________________ आमिणिबोहियणाण 290 अमिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण रेणाऽव्यक्तमित्यर्थः / ननु यदि शब्दादिरूपेणाऽनिद्देश्य, तर्हि किं तद्? इत्याह-सामान्यम् / किमुक्तं भवति?, इत्याहनामजात्या- / दिकल्पनारहितम् / न च वक्तव्यं शाङ्कशाङ्गभेददापेक्षया शब्दोल्लेखस्याप्यव्यक्तत्वे घटमाने कुत इदं व्याख्यानं लभ्यते? इति; अवग्रहस्यानाकारोपयोगरूपतया सूत्रेऽधीतत्वाद् अना-कारोपयोगस्य च सामान्यमात्रविषयत्वात् , प्रथममेवाऽपायप्रस- क्त्याऽवग्रहेहाभावप्रसङ्ग इत्याधुक्तत्वाच / इति गाथार्थः / अथ सूरिरेव पराभिप्रायमाशिशङ्कयिषुराहअहव मई पुव्वं चिय, सो गहिओ वंजणोग्गहे तेणं। जं वंजणोग्गहम्मि वि, भणियं विण्णाणमव्वत्तं / / 263 / / अथ् परस्य मति: स्यात्केयम् ? इत्याह-स:-अव्यक्तः, अनिद्देश्यादिस्वरूप: शब्द: अर्थाग्रहात्पूर्वमेव व्यञ्जनावग्रहे तेन श्रोता गृहीत:तत्किमित्यर्थावग्रहेऽपितद्ग्रहणमुघुष्यते? कथमिदं पुनर्जायते यदुत-असौ व्यञ्जनाऽवग्रहे गृहीत:? इत्याह- 'जमि' त्यादि, यत्यस्माद् व्यञ्जनाऽवग्रहेऽपि भव-द्भिरव्यक्तं विज्ञानमुक्तम्, अव्यक्तविषयग्रहण एव चाऽव्यक्तत्वम् तस्योपपद्यते इति भाव: इति। गाथार्थ:। अत्रोत्तरमाअस्थि तयं अव्वत्तं, न उ तं गिण्हइ सयं पि सो भणियं / न उ अग्गहियम्मि जुज्जइ, सहो त्ति विसेसणं बुद्धी / / 264 / / अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे ज्ञानं, न तस्यात्माभि- रपलाप: क्रियते, न पुनरसौ श्रोता अतिसौक्ष्म्यात्तत्स्वयमपि गृह्णाति संवेदयते। एतच्च प्रागपि भणितम् / "सुत्तमत्ताइसुहुम-बोहो व्व'' इति वचनात्, तथा "सुत्तादयो सयं वि य विण्णाणं णाऽवबुज्भंति" इति वचनाच्च / तस्माद् व्यञ्जनमात्रस्यैव तत्र ग्रहणं, न शब्दस्य, व्यञ्जनावग्रहत्वान्यथाऽनुपपत्तेरेवेति / न च सामान्यरूपतया अव्यक्ते शब्देऽगृहीतेऽकस्मादेव शब्द: इति विशेषणबुद्धिर्युज्यते, अनुस्वारस्याऽलाक्षणिकत्वाद्विशेषु-बुद्धिरित्यर्थ: / अस्यां च विशेषबुद्धौ प्रथममेवेष्यमाणायामा-दावेवार्थवग्रहकालेऽप्यपायप्रसङ्गः इत्यसकृदे-वोक्तम्। इति गाथार्थः। ननु यदि व्यञ्जनाऽवग्रहेऽप्यव्यक्तशब्दग्रहणं भवेत्तदा को दोष: स्यात् ? इत्याहअत्थो त्ति विसयगहणं, जइ तम्मि वि सोन वंजणं नाम / अत्थोग्गहो चिय ततो, अविसेसो संकरो वाऽवि / / 265 / / अर्थाऽवग्रहे अर्थः इत्यनेन तावद्विषयग्रहणमभिप्रेतंरूपादिभेदेनाऽनिर्धारितस्याव्यक्तस्य शब्दादेविषयस्य ग्रहणं; तत्राऽभिप्रेतमित्यर्थः / यदि च तस्मिन्नपि व्यञ्जनाऽवग्रहेऽसावव्यक्तशब्द: प्रतिभासते इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम; व्यञ्जनाऽवग्रहो न प्राप्नोतीत्यर्थः / ततश्चेदानी निवृत्ता तत्कथा, व्यञ्जनमात्रसंबन्धस्यैव तत्रोक्तत्वात्, भवता च तदतिक्रान्तस्याऽव्यक्तार्थग्रहणस्येहाऽभिधीयमानत्वादिति / तमुव्य-क्तार्थग्रहणे किमसौ स्यात् ? इत्याह- अर्थाऽवग्रह एवाऽसौ, अव्यक्ताऽर्थावग्रहणात्, | ततश्च नास्ति व्यञ्जनम् -व्यञ्जनाऽव-ग्रहः / अथास्याऽपि सूत्रे प्रोक्तत्वादस्तित्वं न परिहियते, तर्हि द्वयोरप्यविशेष: सोऽप्यविग्रह: सोऽपि व्यञ्जनावग्रह: प्रोप्नोतीति भावः / मेचकमणिप्रभावत् संकरो वा स्यादित्थम्। इति गाथार्थः / तदेवं व्यञ्जनाऽवग्रहे व्यञ्जनसंबन्धमात्रमेव, अर्थाऽवग्रहे त्वव्यक्तशब्दाद्यर्थग्रहणं, न व्यक्तशब्दाद्यर्थसंवेदनम्, इति प्रतिपादितम्। सांप्रतमुपपत्त्यन्तरेणाप्यर्थाऽवग्रहे व्यक्तशब्दार्थ- संवेदनं निराचिकीर्षुराहजेणऽत्थोग्गहकाले, गहणेहाऽवायसंभवो नडत्थि। तो नऽत्थि सहबुद्दी, अहऽत्थिनाऽवग्गहो नाम ||266 / / पूर्व तावदर्थस्य ग्रहणमात्रं ततश्चेहा, तदनन्तरं त्वपायः, इत्येवं मतिज्ञानस्योत्पत्तिक्रमः / न चैतत् त्रितयं प्रथममेवशब्दा- र्थेऽवगृहीते समस्तीति। एतदेवाह-येनार्थाऽवग्रहकालेऽर्थग्रहणे- हाऽपायानां संभवो नाऽस्ति ततोऽर्थाऽवग्रहे नाऽस्ति 'शब्द': इति विशेषबुद्धिः अर्थग्रहणेहापूर्वकत्वात्तस्याः। अथाऽस्त्यसौतत्र, तर्हि नाऽयमर्थाऽवग्रहः, किं त्वपाय एव स्यात्, न एतद्युज्यते तदभ्युपगमेऽर्थाऽवग्रहेहयोरभावप्रसङ्गात्। इति गाथार्थः। अपि-च अर्थाऽवग्रहे 'शब्दः' इति विशेषबुद्धाविष्य माणायां दोषान्तरमप्यस्ति। किं तत् ? इत्याहसामण्ण-तदण्णविसे-सेहावज्जणपरिग्गहणओ से। अत्थोग्गहेगसमओ- वओगबाहुल्लमावण्णं / / 267 / / इह येयमाऽवग्रहै कसमये 'शब्दः' इति विशेषबुद्धिर्भवताऽभ्युपगम्यते, सातावन्निश्चयरूपा निश्चयश्चाकस्मादेवन युज्यते, किंतु क्रमेण, तथाहि-प्रथमं तावद्रूपादिभ्योऽव्यावृत्त- मव्यक्तं शब्दसामान्यं ग्रहीतव्यं,ततस्तद्विशेषविषयातदपर-रूपादिविशेषविषया च / एतैरेतैश्च धर्म: 'किमयं शब्द:, आहो- श्वित् रूपादिः' इत्येवं रूपा ईहा, तदनन्तरं च गृहीतशब्दसा- मान्यविशेषाणां ग्रहणम्, अन्येषां तु रूपादिविशेषाणां तत्राऽ- विद्यमानानां परिवर्जनम्, इत्येवंभूतेन क्रमेण निश्चयोत्पत्तिः / तथा च सति श्रोतुराऽवग्रहै कसमयेऽपि सामान्यग्रहणादिभिः प्रकारैरुपयोगबहुत्वमापद्यते, एकस्मिँश्च समये बहवः उपयोगाः सिद्धान्ते निषिद्धाः, इति नाऽविग्रहे शब्दादिविशेषबुद्धि: / इति गाथाभावार्थः / अक्षरार्थस्तूच्यते- सामान्यमिह-श्रूयमाणशब्दसामान्यं गृह्यते, 'तयण्णविसेसेह' त्ति-तच्छब्देनान्तरोत्तं शब्द सामान्यमनुकृष्यते, अन्यशब्देन तु तत्राऽविद्यमाना रूपादयः परिगृह्यन्ते ततश्च तचान्येच तदन्ये-शब्दसामान्य रूपादयश्चेत्यर्थः, तेषां विशेषा धर्माः श्रोत्रग्राह्यत्वादयः, चक्षुरादिवेद्यत्वादयश्च, तद्विषया ईहा तदन्यविशेषेहा, किमत्र श्रोत्रग्राह्यत्वादयो धर्माः उप-लभ्यन्ते, आहोश्वित्चक्षुरादिवेद्य-त्वादयः? इत्येवं रूपो विमर्श इत्यर्थः तदनन्तरं तु वर्जनं च तत्राऽविद्यमानरूपादिगतानां हेयधर्माणां चक्षुर्वेद्यत्वादीनां, परिग्रहणं च तत्र च गृहीतशब्दसामान्यर्गतानामुपादेयधर्माणां श्रोत्रग्राह्यत्वादीनाम् इति वर्जन-परिग्रहणेत्यागाऽऽदाने; सामान्यं चतदन्यविशेषेहा चवर्जनपरिग्रहणेच सामान्य- तदन्यविशेषेहाव