SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आभिणिबोहियणाण 280 अभिधानराजेन्द्रः भाग२ आभिणिबोहियणाण तिज्ञानं तत् श्रुतनिश्रितम् - अवग्रहादि, यत्पुन: सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथाऽवस्थित वस्तुसंस्पर्शि मतिज्ञानम् उपजायते तत् अश्रुतनिश्रितम्- औत्पसिक्यादि, तथा चाह भाष्यकृत"पुव्वं सुयपरिकम्मिय-गइस्स जं संपयं सुयाईयं। तंनिस्सियमियरं पुण, अणिस्सियं मइचउक्कं त।।१६९।। (अस्या विशेषायवश्यकभाष्यगाथाया: विस्तरतोव्याख्या'णाण' शब्दे चतुर्थभागे 1956 पृष्ठे करिष्यते) आह- औत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत् कोऽनयो-विशेष:, / उच्यते-अवग्रहादिरूपमेव परं शास्त्रानुसारमन्तरेणोत्प-द्यते इति भेदेनोपन्यस्तम्। तत्राल्पतरवक्तव्यत्वात् प्रथममश्रुतनिश्चितमतिज्ञानप्रतिपादनायाह से किं तं अस्सुयनिस्सियं ? अस्सुयनिस्सियं चउव्विहं पण्णत्तं, तं जहा"उप्पत्तिया, वेणइया, कमइया, पारिणामिया। बुद्धि चउव्विहा वुत्ता, पंचमा नोवलब्भइ॥१९॥" (सूत्र०२६) 'से किंत' इत्यादि अथ किंतदश्रुतनिश्रितं ? सूरिराह- अश्रुतनिश्रितं चतुर्विध प्रज्ञप्तम्, तद्यथा- 'उप्पत्तिया गाहा' / उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं कारणं यस्या: सा औत्पत्तिकी, "तदस्य प्रयोजनम्"। इतीकण, ननु सर्वस्या: बुद्धेः कारणं क्षयोपशम: तत्कथम् ? उच्यते- उत्पत्तिरेव प्रयोजनमस्या इति ? उच्यते-क्षयोपशम: सर्वबुद्धिसाधारणः, ततो नाऽसौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्ध्यन्तराद् भेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कत्तुमारब्धं, तत्र व्यपदेशा-न्तरनिमित्तमत्र न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्षानिर्दिष्टा। तथा विनयोगुरुशुश्रूषा सा प्रयोजनमस्या इति वैनयिकी, तथा अनाचार्यकं कर्म; साचार्यकं शिल्पम / अथवाकादाचित्कं शिल्पं, सर्वकालिकं कर्म / कर्मणो जाता कर्मजा तथा परिसमन्तानमनं परिणाम:- सुदीर्घकाल-पूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेष: स प्रयोजनमस्याः सा पारिणामिकी। बुध्यतेऽनयेति बुद्धिः सा चतुर्विधा उक्ता तीर्थकरगणधरैः किमिति ? यस्मात्पञ्चमी केवलिनाऽपि नोपलभ्यते, सर्वस्याप्यश्रुतनिश्रितमतिविशेषस्यौत्पत्तिक्यादि-बुद्धिचतुष्टय एवान्तर्भावात्।नं। भ०। (औत्पत्तिकीबुद्धिविषय: सदृष्टान्त:'उप्पत्तिया' शब्देऽस्मिन्नेव भागे वक्ष्यते) (वैनयिक्या: बुद्धः सर्वं रहस्यं 'वेणइया' शब्दे षष्ठे भागे स्पष्ट भविष्यति) (कर्मजबुद्धेः सर्वो विषय: 'कम्मया' शब्दे तृतीयभागे कथयिष्यते) 'पारिणामिक्या: बुद्धेः सदृष्टान्तो विषयः 5 भागे वक्ष्यते) तथा चमइसुयनाणविसेसो, भणिओ तल्लक्खणाइभेएणं। पुष्वं आमिणिबोहिय-मुद्दिष्टं तं परूविस्सं ||176 / / मतिश्रुतज्ञानयोर्विशेषो भेदो भणित: केनेत्याह तयोर्लक्षणा-दिभिर्भेद: अथ वा-स चासौ अनन्तरोक्तो लक्षणादिभेदश्च तल्लक्षणादिभेद: तेन। सांप्रतं त्वाभिनिबोधिकज्ञानं प्ररूपयिष्ये-विस्तरतो व्याख्यास्यामि / शेषश्रुतादिपरिहारेण किमित्या-भिनिबोधिकं प्रथमं प्ररूप्यते ? इत्याहयस्माज्ज्ञानपञ्चके पूर्वमादौ तदुपदिष्टमुपन्यस्तं, तस्मात् “यथोद्देशं निर्देशः" इति कृत्वा तत् प्रथमं व्याख्यास्यामि। इति गाथार्थः / तत्वभेदपर्यायैश्च व्याख्या, तत्र तत्त्वं लक्षणं तच्च प्रागेवोक्तम् / अथ तद्भेदनिरूपणार्थमाहइंदियमणोनिमित्तं, तं सुयनिस्सियमहेयरं च पुणो। तत्थेक्किक्कं च उभे- यमुग्गहोप्पत्तियाईयं // 177 / / इन्द्रियमनोनिमित्तं यत्प्रागुक्तमाभिनिदोधिकज्ञानं, तत् द्विभेदं भवति श्रुतनिश्रितम्, इतरच-अश्रुतनिश्रितम्। अथ' शब्दो वाक्यालङ्कारार्थः / तत्र श्रुतं-संकेतकालभावी परोपदेशः श्रुतग- न्थश्च पूर्व तेन परिकर्मितकमतेर्व्यवहारकाले तदनपेक्षमेव यदुत्प- द्यते तत्श्रतुनिश्रितं, यत्तु श्रुतापरिकर्मितमते: सहजमुपजायतेत-दश्रुतनिश्रिमत्। तत्र तयो:श्रुतनिश्रिताऽश्रुतनिश्रितयोर्मध्ये एकैकं चतुर्विधं कथम् ? इत्याह यथासंख्यमग्रहादिकं, औत्पत्ति-क्यादिकं च- अवग्रहहापायधारणाभेदात् श्रुतनिश्रितं चतुर्विधम्, औत्पत्तिकी, वैनयिकी, कर्मजा, परिणामिकी, लक्षणबुद्धिभेदात्तु अश्रुतनिश्रितं चतुर्भेदमित्यर्थः / यद्यप्योत्पत्तिक्यादिबुद्धिचतुष्टयेऽप्यवग्रहादयो विद्यन्ते तथाऽपि "पुव्वमदिट्ठमसुयमेवइयक्खणविसुद्धगहियत्था'' इत्यादि-वक्ष्यमाणवचनात्परोपदेशाधनपेक्षत्वात्ते श्रुतनिश्रितान भवन्ति शेषास्त्ववग्रहादय: पूर्व श्रुतपरिकर्मणान्तरेण न संभवन्ति, ईहा-दिगताभिलापस्य परोपदेशाद्यन्त- रेणाप्युपपत्तेः; इति ते श्रुतनिश्रिता उच्यन्ते / औत्पत्तिक्यादिषु त्वीहाद्यभिलापस्य तथाविधकर्मक्षयोपश-मजत्वात् परोपदेशाशद्यन्तरेणाप्युपपत्तेरिति भावः इति गाथार्थः / (3) तत्र श्रुतनिश्रितानवग्रहादींस्तावनियुक्तिकारः प्राहउग्गहो ईह अवाओ, य धारणा एव होति चत्तारि। आमिणिबोहियनाण-स्स भेयवत्थू समासेणं / / 178 / / रूपरसादिभेदैरनिद्देश्यस्याव्यक्तस्वरूपस्य सामान्यार्थस्याव- ग्रहणं परिच्छेदनमवग्रहः / तेनावगृहीतस्यार्थस्य भेदविचारणं वक्ष्यमाणगत्या विशेषान्वेषणमीहा, तया ईहितस्यैवार्थस्य व्यवसायस्तद्विशेषनिश्चयोऽपाय: चशब्दोऽवग्रहादीनां पृथक् पृथक् स्वातन्त्र्यप्रदर्शनार्थ: तेनैतदुक्तं भवति-अग्रहादेरीहादयः पर्याया न भवन्ति, पृथक्मेदवाचकत्वादिति। निश्चितस्यैव वस्तुनोऽविच्युत्त्यादिरूपेण धारणं धारणा / एवकार: क्रमद्योतनपर: अवग्रहादीनामुपन्यासस्यायमेव क्रमो नान्यः अवगृहीतस्यैवेहनाद् ईहितस्यैव निश्चयात् निश्चितस्यैव धारणादिति। एवमेतान्याभिनिबोधिकज्ञानस्य-४ चत्वा-र्येवभेदवस्तूनि सभासेनसंक्षेपेण भवन्ति, विस्तरतस्त्वष्टा-विंशत्यादिभेदभिन्नमिदं वक्ष्यत इतिभावः। तत्र भिद्यन्तेपरस्परमितिभेदा: विशेषास्तएव वस्तूनि भेदवस्तूनीति समासः / इति गाथार्थः।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy