SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आभिणिबोहियणाण 284 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण णस्य प्रसङ्गादिति भावः / अथाऽस्मदभ्युपगता धारणा त्वया नेष्यते, "तर्हि नेच्छमाणस्स किं होउ" इत्यादि, तां मदभ्यु - पगता धारणामनिच्छतोऽप्रतिपद्यमानस्य तव सा मदभ्युपगता धारणा किं भवतु अभाव: अवस्तु, आहोस्विद्भावो, वस्तु इति विकल्पद्वयम्। किं चात:? न तावदभाव: भावत्वेनानुभूय- मानत्वात् / न च तथानुभूयमानस्याभावत्वमाधातुं शक्यते, अतिप्रसङ्गात्-घटादिष्वपितथात्वप्राप्त:, तेऽपि ह्यनुभववशेनैव भावरूपा व्यवस्थाप्यन्ते / यदि चअनुभवोऽप्यप्रमाणं, तदा घटादिष्वपि भावरूपतायामनाश्वास इति भावः / अथ भावोऽसौ, तर्हि वक्तव्यं ज्ञानम्, अज्ञानं वा ? नतावदज्ञानं, चिद्रू- पतयाऽनुभूयमानत्वात् / अथ ज्ञानं तदपि मतिश्रुतावधिमन: पर्यायकेवलेभ्यो ज्ञानान्तरस्याभावात्तेषां मध्ये कतमत् ? इति वाच्यम्। न तावत् श्रुतादिचतुष्टयरूपम्, अनभ्युपगमात्, तल्लक्षणाऽयोगाच मतिज्ञानं चेत्, तदपि नावग्रहेहापायरूपं, तल्लक्षणाऽसंभवात् 'नणु सावायब्भहिया' इत्यादि, नाऽपायाभ्यधिकत्वेन साधितत्वाच / तस्मादन्वयव्यतिरेकाभ्यां निश्चय: सर्वोऽप्यपाय:, अविच्युस्मृितिवासनारूपा तु पारिशेष्यद्वारेणैवेति स्थितम्। इति गाथार्थः / तदेवं निरुत्तरीकृतोऽप्यविलक्षिततयाऽन्येन प्रकारेणाह-- तुज्भं बहुयरभेया, भणइ मई होइ धिइबहुत्ताओ। भण्णइ न जाइ भेओ, इट्ठो मज्भं जहा तुज्ज ||191 / / अत्र प्रेरको भणति। किम् ? इत्याह- 'तुज्भमि' त्यादि, इत्थमाचार्य! तव बहुतरभेदा मतिर्भवति / कुत:? इत्याह-धृतेर्धारणाया बहुत्वात्: बहुभेदत्वादित्यर्थः, धारणाया एकस्या अप्यविच्युतिवासनास्मृतिलक्षणभेदत्रययुक्तत्वादेवग्रहेहाऽपायैः सह षट्भेदा मति प्राप्नोतीति भावः / अत्र प्रतिविधानमाह- 'भण्णइ इत्यादि, भण्यतेऽत्रोत्तरम्जातेर्भदो जातिभेदो; व्यक्ति-पक्ष इत्यर्थः / स इह धारणाविचारे मम नेष्टोनाभिप्रेत: / किं तु धारणा सामान्यरूपा जातिरेव ममाभिप्रेता। कस्य यथा? इत्याह- यथा तवाऽवग्रहविषये इति शेषः / इदमुक्तं भवतियथाऽवग्रहो व्यञ्जनार्थाग्रहभेदादुभयरूपोऽवग्रहसामान्यादेकस्त्वयाऽपीष्टः, अन्यथा मते: पञ्चविधत्वप्रसङ्गात् तथा त्रिरूपाऽपि धारणा तत्सामान्यादेकरुपैव; इति चतुर्विधैव मतिर्न बहुतरभेदा। इति गाथार्थः। एतदेव भावयन्नाहसा भिन्नलक्खणा वि हु, धिइसामण्णेण धारणा होइ। जह उग्गहो दुरूवो, उग्गहसामण्णओ एक्को / / 192 / / सा धारणा अविच्युति-वासना-स्मृतीनां भिन्नस्वरूपत्वेन भिन्नलक्षणाऽपि सती धारणा सामान्याव्यतिरेकादेकै व भवति; यथाऽवग्रहो व्यञ्जनावग्रहभेदात् द्विरूपोऽप्यवग्रहसामान्याध्यतिरेकादेक: / परस्याऽपि सिद्धेः, अन्यथा मतेः पञ्चविधत्वा- पत्तेः। इति गाथार्थः। तदेवमवग्रादिभेदचतुष्टविषया निराकृताः सर्वा अपि परा वप्रतिपत्तयस्तन्निराकरणप्रक्रमे चानन्तरमवग्रहो द्विरूपः प्रोक्तः स च कथं द्विरूपो- भवति इत्याशङ्कय तद्विरूपताकथनव्याजेन पूर्व यान्याभिनिबोधिकज्ञानस्याऽवग्रहादीनि चत्वारि भेदव-स्तून्युक्तरानि, तेष्वेव मध्येऽवग्रहं तावद्, विशे०। ('उग्गह' शब्देऽस्मिन्नेव भागे वक्ष्यते) तत्र व्यञ्जनं तावत्किमुच्यते ? इत्यादिवजिज्जइ जेणऽत्थो, घडो व्व दीवेण वंजणं तं च। उवगरणिंदिप्यसद्दा-इपरिणयदव्वसंबंधो।।१९४ / / व्यज्यते प्रकटीक्रियतेऽर्थो येन दीपेनेव घटस्तत् व्यञ्जनं, किं पुनस्तदित्याह- 'तं चे' त्यादि / तच व्यञ्जनम् उपकरणे -- न्द्रियशब्दादिपरिणतद्रव्यसंबन्धः / इन्द्रियं द्विविधम्- द्रव्येन्द्रि-यम, भावेन्द्रियं च / विशे (अत्र विस्तर: 'इंदिय' शब्देऽस्मिन्नेव भागे वक्ष्यते) तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगौ भावेन्द्रियं निवृत्तिश्च द्विधाअडलासंख्येयभागादिमाना कदम्बकुसुमगोलकधान्यमसूरकाहलाक्षुरप्राकारमांसगोलक-रूपा, शरीराकारा च / श्रोतादीन्द्रियाणां पञ्चानामापि यथा-संख्यमन्तर्निवृत्तिः; कर्णशष्कुलिकादिरूपा तु बहिर्निर्वृत्तिः / तत्र कदम्बकुसुमगोलकाकारमासखण्डादिरूपाया अन्तर्निवृत्ते: शब्दादिविषयपरिच्छेदहेतुर्य: शक्तिविशेषः स उपकरणेन्द्रियं, शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः, आदिशब्दाद्रसगन्धस्पर्शपरिग्रहः, तद्भावेन परिणतानि च तानि भाषावर्गणादिसंबन्धीनि द्रव्याणि चशब्दादिपरिणतद्रव्याणि, उपकरणेन्द्रियं च शब्दा- दिपरिणतद्रव्याणि च तेषां परस्परं संबन्ध: उपकरणेन्द्रियशब्दा- दिपरिणतद्रव्यसंबन्धः; एष तावद् व्यञ्जनमुच्यते। अपरं च- इन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात्तदपि व्यञ्जनमुच्यते / तथा शब्दादिपरिणतद्रव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्जनमभि-धीयते, इति। एवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम्ततश्चेन्द्रियलक्षणेन व्यञ्जनेन शब्दादि- परिणतद्रव्यसंबन्धस्वरूपस्य व्यञ्जनस्याऽवग्रहो व्यञ्जनाग्रहः, अथवातेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्यञ्ज- नानामवग्रहो व्यञ्जनावग्रहः इत्युभयत्राऽप्ये कस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः / इति गाथार्थ:। अत्राऽऽक्षेपं, परिहारं चाभिधित्सुराहअण्णाणं सो बहिरा- ईणं व तक्कालमणुबलंभाउ। न तदंते तत्तो चिय, उवलंभाओ तओ नाणं / / 195 / / स व्यञ्जनावग्रहोऽज्ञानं, ज्ञानं न भवति, तस्य उप करणे - न्द्रियशब्दादिपरिणतद्रव्यसंबन्धस्य कालस्तत्कालस्तस्मिन् ज्ञानस्यानुपलम्भात् स्वसंवेदनेनासंवेद्यमानत्वाद; बधिरादीनामिव यथा हि बधिरादीनामुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह संबन्धकालेन किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच तन्नाऽस्ति तथेहापीति भावः / अत्रोत्तरमाह-'न तदंते' इत्यादि, नाऽसौ जडरूपतया ज्ञानरूपेणननुभूयमानत्वादज्ञानं, किं तर्हि स कोऽसौ व्यञ्जनावग्रहोज्ञानमेव / कुतः? तदन्ते- तस्यव्यञ्जनावग्रहस्यान्ते तत एव ज्ञानत्मकस्याऽर्थावग्रहोपलम्भस्य भावात्, तथाहि- यस्य ज्ञानस्याऽन्ते तज्ज्ञेयवस्तूपादानात्तत
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy