SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आभिणिबोहियणाण 282 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण परिकुण्ठितं -जडीभूतं सर्वथा अवस्तुनिश्चयरूपतामापन्नं, किं बहुना? 'सेय इवे' त्यादि,शेतइव-स्वपितीव सर्वात्मना न किंचित् चेतयते वस्त्वप्रतिपत्तिरूपत्वात् तदेवं विधं चित्तं-संशय उच्यते इत्यर्थः तयाऽज्ञानं वस्त्ववबोधरहितत्वादिति / यपुनस्तदेव चेतोवक्ष्यमाणस्वरूपं तदीहेति संबन्धः / कथंभूतं सद्? इत्याह- 'भूयाऽभूये' त्यादि, भूत: क्वचिद् विवक्षित-प्रदेशे स्थाण्वादिरर्थः, अभूतस्तत्राविद्यमानः पुरुषादिस्तावेव पदार्थान्तरेभ्यो विशिष्यमाणत्वात् विशेषौ, तयोरादानत्यागा-भिमुखं भूतार्थविशेषोपादानस्याभिमुखम्, अभूतार्थत्याग-स्याभिमुखमिति यथासंख्येन संबन्धः / यत: कथंभूतम् ? इत्याह सदर्थहेतूपपत्तिव्यापारतत्परं हेतुद्वारेणेदं विशेषणं-सदर्थहेतूपपत्ति व्यापारतत्परत्वाद भूताऽभूतविशेषादानत्यागा-भिमुखमिति भावः, तत्र हेतुः साध्यार्थगमकं युक्तिविशेषरूपं साधनम्, उपपत्ति:- संभवघटनं; विवक्षितार्थस्य संभवव्य-वस्थापनम्। ततश्च हेतुश्चोपपत्तिश्च हेतूपपत्ती सदर्थस्य विवक्षितप्रदेशे अरण्यादौ विद्यमानस्य स्थाण्वादेरर्थस्य हेतूपपत्ती सदर्थहेतूपपत्ती। तद्विषयो व्यापारोघटनं-चेष्टनं सदर्थहेतूपपत्तिव्यापारस्ततस्तत्परं तन्निष्ठमिति समासः / अत एव अमोघम्अर्थबलायातत्वेन अविफलम्- अमिथ्यास्वरूपं, तदेवभूतं चेत: ईहा इति संबन्ध: कृत एव; इदमुक्तं भवतिकेनचिदरण्यदेशं गतेन सवितुरस्तमयसमये ईषदवकाशमासादयति तमिस्त्रे दूरवर्ती स्थाणुरुपलब्धस्ततोऽस्य विमर्श: समुत्पन्न: किमयं स्थाणुः पुरुषो वा ? इति / अयं च संशयत्वात् अज्ञानम् / ततोऽनेन तस्मिन् स्थाणौ दृष्ट्वा वल्ल्यारोहणं, प्रविलोक्य काककारण्डवकादंम्बक्रौञ्चकीरशकुन्तकुलनिलयन, कृतश्चेतसि हेतुव्यापार: यथा-स्थाणुरयं, वल्ल्युत्सर्पणकाकादिनिलयनोपलम्भात्। तथासंभवपर्यालोचनं चव्यधायि, तद्यथा अस्ताचलान्तरिते सवितरि, प्रसरति चेषत्तमिस्र महारण्येऽस्मिन् स्थाणुरयं संभाव्यते; न पुरुषः, शिर:कण्डूयनकरग्रीवाचलनादेस्तव्यवस्थापकहेतोरभावाद्; ईदृशे च प्रदेशेऽस्यां वेलायां प्रायस्तस्याऽसंभवात्। तस्मात् स्थाणुनाऽत्र सद्भूतेन भाव्यं न पुरुषेण / तदुक्तम्- "अरण्यमेतत् सविता-स्तमागतो, न चाधुना संभवतीह मानव: / प्रायस्तदेतेन खगा-दिभाजा, भाव्यं स्मरारातिसमाननाम्ना // 1 // एतचेदृशं चित्तं ईहा इत्युच्यते, निश्चयाभिमुखत्वेन संशयादुत्तीर्णत्वात्, सर्वथा निश्चयेऽपायत्वप्रसङ्गेन निश्चयादधोवर्तित्वाचेति संशयेहयो: प्रतिविशेषः / इति गाथाद्वयार्थः / अथापायधारणागतविप्रतिपत्तिनिराचिकीर्षया परमतमुपदर्श- यन्नाहकेई तयण्णविसेसा-वणयणमेत्तं अवायमिच्छंति। सब्भूयत्थविसेसाऽ-वधारणं धारणं विति।।