादि-विशेषबुद्धियुज्यते। इति गाथार्थ: / अथाऽर्थाऽवग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽहअत्थाऽवग्गहसमये, वीसुमसंखिज्जसमइया दो वि। तक्काऽवगमसहावा, ईहाऽवाया कह जुत्ता? ||279 / / अर्थाऽवग्रहसंबन्धिन्येकस्मिन्समये कथमीहापायौ युक्तौ ? इति संबन्धः / कथंभूतावेतौ? यतः, इत्याह-ताऽवगमस्वभावौ तर्कोविमर्शस्तत्स्वभावा ईहा, अवगमोऽपिनिश्चयस्तत्स्व- भावोऽपाय: द्वावपि चैतो पृथगसंख्येयसमयनिष्पन्नौ / एतदुक्तं भवति- यदिदमर्थाऽवग्रहे विशेषज्ञानं त्वयेष्यते सोऽपाय:, स चाऽवगमस्वभावो निश्चयस्वरूप इत्यर्थः; या च तत्समकाल- मीहाऽभ्युपेयते सा तर्क स्वभावा; अनिश्चयात्मिका इत्यर्थः / तत एतौ ईहाऽपायौ अनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ निश्चयाऽनिश्चययोः परस्परपरिहारेण व्यवस्थितत्वादेकत्रैकदा- ऽवस्थानाभावेन सहोदयानुपपत्तेः ? इति / एषा तावद्विशेषावगमे- हयो: सहभावे एकानुपपत्तिः / अपरं च समयमात्रकालोऽर्थाऽवग्रह ईहाऽपायौ तु "ईहाऽवायामुहुत्तमंतंतु" इति वचनात्प्रत्येकम-संख्येयसमयनिष्पन्नौ कथमेकस्मिन्नर्थाऽवग्रहसमये स्याताम् / अत्यन्तानुपपन्नत्वात्? इति द्वितीयानुपपत्तिः तस्मादत्यन्ताऽ- संबद्धत्वाद्यत्किं चिदेतत्, इत्युपेक्षणीयम् / इति गाथार्थः / / तदेवं युक्तिशतैर्निराकृतानामपि प्रेरकाणां नि:संख्या त्वात्वेषांचित्प्रेर्यशेषमद्यापि सूरिराशङ्कतेखिप्पेतराइभेओ, जमुग्गहो तो विसेसविण्णाणं / जुज्जइ विगप्पवसओ, सहो त्ति सुयम्मिजं केइ / / 280 / / 'केई' त्ति-इहार्थाऽवग्रहे विशेषज्ञानसमर्थनाग्रहममुमुक्षवो- ऽद्यापि 'केऽपि केचिद्वादिनो मन्यन्ते / किम्? इत्याह-क्षिप्रेतरा- दिभेदो यस्मादवग्रहो ठान्थान्तरे भणित: 'अत्रापि च विस्तरेण भणिष्यते' इति गम्यते / तत: 'शब्दः' इति विशेषविज्ञानं युज्यते-घटते 'अर्थावग्रहे' इति प्रस्तावादेव लभ्यते। यत्किम्? इत्याह-'सुयम्मि जति-"तेणं सद्दे त्ति उग्गहिए" इत्यादिवचनात् यत् सूत्रे निर्दिष्ट' इति शेष: / कुत्त: पुनरिदं विशेषविज्ञानं युज्यते? इत्याहविकल्पवशतोऽन्यत्रोक्तनानात्ववशत: इत्यक्षरघटना / एतत्वात्र हृदयम् क्षिप्रमवगृह्णाति, चिरेणाऽवगृह्णाति, बह्व वगृह्णाति, अबह्वगृह्णति बहुविधमवगृह्णाति अबहुविधमवगृह्णाति एवमनिश्रितं, निश्रितम्, असंदिग्धं, संदिग्धं, ध्रुवम्, अधुवं गृह्णाति, इत्यादिना ठान्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादशभिर्विशेषणैर्विशेषिता: / अत्रापि च पुरस्तादयमों वक्ष्यते। तत: 'क्षिप्रं चिरेण चाव-गृह्णाति' इति विशेषणाऽन्यथानुपपत्तेायतेनैकसमयमात्रमान? एवार्थाऽवग्रहः, किंतु-चिर- कालिकोऽपि नहि समयमात्रमानतया एकरूपेतस्मिन् क्षिप्रचिरग्रहणविशेषणमुपपद्यत इति भावः / तस्मादेतद्विशेषणबलाद-संख्येयसमय-मानोऽप्यविग्रहो युज्यते। तथा-बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थेशजभेर्यादिबहुतूर्यनिर्घोष क्षयोप-शमवैचित्र्यात्कोऽप्यबहु अवगृह्णाति; सामान्यं समुदिततूर्यशब्दमात्रमवगृह्णातीत्यर्थः / अन्यस्तु बह्ववगृह्णाति; शङ्गभेर्यादिसूर्यशब्दान् भिन्नान् बहून् गृहृतीत्यर्थः / अन्यस्तु स्त्रीपुरुषादिवाद्यवस्निग्धमधुरत्वादिबहुविधविशेषविशिष्टवेन बहुविधमवगृह्णाति, अपरस्तु-अबहुविधविशेषविशिष्टत्वाद् अबहुविधमवगृह्णाति अत एतस्माद्बहुबहुविधाद्यनेकविकल्पना-नात्ववशादवग्रहस्य क्वचित्सामान्यग्रहणं क्वचित्तु- विशेषग्रहणम्, इत्युभयमप्यविरुद्धम्। अतो यत्सूत्रे"तेणं सद्देत्ति उग्गहिए" इति वचनात्- 'शब्दः' इति विशेषज्ञानमुपदिष्टं तदप्याऽवग्र हे युज्यत एव इति केचित् / इति गाथार्थः /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy