________________ आमिणिबोहियणाण 283 अमिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण ख्यायते व्यतिरेकमुखेन निश्चयोऽपाय: अन्वयमुखेनतुधारणा इत्येवमेव चतुर्धा-चतुर्विधा मतिर्भवति-युक्तितो घटते। अन्यथा तुव्याख्यायमानेअन्वयव्यतिरेकयोर्द्वयोरप्य-पायत्वेऽभ्युपगम्यमाने इत्यर्थः / किम् ? इत्याह-त्रिधा-अवग्रहे- हापायभेदतस्त्रिभेदा मतिर्भवति,नपुनश्चतुर्दा, धारणाया अघटमानकत्वादिति भावः / इति गाथार्थः / कथं पुनर्धारणाभाव:? इत्याहकाऽणुवओगम्मि घिई, पुणोवओगेय सा जओऽवाओ। तो नऽत्थि धिई भण्णइ, इदं तदेवेति जा बुद्धी||१८८ // नणु साऽवायन्महिया, जओयसा वासणाविसेसाओ। जा य अवायाणन्तर-मविचुई सा धिई नाम ||189 // अनुपयोगे- उपयोगोपरमे सति का धृति: का नाम धारणा ? न काचिदित्यर्थः / इदमुक्तं भवति- इह तावन्निञ्चयोऽपायमुखेन घटादिके वस्तुनि अवग्रहहापायरूपतयाऽन्तर्मुहूर्तप्रमाण एवोप-यागोजायते। तत्र चापाये जाते। या उपयोग-सातत्यलक्षणा अविच्युतिर्भवताऽभ्युपगम्यते, सा अपाय एवाऽ- न्तर्भूता / इति न ततो व्यतिरिक्ता / या तु तस्मिन् घटाधुपयोगे उपरते सति संख्येयमसंख्येयंकालं वासनाभ्युपगम्यते, 'इदं तदेव' इति लक्षणा स्मृतिश्चाङ्गिक्रियते, सा मत्यंशरूपा धारणा न भवति, मत्युपयोगस्य प्रागेवोपरतत्वात् / पुनरपि कालान्तरोपयोगे धारणा भविष्यतीति चेत्, इत्याह- 'पुणो' इत्यादि, कालाऽन्तरे पुनर्जायमानोपयोगेऽपि या ऽन्वयमुखोपजायमानावधारणरूपा धारणा मयेष्यते, सा यतोऽपाय एव भवताभ्युपगम्यते / 'सव्वो वि य सोवाओ' इत्यादिवचनात्; ततस्तत्रापि नाऽस्तिधृति-धारणा, पुनरप्युपयोगोपरमेऽपि पूर्वोक्तयुक्त्यैव तदभावः, तस्मा-दुपयोगकालेऽन्वयमुखावधारणरूपाया धारणायास्त्वयाऽनभ्यु-पगमात् उपयोगोपरमे च मृत्युपयोगाभावात्, तदेशरूपाया धारणाया अघटमानकत्वात्रिधैव भवदभिप्रायेण मति: प्राप्नोति, न चतुर्दा, इति पूर्वपक्षाभिप्रायः / अत्रोत्तरमाह- 'भण्णई' त्यादि, भण्यतेऽत्र प्रतिविधानम्। किम् ? इत्याह-'इदं वस्तु तदेव यत् प्रागुपलब्धं मया' इत्येवंभूता कालान्तरे या स्मृतिरूपा बुद्धिरुप जायते नत्विह सा पूर्वप्रवृत्तापायान्निर्विवादमभ्यधिकैन, पूर्वप्रवृत्ताऽपायकाले, तस्या अभावात् सांप्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापर- दर्शनानुसंधानायोगात् / ततश्च साऽनन्यरूपत्वात् धृतिर्धारणा नामेतिपर्यन्ते संबन्धः / यतश्च यस्माच्च वासनाविशेषात्- पूर्वो-पलब्धवस्त्वाहित संस्कारलक्षणात्, तद्विज्ञानावरणक्षयोप- शमसान्निध्यादित्यर्थः, सा इदं तदेवेति लक्षणा स्मृतिर्भवति। साऽपि वासनाऽपायादभ्यधिकेतिकृत्वा धृति म इतीहापि संबन्धः। 'जायाऽवाय' इत्यादि,याच अपायादनन्तरमविच्युति: प्रवर्तते साऽपि धृति म / इदमुक्तं भवति-यस्मिन् समये 'स्थाणुरेवाय' मित्यादिनिश्चयस्वरूपोऽपाय: प्रवृत्तः, तत: समयादूर्द्धवमपि 'स्थाणुरेवाऽयं स्थाणुरेवायमि' त्यविच्युता याऽन्तर्मुहूर्ते क्वचिदपायप्रवृत्तिः साऽप्युपायाऽविच्युति: प्रथम-प्रवृत्ताऽपायादभ्य धिकेति धृतिर्धारणा नामेति / एवम-विच्युतिवासनास्मृतिरूपा धारणा त्रिधा सिद्धा भवति॥ अत्राह- कश्चित्-नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वान्न प्रमाणं, द्वितीयादिवाराप्रवृत्तापायसाध्यस्य वस्तुनिश्चयलक्षणस्य कार्यस्य प्रथमवाराप्रवृत्तापायेनैव साधित- त्वात्। न च निष्पादितक्रिये कर्मणि तत्साधनायैव प्रवर्तमानं साधनं शोभां बिभर्ति, अतिप्रसङ्गात् कुठारादिभिः कृतच्छे-दनादिक्रियेष्वपि वृक्षादिषु पुनस्तत्साधनाय तेषां प्रवत्त्याप्ते: 1 स्मृतेरपि पूर्वोत्तरकालभाविज्ञानद्वयगृहीत एव वस्तुनि प्रवर्तमा- नतया कुत:प्रामाण्यं, नचवक्तव्यं पूवोत्तरदर्शनद्वयानधिगतस्य वस्त्वेकत्वस्य ग्रहणात् स्मृति: प्रमाणं, पूर्वोत्तरकालदृष्टस्य वस्तुन: कालादिभेदेन भिन्नत्वाद्, एकत्वस्यैवासिद्धत्वादिति। वासना तु किं रूपा ? इति वाच्यम्। संस्काररूपेति चेत्। कोऽयं नाम संस्कार:? स्मृतिज्ञानवरणक्षयोपशमो वा, तज्ज्ञान-जननशक्तिर्वा, तद्वस्तुविकल्पोवा? इति त्रयीगतिः। तत्राद्य-पक्षद्वयमयुक्तम् ज्ञानरूपत्वाभावात् तद्भेदानां चेह विचार्यत्वेन प्रस्तुतत्वात् / तृतीयपक्षोऽप्ययुक्त एव संख्येमसंख्येयं वा कालं वासनाया इष्टत्वाद् एतावन्तं च कालं तद्वस्तुविकल्पायोगात्तदेवमविच्युतिस्मृति- वासनारूपायास्त्रिविधाया अपि धारणाया अघटमानत्वात् विधैव मति: प्राप्नोति, न चतुर्दा / अत्रोच्यते-यत्तावद् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्य- ते, तदयुक्ततम्, गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वाद्, अन्य-कालविशिष्टं हि वस्तु प्रथमप्रवृत्तापायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवाराप्रवृत्तापायेन / किं चस्पष्टस्पष्टतर स्पष्टतमभिन्नधर्मकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीया-द्यपायविषयं वस्तु भिन्नधर्मकमेवेति कथमविच्युतेर्गृहीतग्राहिता ? स्मृतिरपि पूर्वोत्तरदर्शनद्वयानधिगतं वस्त्वेकत्वं गृह्णाना न गृहीतग्राहिणी। न च वक्तव्यं कालादिभेदेन भिन्नत्वात् वस्तुनो नैकत्वं, कालादिभिर्भिन्नत्वेऽपि सत्त्वप्रमेयत्वसंस्थानरूपादिभिरेकत्वात्। वासनाऽपिस्मृतिविज्ञानावरणकर्मक्षयोपश-मरूपातद्विज्ञानजननशक्तिरूपा चेष्यते। सा च यद्यपि स्वयं ज्ञानस्वरूपा न भवति, तथापि पूर्वप्रवृत्ताविच्युतिलक्षणज्ञानका र्यत्वाद्, उत्तरकालभाविस्मृतिरूंपज्ञानकारणत्वाचोपचारतो ज्ञानरूपाऽभ्युपगम्यते / तद्वस्तुविकल्पपक्षस्त्वनभ्युपगमादेव निरस्त: तस्मादविच्युतिस्मृतिवासनारूपाया धारणाया: स्थित-त्वात् न मतेस्त्रैविध्यं, किंतु चतुर्दा सेति स्थितम्। इति गाथाद्वयार्थः / अथैतां स्वाभिमतां धारणा व्यवस्थाप्य परं प्रत्याहतं इच्छंतस्स तुहं वत्थूणिय पंच मेच्छमाणस्स। किं होउसा अभावो, मावो नाणं वतं कयरं? ||190 / / अस्मदभिमतामनन्तरप्रतिष्ठितस्वरूपां तां धारणामिच्छतस्तव पञ्च वस्तूनि- पशाभिबोधिक ज्ञानभेदाः प्राप्नुवन्ति, अपायस्यै कस्यापि भेदद्वयरूपताभ्युपगमेन भेदचतुष्टय स्य त्वयाऽपिं पूरितत्वात्, पञ्चमस्य तु मदुक्तस्य धारणालक्ष