१८५।। तच्छब्दास्थानन्तरगाथोऽतो भूतोऽर्थः संबध्यते, तस्मात्तत्र भूतात् विद्यमानात् स्थानण्वादेर्योऽन्यः तत्प्रतियोगी तत्राविद्य-मान: पुरुषादिस्तद्विशेषाः शिर: कण्डूयनचलनस्पन्दनादयः तेषां पुरोवर्तिनि सद्भतेऽर्थेऽपनयनं- निषेधनं तदन्यविशेषापनयनं तदेव तन्मात्रम्, / अपायमिच्छन्ति, केचनापि व्याख्यातार: अपायनम् -अपनयनम् अपाय इति व्युत्पत्त्यर्थविभ्रमितमनस्का इति भावः / अवधारणं धारणा इति च व्युत्पत्त्यर्थभ्रमितास्ते धारणा बुवते / किं तत् ?, इत्याहसद्भूतार्थविशेषावधारणं सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमान: स्थाण्वादिरर्थविशेषस्तस्य स्थाणु-रेवायम् इत्यवधारणं सद्भतार्थविशेषावधारणमिति समास: / इति गाथार्थः।। तदेतद्दूषयितुमाहकासइ तयन्नवइरे-गमेत्तओऽवगमणं भवे भूए। सब्भूयसमण्णयओ, तदुभयओ कासइ न दोसो।।१८६ / / 'भूए' त्ति-तत्र विवक्षितप्रदेशे भूते विद्यमानेऽर्थे स्थाण्वादौ 'कासइ' त्ति-कस्यचित् प्रतिपत्तुस्तदन्यव्यतिरेकमात्रादवगमन- निश्चयो भवति तस्मात्स्थाण्वादेर्योऽन्य: पुरुषादिरर्थस्तस्य व्यतिरेकः स एव च तदन्यव्यतिरेकमात्रंतस्मात्स्थाण्वाद्यर्थ-निश्चयो भवतीत्यर्थः; तद्यथायतो नेह शिर:कण्डूयनादयः पुरुषधा दृश्यन्ते; ततः स्थाणुरेवायमिति। कस्यापि सद्भुत-समन्वयत: सद्भूतस्तत्र प्रदेशे विद्यमानः स्थाण्वादिरर्थस्तस्य समन्वयत:- अन्वयधर्मघटनात् भूतेऽर्थेऽवगमनं निश्चयो भवेत्, यथा स्थाणुरेवायं वल्ल्युत्सर्पणवयोनिलयनादि-धर्माणा-मिहान्वयादिति। कस्यचित्पुनस्तदुभयाद्अन्वयव्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत्; तद्यथायस्मात्पुरुषधर्माः शिर:कण्डू-यनादयोऽत्र न दृश्यन्ते, वल्ल्युत्सर्पणादयस्तु स्थाणुधर्माः समीक्ष्यन्ते, तस्मात् स्थाणुरेवायमिति / न चैवमन्वयात् व्यतिरेकात्, उभयाद्वा निश्चये जायमाने कश्चिद्दोषः, परव्याख्याने तु वक्ष्यमाणन्यायेन दोष: इति भावः / इति गाथार्थः / कथं पुनस्तद्व्याख्याने न दोष:? इत्याहसव्वो विंय सोऽवाओ, मेए वा होति पंच वत्थूणि। आहेवं चिय चउहा, मई तिहा अन्नहा होइ / / 187 / / यस्माद् व्यतिरेकाद्, अन्वयाद्, उभयाद्वा भूतार्थविशेषा- वधारणं कुर्वतो योऽध्यवसाय: स सर्वोऽप्यपाय:- प्रस्तुत-स्थाण्वादिवस्तुनिश्चयः, नतु सद्भूतार्थविशेषावधारणं धारणेति भावः, तस्मान्न दोषः / / आह ननु यथा मया व्याख्याते- सद्भू-तार्थविशेषाऽवधारणं धारणा, तथा किं कश्चिद्दोष: समुपजायते, येनाऽऽत्मीयव्याख्यानपक्ष इदमित्थमभिधीयते न दोष इति? एतदाशङ्कयाह- 'भेएवा' इत्यादि, वाशब्द: पातनायां गतार्थः, व्यतिरेक:-अपाय:, अन्वयस्तु धारणा, इत्येवं मतिज्ञानतृतीय- भेदस्यापायस्य भेदेऽभ्युपगम्यमाने पञ्च वस्तूनिपञ्च भेदा भवन्ति; आभिनिबोधिकज्ञानस्येति गम्यते; तथा हि अवग्रहेहा- ऽपायधारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिता:, पञ्चमस्तु भेद: स्मृतिलक्षण: प्राप्नोति-अविच्युते: स्वसमानकालभाविन्यपायेऽन्तभूर्तत्वाद्, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात् स्मृतेरनन्यशरणत्वान्मते; पञ्चमो भेद: प्रसज्यत इति भाव: / / ''आहे' त्यादि पुनरप्याह पर:-ननु यथैव मया व्या
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy