________________ आभिणिबोहियणाण 281 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण अथ नियुक्तिकार एवाऽवग्रहादीन् व्याख्यानयन्नाहअत्थाणं उग्गहणं, अवग्गहं तह वियालणं ईहं। ववसायं च अवार्य, धरणं पुण धारणं विति / / 279 / / अर्थादीनाम् -रूपादीनां प्रथमं दर्शनानन्तरमेवावग्रहणमवग्राहं ब्रुवत इति संबन्धः / तथा विचारणं-पयालोचनम् अर्थानामिति वर्तते, ईहनमीहा तां ब्रुवते; इदमुक्तं भवति-अवग्रहादुत्तीर्णो-ऽपायात्पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशे- षत्यागसंमुखश्च प्राय: काकनिलयनादय: स्थाणुधर्मा अत्र वीक्ष्य-न्ते, नतु शिर:कण्डूयनादय: पुरुषधर्मा इति मतिविशेष ईहेति। विशिष्टोऽवसायो व्यवसाय:- निश्चयस्तं व्यवसायम्, अर्थानामितीहापि वर्तते, अवायम् -अपायं वा ब्रुवते, एतदुत्तं भवति- स्थाणुरेवायमित्यवधारणात्मक: प्रत्यय:-अवाय:, अपायो वेति; चशब्द एव कारार्थः, व्यवसायमेव अवायम् अपायं वा ब्रुवत इत्यर्थः / धृतिर्धरणम्, 'अर्थानाम्' इति वर्तते, अपायेन विनिश्चितस्यैव वस्तुनोऽविच्युति-स्मृति-वासनारूपं धरणमेव धारणां ब्रुवत इत्यर्थः / पुन:शब्दस्यावधारणार्थत्वात् ब्रुवत इत्यनेन शास्त्रस्य पारतन्त्र्यमुक्तम् इत्थं तीर्थकरगणधरा ब्रुवत इति / अन्ये त्वेवं पठन्ति-"अत्थाणं उग्गहणम्मि उग्गहो'' इत्यादि, तत्र- अर्थानामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं ब्रुवते, एवमीहादिष्वपि योज्यम; भावार्थस्तु पूर्ववदेव / अथ वाप्राकृतशैल्यार्थवशाद् विभक्तिविपरिणाम इति सप्तमी द्वितीयार्थे द्रष्टव्या / इति गाथार्थः / विशे० / नं। अथैतदेव अवग्रहादिस्वरूपं भाष्यकारो विवृण्वन्नाहसामण्णत्थावग्गह-णमुग्गहो भेयमग्गहणमहेहा। तस्सावगमोवाओ, अविचुई धारणा तस्स / / 180 / / अन्तर्भूाविशेषस्य केनाऽपि रूपेणाराशनिर्देश्यस्य सामान्यार्थस्यैकसामयिक मवग्रहणं सामान्यार्थावग्रहणम्, अथ वासामान्येनसामान्यरूपेणार्थस्यावग्रहणं सामान्यार्थाऽवग्रहण-मवग्रहो वेदितव्यः। अथाऽनन्तरमीहा प्रवर्तते कथंभूतेऽयम् ? इत्याह-भेदमार्गणभेदा:-वस्तुनो धर्मास्तेषां मार्गणम्-अन्वेषणं विचारणं प्रायः काकनिलयनादय: स्थाणुधर्माः अत्र वीक्ष्यन्ते, न तु शिर:कण्डूयनादयः पुरुषधर्मा इत्येवं वस्तु धर्मविचारणमीहेत्यर्थः। तस्यैवेहया ईहितस्य वस्तुनस्तदनन्त-रमवगमनमवगम:- स्थाणुरेवायमित्यादिरूपो निश्चय: अवाय: अपायो वेति तस्यैव निश्चितस्य वस्तुनः अविच्युतिस्मृतिवासनारूपं धरणं धारणा सूत्रे अविच्युतेरुपलक्षत्वात्। इति गाथार्थः / अत्र चावग्रहादारभ्य परैः सह विप्रतिपत्तय: सन्ति इत्यव-ग्रहविषयां तां तावन्निराकर्तुमाहसामाण्णविसेसस्स वि, केई उग्गहणमुग्गह उति। जं मइरिदंतयंति च, तं नो बहुदोसभावाओ // 181 / / सामान्यं चासौ विशेषश्च सामान्यविशेष: तस्यापि न केवलं सामान्यार्थस्य इत्यपिशब्द: अवग्रहणम्-अवच्छेदन केचन व्याख्यातारः | अवग्रहं ब्रुवते, किं कारणम्? इत्याह- 'जं मइरिदंतयं तिचे ति यत् यस्मात्कारणात् अमुत: शब्दादिलक्षणसामान्यविशेषग्राहकावग्रहादनन्तरम् इदं तदिति चेति विमर्शलक्षणा मतिरनुधावति; ईहा प्रवर्तत इत्यर्थः, यदनन्तरं चेहादिप्रवृत्तिः सोऽवग्रह एव यथा व्यञ्जनावग्रहानन्तरभावी अव्यक्तानिर्देश्यसामान्यमात्रग्राही अवग्रहः, प्रवर्तते च शब्दादि- सामान्यविशेषग्राहकावग्रहानन्तरमीहादिः, तस्मादवग्रह एवायं, तथाहि- दूराच्छवादिसंबन्धिनि शब्दे सामान्यविशेषात्मकेरूपा-दिभ्यो भिन्ने गृहीते प्रवर्तते एवायं विमर्श:किमयं शाङ्कः, शाङ्गों, वा शब्द:? शाश्चेत् किं महिषीङ्गोद्भवो महिषशृङ्गजो वा ? महिषीशृङ्गसंभवश्चेत्, किं प्रसूतमहिषीशृङ्गसंभव:, अप्रसूत-महिषीशृङ्गसमुद्भूतो वा ? इत्यादि, यतश्चानन्तरमित्थं विमर्शेनेहा-प्रवृत्तिन भवति, अन्तप्राप्तेः क्षयोपशमाभावाद्वा, स पुनरपायः / तदेतत्परोक्तं दूषयितुमाह- "तं नो" इत्यादि, तदेतत्परोक्तं न ! कुत:? इत्याह-बहवश्व ते दोषाश्च तेषां भाव उपनिपातस्तस्मात्, एवं हि सर्वायुषाप्यपायप्रवृत्तिर्न स्यात्, यथोक्तविमर्शप्रवृ-त्तेरनुष्ठितत्वात्।नच पूर्वमनीहिते प्रथमोऽपिशब्दनिश्चयो युक्तः, यतश्च पूर्वमीहा प्रवर्तते नाऽसौ अवग्रहः किं त्वपाय एवेत्यादि सर्वं पुरस्ताद्वक्ष्यते। इति गाथार्थः / अन्ये त्वीहायां विप्रतिपद्यन्ते, तन्मतमुपन्यस्य दूषयन्नाहईहासंशयमेतं, कई न तयं तओ जमन्नाणं। मइनाणंऽसा चेहा, कहमन्नाणं तई जुत्तं? ||182 / / किमयं स्थाणुः: आहोश्वित्पुरुषः? इत्यनिश्चयात्मकं संशयमात्रं यदुत्पद्यते तदीहेति केचित् प्रतिपद्यन्ते तदेतन्न घटते। कुत:? इत्याहयद् -यस्मात्कारणात् 'तओ' त्तिअसौ संशय:- अज्ञानम् भवतु तहज्ञानमपि ईहेति चेदित्याह-'मईत्यादि' मतिज्ञानांशश्चमतिज्ञानभेदश्चे हा वर्तते / न च ज्ञानभेद- स्याज्ञानरूपता युज्यते, एतदेवाह- 'कहमि' त्यादि, कथम् केन प्रकारेण ज्ञानं युत्तं न कथंचिदित्यर्थः / केयमित्याह- 'तई' इति, असौ मतिज्ञानांशरूपा ईहा, संशयस्य दस्त्वप्रतिपत्तिरूपत्वेनाऽज्ञानात्मकत्वादीहायास्तु ज्ञानभेदत्वेन ज्ञानस्वभावत्वातः ज्ञानाऽज्ञानयोश्च परस्परपरिहारेण स्थितत्वान्नाऽज्ञानरूपस्य संशयस्यज्ञानांशात्मकेहारूपत्वं युक्तमिति भावः / इति गाथार्थ:। आह-ननु संशयेहयो: किं कश्चिद्विशेषोऽस्ति येनेहारूपत्वं संशयस्य निषिध्यते ? इत्याशङ्कय तयो: स्वरूपभेदमुपदर्शयन्नाहजमणेगत्थालंबण-मपज्जुदासपरिकुंठियं चित्तं / सेय इव सवपयओ, तं संसयरूवमन्नाणं / / 183 / / तं चिय सयत्थहेऊ- ववत्तिवावारतप्परममोहं। भूयाऽभूयविसेसा-याणबायाभिमुहमीहा।।१८४ / / यचित्तं- यन्मनः अनेकार्थालम्बनम् -अनेकार्थ प्रतिभासान्दोलितम् अत एव पर्युदसनं पर्युदासो-निषेधो न तथा अपयुदासोऽनिषेधस्ते न, तथा उपलक्षणत्वादविधिना च