________________ आमिणिबोहियणाण 288 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण तु जाति: प्रीतिकरमिदं रूपं पुष्टिकरोऽयं रस इत्यादि-कस्तु शब्द: क्रियाप्रधानत्वात् क्रियाः / कृष्णनीलादिकस्तु गुण: / पृथिव्यादिकं पुनर्रव्यम्। एतेषां स्वरूप-नामजात्यादीनां कल्पना अन्तजल्पारूषितज्ञानरूपा तया रहितमेवार्थमर्थावग्रहण गृह्णाणाति यतो जीव:, तस्मादनिर्देश्योऽयमर्थः प्रोक्त: तत्कल्पनारहितत्वेन स्वरूपनामजात्यादिप्रकारेण केनाऽपि निद्देष्टुमशक्यत्वादिति / एवमुक्तं सति परः प्राह-'जइ एवं' इत्यादि- यदि स्वरूपनामादिकल्पनारहितोऽर्थोऽर्थाऽवग्रहस्य विषय इत्येवं व्याख्यायते भवद्भिः तर्हि 'ज' ति-यन्नन्द्यध्ययनसूत्र प्रोक्तम्। किम? इत्याह-'तेणं गहिए सद्दे' त्तिउपलक्षणत्वादित्थं तसंपूर्ण द्रष्टव्यम्-"से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा तेणं सद्दे त्ति उग्गहिए न उण जाणइ केवेस सद्दा" इति, 'तं किहणु' त्ति-तदेतत्कथमविरोधेन नीयते ? युष्मद्व्याख्यानेन सह विरुद्ध्यते एवेदमित्यर्थः, तथा हि अस्मिन्नन्दिसूत्रेऽयमर्थ: प्रतीयते- यथा तेन प्रतिपत्त्रार्थावग्रहेण शब्दोऽवगृहीत इति भवन्तस्तु शब्दाद्युल्लेखरहितं सर्वथा अमुं प्रतिपादयन्तिततः कथं न विरोध इति भाव: इति गाथार्थः। अत्रोत्तरमाहसद्दे त्ति भणइ वत्ता, तम्मत्तं वानसहबुद्धीए। जइ होज्ज सहबुद्दी, तोऽवाओ चेव सो होज्जा / / 253 / / शब्दस्तेनाऽवगृहीत इति यदुत्तं, तत्र-'शब्दः' इति वक्ता प्रज्ञापक: सूत्रकारो वा भणति- प्रतिपादयति, अथवा-तन्मात्रं- शब्दमात्रं रूपरसादिविशेषव्यावृत्त्याऽनवधारितत्वाच्छन्दतया अनिश्चितं गृह्णाणातीति / एतावतांशेन शब्दस्तेनाऽवगृहीत इत्युच्यते न पुन: शब्दबुद्ध्या' शब्दोऽयम्' इत्यध्यवसायेन तत्-शब्दवस्तु तेनावगृहीतं, शब्दोल्लेखस्यान्तर्मुहूर्तिकत्वाद् अर्थावग्रहस्य त्वेकत्वसामायिकत्वादसंभव एवायमिति भाव: / यदि पुन: तत्र- अर्थावग्रहे शब्दबुद्धि: स्यात्तर्हि को दोष: स्याद ? इत्याशय सूत्रकार: स्वयमेव दूषणान्तरमाह'जई' त्यादि-यदि पुनरविग्रहे शब्दबुद्धिः- शब्दनिश्चय: स्यात् तदाऽपाय एवाऽसौ स्यात्, नत्वावग्रहः, निश्चयस्यापायरूपत्वात् / ततश्चार्थावग्रहेहाभाव एव स्यात्, न चैतद् दृष्टम्, इष्टं च / इति गाथार्थः / अत्राह पर:-ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम' इति प्रत्ययोऽर्थावग्रहत्वेनाभ्युपगम्यतां शब्दमात्रत्वेन सामान्य-त्वात्; उत्तरकालंतु प्रायो माधुर्यादय: शङ्खशब्दधाइह घटन्ते, ननुशाङ्गधर्माः खरकर्कशत्वादय इति विमर्शबुद्धिरीहा तस्मा-च्छाङ्क एवाऽयं शब्द इति तद्विशेषस्त्वपायोऽस्तु / तथा च सति "तेणं सद्दे ति उग्गहिए" इदं यथाश्रुतमेव व्याख्यायते-नो चेव णं जाणइ केवेस सद्दाइ तओ ईहं पविसई" इत्याद्यपि सर्वमविरोधेन गच्छतीति / तदेतत्परोक्तं सूरिः प्रत्यनुभाष्य दूषयति, तद्यथाजइ सद्दबुद्धिमत्तयमव-गहो तट्विसेसणमवाओ। नणु सद्दो नासहो, नय रूवाइविसेसोयं / / 254 / / भो पर! यदि शब्दबुद्धिमानं 'शब्दोऽयम्' इति निश्चयज्ञानमपि | भवतार्थाऽवग्रहोऽभ्युपगम्यते, तद्विशेषणं तुतस्य शब्दस्य विशेषणं विशेष: 'शास एवायं शब्दः' इत्यादिविशेषज्ञान- मित्यर्थः, अपायो मतिज्ञानतृतियो भेदोऽङ्गीक्रियते हन्त तर्हि अवग्रहलक्षणस्य तदाधभेदस्याऽभावप्रसङ्गः, प्रथमत एवावग्रह- मतिक्रम्याऽपायाऽभ्युपगमात्। कथं पुन: शब्दज्ञानमपाय:? इति चेद् / उच्यते-तस्यापि विशेषग्राहकत्वात्, विशेषज्ञानस्य च भवताप्यपायत्वेनाभ्युपगतत्वात्। ननु 'शाङ्क्ष एवाऽयं शब्द' इत्यादिकमेव तदुत्तरकालभाविज्ञानं विशेषग्राहकं शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात्कथं विशेषप्रतिभास: येनाऽपाय- प्रसङ्गः स्याद् ? इत्याह- 'नणु' इत्यादि नन्वित्यक्षमायां, पराम-न्त्रणेवा, ननु'शब्दोऽयं नाशब्द' इति विशेषोऽयं विशेष- प्रतिभास एवाऽयमित्यर्थः / कथं पुन शब्द इति निश्चीयते? इत्याह- न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दा- द्वन्धरस-स्पर्शपरिग्रहः / ततश्चेदमुक्तं भवति-यस्मान्न रूपादिरयं, तेभ्यो व्यावृत्तत्वेन गृहीतत्वाद् , अतो नाऽशब्दोऽयमिति निश्चीयते; / यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात्तदा शब्दो- ऽयमिति निश्चयोऽपि न स्यादिति भावः / तस्माच्छब्दोऽयं नाशब्द: इति विशेषप्रतिभास एवाऽयम् / तथा च सत्यस्याप्यपाय-प्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् / इति गाथार्थः। अथ परोऽवग्रहाऽपाययोर्विषयविभागं दर्शयन्नाहथोवमियं नाऽवाओ, संखाइविसेसणगवाउत्ति। तब्भेया वेक्खाए, नणु थोवमियं पि नाऽवाओ // 255 / / इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकम्स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किं त्ववग्रह एवाऽयमिति भाव: / क: पुनस्तीपाय:? इत्याह-'संखाइ' इत्यादि, शाङ्खोऽयं शब्द इत्यादिविशेषणविशिष्टं यज्ज्ञानं तदपाय: बृहद्विशेषावसायित्वादिति हृदयम् / हन्त ! यद्यत् स्तोकं तत्तन्नाऽपाय: तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहणापेक्षयापूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वाद्। एतदेवाह- 'तब्भेये त्यादि, तस्य शानशब्दस्य ये उत्तरोत्तरभेदा: मन्द्रमधुरत्वादयः, तरुणमध्यमवृद्धस्त्रीपुरुषसमुत्थत्वादयश्च तदपेक्षायां सत्यामिदमपि 'शाङ्खोऽयं शब्द:' इत्यादि ज्ञानं ननु स्तोकस्तोकविशेषग्राहकमेव इति नाऽपाय: स्याद् / एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तर-भेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीया: इति गाथार्थ:। तमेवाऽपायाभावं स्फुटीकुर्वन्नाहइय सुबहुणा वि कालेण, सव्वभेयावहारणमसभं / जम्मि हवेज्ज अवाओ, सव्वो चिय उग्गहो नाम / / 296 / / इतिशब्द उपप्रदर्शनार्थ:, ततश्चेदमुत्तं भवति-यथा 'शाङ्खोऽयं शब्द:' इत्यस्यांबुद्धौशब्दगतभेदावधारणं सांप्रतम-साध्यम्, मन्द्रमधुरत्वादितदुत्तरोत्तरभेदबाहुल्यसंभवात् / तथा च सति स्तोक त्वान्नेयं बुद्धिरपाय:, किं त्वर्थाऽवग्रह इत्येवं सुबहुनाऽपि कालेन सर्वेणाऽपि पुरुषायुषेण शब्दगतमन्द्रमधुरत्वाद्युत्तरोत्तरभेदावधारणमसाध्यं तद्रे