________________ आभिणिबोहियणाण 291 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण र्जन-परिग्रहणानि तेभ्यस्तत: 'से' तस्य श्रोतु: / अर्थाव-ग्रहैकसमयेऽप्युपयोगबाहुल्यम्, आपन्नं-प्राप्तम् / तथाहि-प्रथमस्सामान्यग्रहणोपयोगः यथोक्तेहोपयोगस्तु द्वितीयः, हेयधर्मवर्जनोपयोगस्तृतीयः, उपादेयधर्मपरिग्रहणोप-योगश्चतुर्थः इत्येवमविग्रहैकसमयमात्रेऽपि बहवः उपयोगा: प्राप्नुवन्ति / नचैतद्युत्तं, समयविरुद्धत्वात् / तस्मानार्थाऽव-ग्रहे शब्दविशेषबुद्धि:, किं तु 'सद्दे त्ति भण्णइ क्त्ता' इत्यादि स्थितम्। इति गाथार्थः। अथास्मिन्नेवार्थाऽवग्रहेऽपरवाधभिप्राय निराचिकीर्षुराहअण्णे सामण्णग्गहण-माहुबालस्स जायमेत्तस्स। समयम्मि चेव परिचिय-विसयस्स विसेसविनाणं / / 268 / / अन्ये-वादिनः केचिदेवमाहुः- यदेतत्सर्वविशेषविमुखस्या--ऽव्यक्तस्य सामान्यमात्रस्य वस्तुनो ग्रहणमालोचनं, तबाल-स्य शिशोस्तत्क्षणजातमात्रस्य भवति, नाऽत्र विप्रतिपत्तिः, अव्यक्तो ह्यसौ संकेतादिविकलोऽपरिचितविषयः / यस्तर्हि परिचितविषयः, तस्य किम् ? इत्याह- समय एव आद्यशब्द-श्रवणसमय एव विशेषविज्ञानं जायते, स्पष्टत्वात्तस्य ततश्चा-मुमाश्रित्य तेण सद्देत्ति उग्गहिए' इत्यादि, यथाश्रुतमेव व्याख्यायते, तेन न कश्चिद्दोष इति भावः / इति गाथार्थ: अत्रोत्तरमाहतदवत्थमेव तं पुथ्व-दोसओ तम्मि चेव वा समये। संखमहुराइसुबहुय-विसेसगहणं पसज्जेज्जा // 269 / / "जेणऽत्थोग्गहकाले" (२६६गा.) इत्यादिना ग्रन्थेन सामपणतयण्णविसेसेहा (267 गा.) इत्यादिना च ग्रन्थेन यद् दूषितं या तस्यावस्था-यत्तस्य स्वरूपम्-'समयम्मि चेव परिचियविसयरस विसेसविण्णाणं' इति, तदेतत्परोक्तमपि तदवस्थमेव, न पुन: किंचिदूनाधिकावस्थम् / कुत: ? इत्याह- "पुव्वदोसउ' त्ति, "जेणत्थोग्गहकाले" (266 गा.) इत्यादिना"सामण्णतयण्ण' (267 गा.) इत्यादिना च य: पूर्व दोषोऽभिहितस्तस्मात्पूर्वदोषात् पूर्वदोषानतिवृत्तेः, तदेतत्परोक्तं तदवस्थमेव, इति नान्यदूषणाद्यभिधानप्रयासो विधीयत इति भावः / अथ वा-पूर्वमपि दूषणमुच्यते। किं तद् ? इत्याह-'तम्मि चेव' इत्यादि, 'वा' इति अथवा, तस्मिन्नेव स्पष्टविज्ञानस्य व्यक्तस्य जन्तोर्विशेग्राहिणि समये 'शास शाङ्गों वाऽयं शब्द:, स्निग्धो मधुरः कर्कश: स्त्री-पुरुषाद्यन्यतरवाद्यः' इत्यादिषु बहु कविशेषग्रहणं प्रसज्येत / इदमुक्तं भवति-यदि व्यक्तस्य परिचितविषयस्य जन्तोरव्यक्तशब्दज्ञानमुल्लच्य तस्मिन्नर्थावग्रहैक समयमात्रे शब्दनिश्चयज्ञानं भवति, तदा अन्यस्य कस्यचित्परिचिततरविषयस्य पटुतरावबोधस्य तस्मिन्नेव समये व्यक्तशब्दज्ञानमपि अतिक्रम्य, "शाङ्खोऽयं शब्द: इत्यादिसंख्यातीतविशेषग्राहकमपि ज्ञानं भवदभिप्रायेण स्यात्, दृश्यन्ते च पुरुषशक्तीनां तारतम्यविशेषाः / भवत्येव कस्यचित्प्रथमसमयेऽपि | सुबहुविशेषग्राहकमपि ज्ञानमिति चेत्, न, "न उण जाणइ केवेस सद्दे'' इत्यस्य सूत्रावयवस्या-गमकत्वप्रसङ्गात्। विमध्यमशक्ति पुरुषविषयमेतत्सूत्रमिति चेत, न; अविशेषणोक्तत्वात् , सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् ; न हि प्रकृष्टमतेरपि शब्दधर्मिणमगृहीत्वा उत्तरोत्तरबहुसुधर्मग्रहणसंवभोऽस्ति, निराधारधर्माणामनुपपत्तेः / इति गाथार्थ: किं च- समयमात्रेऽपि 'शब्दः' इति विशेषविज्ञानम-- भ्युपगच्छतोऽन्येऽपि समयविरोधादयो दोषाः / केपुनस्ते? इत्याहअत्थोग्गहो न समयं, अहवा समओवओगबाहुल्लं। सम्वविसेसग्गहणं, सव्वमईवोग्गहो गिज्जे ||27 // एगो वाऽवाउ चिय,अहवा सोऽगहियणीहिए पत्तो। उवक्कम-वइक्कमा वा, पत्ता धुवमोग्गहाईणं / / 271 / / सामण्णं च विसेसो, वा सामण्णमुभयमुभयं वा। नय जुत्तं सव्वमियं वा,सामण्णाऽऽलंबणं मोत्तुं // 272 / / 'उग्गहो एक्कं समयमि' त्यादिवचनादर्थावग्रह: सिद्धान्ते सामयिको निर्दिष्टः, यदि-चार्थाऽवग्र हे विशेषविज्ञानमभ्युपगम्यते तदा सामायिकोऽसौन प्राप्नोति, विशेषज्ञानस्याऽसंख्ये- यसामयिकत्वाद। अथ समयमात्रेऽप्यस्मिन् विशेषज्ञानमिष्यते, तर्हि "सामण्णतयण्णविसेसेहा" (267 गा.) इत्यादिना प्रागुक्तं समयोपयोगबाहुल्य। प्राप्नोति / अथवेत्यग्रतोऽप्यनुवर्तते / ततश्च अथवा परिचितविषयस्य विशेषज्ञानेऽभ्युपगम्यमाने परिचिततर- विषयस्य तस्मिन्नेव समये सर्वविशेषग्रहण-मनन्तरोक्तं प्राप्नोति। अथवा अवग्रहमात्रादपि विशेषपरिच्छेदेऽङ्गीक्रियमाणे ईहादीनाभनुत्थानमेव। ततेश्च सर्वापि मतिरवग्रहो ग्राह्य:- सर्वस्याऽपि मतेरवग्रहरूपतैव प्राप्नोतीत्यर्थ: ।अथवा-सर्वाऽपि मतिरपाय एवैक: प्राप्नोति, अर्थावग्रहे विशेषज्ञानस्याश्रयणात, तस्य च निश्चयरूपत्वात्, निश्चयस्य, चाऽपायत्वादिति समयमात्रे चास्मिन्नपाये सिद्धे "ईहावायामुहुत्तमंत्तं तु" इति विरुध्यते / अथवा- अर्थेऽवगृहीते ईहितेच, अपाय: सिद्धान्ते निर्दिश्यते "उगहो, ईहा, अवाओय' इति क्रमनिर्देशात्, यदि चाद्यसमयेऽपि विशेषज्ञानाभ्युगपगमादपाय इष्यते, तीनव-गृहीते अनीहिते च तस्मिन्नसौ प्राप्तः ! 'वा' इतिअथवा, यदि तृतीयस्थाननिर्दिष्टोऽप्यपाय: "समयम्मि चेव परिचिय विसयस्स विण्णाणं' इति वचनात्पटुत्ववैचित्र्येण प्रथममभ्युपगम्यते, तर्हि तस्मादेव पाटववैचित्र्यादवग्रहेहा-ऽपायधारणानां ध्रुवं निश्चितमुत्क्रमव्यतिक्रमौ स्याताम्।तत्रपश्चानुपूर्वीभवनम्उत्क्रमः।अनानुपूर्वीभावस्तुव्यतिक्रमः / तथा हि / यथा शक्तिवैचित्र्या-त्कश्चित्प्रथममेवापायो भवताभ्युप-गम्यते, तथा तत एव कस्यापि प्रथमं धारणा स्यात्, ततोऽपाय:, ततोऽपि ईहा तदनन्तरंत्ववग्रह इत्युत्क्रमः,अन्यस्य कस्यचित् पुनरवग्रहमुल्लङ्घय प्रथममेवेहा समुपजायेत, अपरस्य तु तामप्यतिक्रम्याऽपाय,अन्यस्य तु तमप्यतिवृत्य धारणा स्याद् इत्यादि व्यतिक्रमः।नचेह वयं युक्तिमाप्रच्छनीया: भवदभ्युपगतस्य शक्तिवैचित्र्य