SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आमिणिबोहियणाण 287 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण विज्जा, से न8।अण्णे विपक्खित्ते, सेऽवि नटे। अण्णे विपक्खित्ते, से विनटे। एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदूजेणं तं / मल्लगंरावेहिति। होही से उदगविंदूजेणं तंसि मल्लगंसि ठाइति। होही से उदगबिंदू जे णं तं मल्लगं भरेहिति। होही से उदगबिन्दू जेणं तंसि मल्लगंसिन द्वाहि-हिति। होही से उदगबिंदूजे णं तं मल्लग पवाहहिति एवामेव पक्खिप्पमाणेहिं 2 अणन्तेहिं पुगलेहिं जाहे तं वंजणं पूरियं होइ ताहे हुन्ति करेइ, नो चेव णं जाणइ के वि एस सद्दाइ" (सूत्र-३५+) इत्यादि। इदं च सूत्र नन्दिविवरणे एवेत्थं व्याख्यातम्, तद्यथा प्रतिबोधकमल्लक दृष्टान्ताभ्यां व्यञ्जनावग्रहस्य प्ररूपणं करिष्यामि / तत्र प्रतिबोधयतीति प्रतिबोधकः स एव दृष्टान्तस्तेन, तद्यथा-नाम कश्चिद्-अनिर्दिष्टस्वरूप: पुरुष: कञ्चिद्-अन्यम् अनिर्दिष्ट-स्वरूपमेव पुरुषं सुप्तं सन्तं प्रतिबोधयेत्। कथमित्याह-अमुक ! अमुक! इति। तत्र प्रेरक: प्रज्ञापकमेवमवादीत्किमेक-समयप्रविष्टा इत्यादि / एवं वदन्तं प्रेरकं प्रज्ञापक एवमुक्तवान्नो एकसमयप्रविष्टा इत्यादि, प्रकटार्थ, यावन्नोसंख्येयसमयप्रविष्टा: पुद्गला ग्रहणमागच्छन्ति। नवरमयं प्रतिषेध: शब्दविज्ञान-ग्राह्यतामधिकृत्य वेदितव्यः; शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा संबन्धमात्रमधिकृत्य प्रथमसमयादारभ्य पुद्गला ग्रहणमागच्छन्त्येव / 'असंखेज्ज' इत्यादि प्रतिसमयप्रवेशेनादित आरभ्यासंख्येयसमयैः प्रविष्टा: असंख्येयसमयप्रविष्टा: पुद्गला:शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति अर्थावग्रहज्ञानहेतवो भवन्तीति भावः / इह च चरमसमयप्रविष्टा एव विज्ञानजनकत्वेन ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयो- पशमोपकारिण इति सर्वेषां सामान्येन ग्रहणमुक्तम्। सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहणप्ररूपणा इति वाक्यशेष: / / अर्थ केयं मल्लक-दृष्टान्तेन प्ररूपणा? तद्यथानाम कश्चित्पुरुष: आपाकशिरसो मल्लकं शरावं गृहीत्वा रूक्षमिदं भवतीत्यस्य ग्रहणम् / तत्र मल्लके एकमुदकबिन्दू प्रक्षिपेत्स नष्टः तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः / शेषं सुबोधम् 'जाव जे णं तं मल्लग' 'रावेहिति' आर्द्रता नेष्यति / शेष सुबोधम् / नवरम् 'पवाहेहिति' प्लाव-यिष्यतीति / 'एवामेवे' त्यादि, अति बहुत्त्वा- त्प्रतिसमयमनन्तैः शब्दपुद्गलैः यदा तद्व्यञ्जनं पूरितं भवति, तदा 'हुम' इति करोति तमर्थं गृह्णाणातीत्युत्तं भवति। किं विशिष्टं नामजात्यादि-कल्पनारहितम्, अतएवाह-'नो चेव णंजाणइ केवेस सद्दाइ त्ति न पुनरेवं जानाति क एष शब्दादिः इत्यर्थः / एवं च सतिसामयिकत्वादविग्रहस्य अर्थावग्रहात्पूर्व सो व्यञ्जनाऽवग्रह:" तदेवमस्य व्यञ्जनाऽवग्रहस्वरूपप्रतिपादकस्य नन्दिसूत्रस्य शेषं प्राय: सुगममिति मन्यमानो भाष्यकार: "जाहे तं वंजणं पूरियं होइ "इत्येतत् (नन्दिसूत्रांशं)व्याचिख्यासुराहतोएण मल्लगं पिब, वंजणमापरियं तिजं भणियं / तं दव्यमिडियं वा, तस्संजोगो व न विरुद्धं // 20 // 'जं भणियं' यदुक्त नन्दिसूत्रकारेण किं तद् ? इत्याहव्यञ्जनमापूरितमिति। केन किंवत् ? इत्याह। तोयेनजलेन मल्लकंशराब तद्वदिति। तस्मिन् सूत्रकारभणितेव्यञ्जनद्रव्यं गृह्यते, इन्द्रियं वा, तयोर्वा द्रव्येन्द्रिययो: संयोगासंबंन्ध इति सर्वथाऽप्यविरोधः / इदमुक्तं भवतिव्यञ्जनशब्देन शब्दादि-विषय- परिणतपुद्रलसमूहरूपं द्रव्यं श्रोत्रादीन्द्रियं वा द्रव्येन्द्रिययो: संबन्धो वा गृह्यते, न कश्चिद्विरोध: व्यज्यते-प्रकटीक्रियते विवक्षितोऽर्थोऽनेनेति व्यञ्जनमित्यस्या व्युत्पत्ते: सर्वत्रघटनादिति गाथार्थः। केचलं द्रव्यादिषु त्रिष्वपि व्यञ्जनशब्दवाच्येषु प्रत्येकमापूरितत्वे विशेषो द्रष्टव्य: कः पुनरसो? इत्याह दव्वं माणं पूरिय-मिदियमापूरियं तहा दोण्हं। अवरोप्पस्संसग्गो,जया तया गिण्डइ तमत्थं / / 251 / / 'दव्वं' ति यदा द्रव्यं व्यञ्जनमधिक्रियते तदा 'जाहे तं वंजणं पूरियं होइ' इति- कोऽर्थः ? इत्याह-'माणं पूरियं' तिमानम् तस्य शब्दादिद्रव्यस्य प्रमाणं प्रतिसमयप्रवेशेन प्रभूतिकृतत्वात्स्वप्रमाणमानीतं प्रकर्षमुपनीतं स्वग्राहकज्ञानजनने समर्थीकृत-मिति यावत्। यदा त्विन्द्रियमिति इन्द्रियं व्यञ्जनमधिक्रियते तदा 'जाहे तं वंजण पूरियं होइ' इति-किमुत्तं भवति ? इत्याह- 'आपूरियं' ति आपूरित-व्याप्तं-भृतंवासितमित्यर्थः / तथा- 'दोण्हं ति'-द्वयोः श्रोत्रादीन्द्रियशब्दादिपरिणतद्रव्ययो: संबन्धो यदि व्यञ्जनमधिक्रियते तदा जाहेतं वंजणं पूरियं होइ' इतिकिमुत्तं भवति ? इत्याह-'अवरोप्परं संसग्गो' त्ति-सम्यग् सर्गो-योग: संसर्गः; सम्यक् संबन्ध इत्यर्थः, इदमत्र हृदयम्- अस्मिन्पक्षे यदा तयोरिन्द्रियद्रव्ययो: परस्परमतीव संयुक्तताअनुपक्तता अङ्गाङ्गिभावेन परिणामो भवति, तदा प्रस्तुतसंबन्ध- लक्षणं व्यञ्जनमापूरितं भवतीत्युच्यत इति! 'जया तया गिण्हइ तमत्थं त्तिएवं यदा त्रिविधमपि व्यञ्जनं प्रकारत्रयेणाऽऽपूरितं भवति, तदा तं विवक्षितं शब्दादिकमर्थमव्यत्तं नाम-जात्यादिकल्पना रहितं गृह्णाति / एतच 'ताहे हुंति करेइ' इत्यस्य व्याख्यानाम अर्थावग्रहश्चायमेकसमायिको विज्ञेयः, इतरस्तु पूर्वमन्तर्मुहूर्त द्रव्यप्रवेशादिरूपो व्यञ्जनाऽवग्रहोऽवसेय: / इति गाथार्थः / किं विशिष्टं पुनस्तमर्थं गृह्णाति? इत्याशङ्कय स्वत एव भाष्यकारस्तस्वरूपमाहसामण्णणिद्देसं, सरूव-नामाइकप्पणारहियं / जइ एवं जं तेणं, गहिए सद्देत्ति तं किहणु? // 252 / / ग्राह्यवस्तुन: सामान्यविशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवार्थं गृह्णाति, न विशेषरूपम्, अर्थावग्रहस्यैकसा- मयिकत्वात्, समयेन च विशेषग्रहणायोगादिति / सामान्यार्थश्च कश्चित् ग्रामनगरवनसेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाह-अनिद्देश्य केनापि शब्देनानमिलप्यम् / कुतः पुनरेतत् ? इत्याह- यत: स्वरूपनामादिकल्पनारहितम्, आदि-शब्दातजातिक्रियागुणद्रव्यपरिग्रहः। तत्र रूपरसाद्यर्थानां य आत्मीचक्षुरादीन्द्रियगम्य: प्रतिनियत: स्वभावस्तत्स्वरूपम्। रूपरसादिकस्तु तदभिधायको ध्वान म्, रूपत्वरसत्वादिका
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy