________________ आमिणिबोहियणाण 289 अमिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण दानामनन्तत्वादशक्यमित्यर्थः, यस्मिन भेदाऽवधारणे, किम ? इत्याहयस्मिन्नपायो भवेदन्यभेदाकाङ्क्षानिवृत्तेर्यस्मिन् भेदाऽवधारणज्ञानेऽपायत्वं व्यवस्थाप्येत, इति भावः / तस्मात्सर्वोऽपि भेदप्रत्यय उत्तरोत्तरापेक्षया त्वदभिप्राये स्तोक-त्वादविग्रह एवं प्राप्नोति नाऽपाय: शब्दज्ञानवद्। इति गाथार्थः। किं च शब्द एवायमिति ज्ञानं स्तोकत्वाद्यदर्थावग्रहत्वेन भवताऽभिमतम् / तत् पूर्वमीहामन्तरेण न संभवति तत्पूर्वकत्वे च तस्याऽर्थावग्रहत्वाऽसंभव इति दर्शयन्नाहकिंसदो किमसद्दो-तणीहिए सहए व किह जुत्तं ? | अह पुध्वमीहिऊणं, सहो त्ति मयं तई पुव्वं // 257 / / 'किं शब्दोऽयम् आहो (स्व)श्विद् अशब्दो-रूपादि: इत्येवं पूर्वमनीहिते यत् 'शब्द एव' इति निश्चयज्ञानं तदकस्मादेव जायमानं कथं युक्तम् ? विमर्शपूर्वकत्वमन्तरेण नदं घटत इत्यर्थः / इदमुक्तं भवतिशब्दगतान्वयधर्मेषु रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते, तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्चईहा, तस्मादीहा-मन्तरेणायुक्तमेव' शब्द एव' इति निश्चयज्ञानम्। अथ निश्चय-कालात्पूर्वमीहित्वा भवतोऽपि 'शब्द एवायम' इति निश्चयज्ञानमभिमतम् / हन्त; तर्हि निश्चयज्ञानात्पूर्वम् 'तई' असौ ईहा भवद्वचनतोऽपि सिद्धा: इति गाथार्थः / यदि नाम निश्चयज्ञानात्पूर्वमीहा सिद्धा, तत: किम् ? इत्याहकिं तं पुव्वं गहियं, जमीहओ सहए व विण्णाणं / अह पुटवं सामण्णं, जमीहमाणस्स सद्दो त्ति // 258 / / हन्त! यदि निश्चयज्ञानमीहापूर्वकं त्वयाभ्युपगम्यते, तर्हि प्रष्टव्योऽसि ननु ईहाया: पूर्व किं तद्वस्तु प्रमात्रा गृहीतम्, यदी-हमानस्य तस्य शब्द एवायम्' इति निश्चयज्ञानमुपजायते ? न हि कश्चिद्वस्तुन्यगृहीते अकस्मात्प्रथमत एव ईहां कुरुत इति भावः / क्षुभितस्य परस्योत्तरप्रदानाऽसामर्थ्यमालोक्य स्वयमेव तन्मतमाशङ्कते अथ ब्रूयात्पर:-सामान्यं नामजात्यादिकल्पना- रहितं वस्तु मात्रमीहाया: पूर्व गृहीतं, यदीहमानस्य 'शब्दः' इति निश्चयज्ञानमुत्पद्यते / इति गाथार्थः / अथ ईहाया: पूर्व सामान्यग्रहणे परेणेष्यमाणे सूरिः स्वसमीहितसिद्धिमुपदर्शयन्नाहअत्थोग्गहओ पुव्वं, होयव्वं तस्स गहणकालेणं। पुव्वं च तस्स वंजण-कालो सो अत्थपरिसुण्णो // 259 / / ननु ईहायाः पूर्वं यत् सामान्यं गृह्यते, तस्य तावद् ग्रहणकालन | भवितव्यम् / स चास्मदभ्युपगतसामायिकाऽवग्रहकालरूपो न भवति, अस्मदभ्युपगताऽङ्गीकारप्रसङ्गात्, किं तर्हि ? अस्मदभ्युपगतार्थाऽवग्रहात्तत्पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यं, पूर्व च तस्यास्मदभ्युपग- तार्थाऽवग्रहस्य व्यञ्जनकाल एव वर्तते, व्यञ्जनानांशब्दादि- द्रव्याणामिन्द्रियमात्रेणादानकालो मध्यपदलोपाद्व्यञ्जनकाल: / भवत्वेवं, तथाऽपि तत्र सामान्याऽर्थग्रहणं भविष्यति, इत्याशङ्कयाह- स च व्यञ्जनकालोऽर्थपरिशून्यः, न हि तत्र सामान्यरूपो, विशेष्यरूपो वा कश्चनाप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, तत्र चार्थप्रतिभासाऽयोगात् / तस्मत्पारिशेष्यादस्मदभ्युपगतार्थाऽवग्रह एव सामान्य-ग्रहणमिति गाथायामनुक्तमपि स्वयमेव द्रष्टव्यम् / तदनन्तरं चान्वयव्यतिरेकधर्मपर्यालोचनरूपा ईहा, तदनन्तरंच 'शब्द एवाऽयम्' इति निश्चयज्ञानमपाय: इति सर्वं सुस्थं भवति। इति गाथार्थः / अथ प्रथममेवाऽर्थाऽवग्रहज्ञानेन शब्दाऽग्रहणे पर: पुनरपि दोषमाह-- जइ सद्दो त्ति नगहियं, न उजाणइ जंक एस सद्दो त्ति। तमजुत्तं सामण्णे, गहिए मम्गिज्जइ विसेसो॥२६० / / यद्यर्थाऽवबोधसमये प्रथममेव"शब्दोऽयम्' इत्येवं तद्वस्तु नगृहीतं, तर्हि 'न उण जाणइ केवेस सद्दे त्ति' 'जंति', यत्सूत्रे निर्दिष्टं तदयुक्तं प्राप्नोति, यस्माच्छब्दसामान्ये रूपादिव्यावृत्ते गृहीते संति पश्चान्मृग्यतेअन्विष्यते विशेष:- 'किमयं शब्द: शाङ्क:, उतशाङ्ग:?' इति। इदमुक्तं भवति "न उण जाणइ के वेस सद्दे" त्ति, अस्मिन् नन्दिसूत्रे 'न पुनर्जानाति कोऽप्येष शाङ्खशाधिन्यतरशब्दः' इति विशेषस्यैवाऽपरिज्ञानमुक्तम्, शब्दसामान्यमात्रग्रहणं त्वनुज्ञातमेव, तद्ग्रहणे तु 'क एष शब्द: किं शाङ्गः, शाङ्गों वा' इत्येवं विशेषमार्गणमसङ्गतमेव स्थात् विशेषजिज्ञासाया: सामान्यज्ञानपूर्वकत्वाच्छब्दसामान्ये गृहीतएव तद्विशेषमार्गणस्य युज्यमानत्वात्। इति गाथार्थः / अत्रोत्तरमाहसव्वत्थ देसयंतो, सद्दो सद्दो त्ति भासओ भणइ। इहरान समयमित्ते, सहो त्ति विसेसणं जुत्तं // 26 // सर्वत्र-पूर्वस्मिन्, अत्र च सूत्रावयवे अवग्रहस्वरूपं देशयन्- प्ररूपयन् 'शब्द: शब्दः' इति भाषक:- प्रज्ञापक एव वदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति। इत्थं चैतद्, अन्यथा न समयमात्रेऽर्थावग्रहकाले 'शब्दः' इति विशेषणं युक्तम्, आन्तर्मुहूर्तिकत्वाच्छब्दनिश्चयस्येति प्रागेवोक्तम्। सांव्यवहारि-कार्थाऽवग्रहापेक्षं या सूत्रमिदं व्याख्यास्यते इति मा त्वरिष्ठाः / इति गाथार्थः। अथ सूत्रावष्टम्भवादिनं परं दृष्ट्वा सौत्रमेव परिहारमाअहव सुए चिय भणियं, जह कोई सुणेज्ज सहमवत्तं / अवत्तमणिद्देसं, सामण्णं-कप्पणारहियं / / 262 / / अथवा यदि तव गाढः श्रुतावष्टम्भः तदा तत्राप्येतद्भणितं यदुतप्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् / केन पुन: सूत्राऽवयवेनेदमुक्तम्? इत्याह- 'जह कोइ सुणेज्ज सद्दमव्वत्तं' ति अयं च सूत्रावयवो नन्द्य-ध्ययने इत्थं द्रष्टव्यः- "से जहानामए के इपुरिसे अव्वत्तं सई सुणेज्जत्ति (सूत्र+) अत्र अव्यक्तमिति कोऽर्थ:? इत्याह-अनिद्देश्यं 'शब्दोऽयं 'रूपादिर्वा' इत्यादिना प्रका