SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 268 अभिधानराजेन्द्रः भाग 2 आधाकम्म संप्रति बीजानि, उदकं चाऽधिकृत्याहबीयाणि य वावेज्जा, अगडं वखणेज्ज संजयऽहाए। तेसिं परिभोगकाले, समणाण तहिं कहं भणियं / / 58 / / बीजानि शाल्यादिसत्कानि वपेत, अवटं च खानयेत् संयतार्थ, तेषां परिभोगकाले तत्र श्रमणानां कथं भणितं कल्प्यम् अकल्प्यं वा। सूरिराहदुच्छडाणियं च उदयं, जइ हेउं निद्वियं च अत्तहा। तं कप्पइ अत्तऽट्ठा, कयं तु जइ निट्ठियमकप्पं / / 19 / / अत्रापि प्रागिव भङ्गचतुष्टयम्, तत्राऽऽद्यो भङ्गः एकान्ते- नाऽशुद्धः / चरमस्त्वेकान्तशुद्धः / द्वितीयभङ्गमधिकृत्याह-यति- हेतोस्तण्डुला द्विच्छटीकृता उदकं वासंयतहेतोरवटादानीतम् उभयमपि च निष्ठितम्अचित्तीकृतमातत्यार्थं तत्कल्पते / तृतीयभङ्गमधिकृत्याह- कृतं द्विच्छटीकृतास्तण्डुला अवटा- दानीतं पानीयं निष्ठितं तु यतिनिमित्तं तदकल्प्यमिति। पुनरपि पर आहसमणाण संजतीण व, दाहामि जो किणेज्ज अट्ठाए। गावीमहिसीमादी, समणाण तर्हि कहं भणियं 160 / / श्रमणानां संयतीनां दुग्धादि दास्यामीति बुद्ध्या तेषामर्थाय गोमहिष्यादिकं य: क्रीणीयात्तत्र श्रमणानां कथं कल्प्यम् अकल्प्यं वा भणितम्। सूरिराहसंजयउंदूढा,न कप्पए कप्पए य सयमट्ठा। पामिचिय कीया वा, जइ वि समणट्ठ या घेणू 61 // यद्यपि च धेनु:-गोरूपा महिषीरूपा वा श्रमणार्थमिय- मित्यात्मीयां धेनुं दत्त्वा परकीयायाचिता क्रीता वा यदि संयतहेतोर्दुग्धा ततोन कल्पते। अथ स्वयमात्मनोऽर्थाय दुग्धा तर्हि कल्पते। पुनरन्यथा पर: प्रश्नयतिचेझ्यदव्वं विभया, करेज्ज कोई नरो सयट्ठाए। समणं वा सोवहियं, विक्केज्जा संजयट्ठाए / / 2 / / चैत्यद्रव्यं चौरा: समुदायेनापहृत्य तन्मध्ये कश्चिन्नर आत्मीयेन भागेन स्वयम्-आत्मनोऽर्थाय मोदकादि कुर्यात्, कृत्वा च संयतेभ्यो दद्यात्, / यो वा संयतार्थाय श्रमणं सोपधिकं विक्रीणीयात्। विक्रीय च तत्प्रासुकं वस्त्रादि संयतेभ्यो दद्यात्। एयारिसम्मि दवे, समणाणं किं नु कप्पई घेत्तुं। चेइयदव्वेण कयं, मुल्लेण वज्ज सुविहियाणं / / 63 / / तेण पडिच्छा लोए, वि गरहिया उत्तरे किमंग ! पुण। चेइय जइ पडिणीए, जो गेण्हइ सो विहु तहेव ||64 / / एतादृशेन द्रव्येण गाथायां सप्तमी तृतीयार्थे, यत् आत्मार्थ कृतं तत् श्रमणानां किं नु ग्रहीतुं कल्पते / सूरिराह-यचैत्यद्रव्येण यच वा सुविहितानां मूल्येनात्मार्थ क्रीतं तद्दीयमानं न कल्पते / किं कारणमिति चेदुच्यते- स्तेनानीतस्य प्रतीच्छा-प्रतिग्रहणं लोकेऽपि गर्हिता किमङ्ग! पुनरुत्तरे, तत्र सुतरां गर्हिता यत:-चैत्ययतिप्रत्यनीकेचैत्ययतिप्रत्यनीकस्य हस्तात् यो गृह्णाति सोऽपि 'हू' निश्चितं तथैव चैत्ययतिप्रत्यनीक एव। कस्मादिति आहहरियाहडिया सा खलु, ससत्तितो उग्गए हरा गुरुगा। एवं तु कया भत्ती, न विहाणी जा विणा तेण / / 65 / / साखलु स्तेनानीतप्रतीच्छा हताहतिका भण्यतेस्तेनैर्हृतस्य स्तेनहरणं हताहतिका यत एवं तस्मात् स्वशक्तितश्चैत्यद्रव्यं सोपधिकं वा श्रमणमुद्गमयेत्-उत्पादयेत्, इतरथा प्रायश्चित्तं चत्वारो गुरुका: / एवं च सति कृता भक्तिर्भवति। प्रवचनस्य या च तेन विना हानि:, साऽपि न भवति। पुन: पृच्छतिजा तित्थयराण कया, वंदणआवरिसणादि पाहुडिया। भत्तीहिँ सुरवरेहिं, समणाण तहिं कहं भणियं / / 66 / / या तीर्थकराणां सुरवरैर्भक्तया वन्दनाऽऽवर्षणादिका आदि शब्दात्पुष्पवृष्टिप्रकारत्रयादिकरणपरिग्रहः प्राभृतिका कृता तत्र श्रमणानां कथं भणितं किं तत्र स्थातुं कल्पते न वा। अत्र सूरिराहजइ समणाण न कप्पइ, एवं एगागिणो जिणवरिंदा। गणहरमादी समणा, अकप्पिए न विय चिट्ठति // 17 // तस्यां प्राभृतिकायां श्रमणानामवस्थांतुकल्पते भगवत: प्रवचनातीतत्वात् / अन्यच यदि श्रमणानां न कल्पते तत एकाकिनो जिनवरेन्द्रा भवेयुः / यतो गणधरादयः श्रमणा: अकल्पिकेनैव तिष्ठन्तिा व्य०९ उ.।। आधाकर्मोपभोगे प्रायश्चित्तम्जे भिक्खू आहाकम्मं, मुंजइ, मुंजतं वा साइज्जइ / / 6 / / आधाकडं आहाकम्मतं जो भुजति तस्स चउगुरुं आणादिया य दोसा। नि चू.१० ऊ। आधाकर्मप्रायश्चित्तम् "गुरुगा आह य चरम." ||1414 / / 'आह य' आधाकर्मगलत:प्रायश्चित्तं चत्वारोगुरुका: / बृ.१ ऊ.१ प्रक। ज्ञानवत आधाकर्मादिदोषविचार: "णाण' शब्दे चतुर्थ-भागे 1980 पृष्ठे करिष्यते) (गोचरचा गतेनाधाकर्मिकमशनादि न ग्राह्यमिति 'गोयरचरिया' शब्दे तृतीयभागे 991 पृष्ठे वक्ष्यते / ) यदाधायनिमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकर्मेति / कर्मभेदे, आचा०१ श्रु०२ अ०१ऊ। (तच विस्तरत: 'कम्म' शब्दे तृतीयभागे 245 पृष्ठे,६२ सूत्रव्याख्याने वक्ष्यते।) आधानमाधाकरणमात्मनेति गम्यते तदुपलक्षितानि कर्माण्याधाकर्माणि / स्वकृतकर्मसु उत्ता सुया मे णरए ठाणा, (उत्त.) पगाढा जत्थ वेयणा // 12 //
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy