________________ आघाकम्म 267 अभिधानराजेन्द्रः भाग 2 आधाकम्म यणं जीवाणं सरीराइं आहारमाहारेइ ते वि जीवे ना ऽवकंखइ, से तेणटेणं गोयमा ! एवं वुचइ आहाकम्मं णं भुंजमाणे आउयवज्जाओ सत्त कम्मपगडीओ. जाव अणु परियट्टइ। (सूत्र 78+) 'आहाकम्ममि' त्यादि आधाय साधुप्रणिधानेन यत्स-चेतनमचेतनं क्रियते, अचेतनं वा पच्यते, चीयते वा गृहादिकं, वयते वा वस्त्रादिकं, तदाधाकर्म, 'किं बंधइत्ति-प्रकृति-बन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किंपकरेइ त्ति-स्थितिबन्धापेक्षया बद्धावस्थापेक्षयावा, 'किं चिणाइ' त्ति-अनुभागबन्धापेक्षया निधत्तावस्थापेक्षया वा 'किं उवचिणाइ'त्तिप्रदेशबन्धापेक्षया निकाचनापेक्षया वेति 'आयाए' ति-आत्मना श्रुतधर्म-चारित्रधर्म वा, 'पुढविकायं नावकंखइ' त्ति-नापेक्षते; नानुकम्पत इत्यर्थः / भ०७ श.९ अ. / 'आयाए' त्ति आत्मना धर्मश्रुतधर्म चारित्रधर्म चेति 'आयाए धम्म अइक्कममाणे पुढविकायं नावकंखइ, आउकायं नावकंखइ, तेउकायं नावकंखइ, वाउकायं नावकंखइ, वणस्सइकायं नावकंखइ, तसकायं नावकंखइ, जेसिं पिय णं जीवाणं सरीर-याइं आहारमाहारेइ ते वि नावकंखइ स एएणऽटेणं गोयमा ! एवं वुच्चइ आहाकम्मं जमाणे जाव परियट्टइ," तथा--"कह णं भंते! जीवा अप्पाउयत्ताए कम्मं पकरंति? गोयमा ! पाणे अइवाइत्ता भवइ, मुंस वइत्ता तहारूवं समणं वा माहणं वा अफा-सुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिला-हित्ता भवइ एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरंति''त्ति, द्वितीयपदे पुनर्गाढग्लानादिकार्यासंस्तरणादिरूपे गच्छमध्यव्य-वस्थितस्य गुर्वाज्ञावर्तिनोऽशठभावस्य साधोः पञ्चकपरि-हाणिक्रमेण सर्वथा प्रयतमानस्यातुरदृष्टान्तेनाधाकर्माद्यपि निर्दोषम्, तथा चारऽऽगम:-"संथरणम्मि असुद्धं, दुण्ह वि गिण्हत दिंतयाण हियं / आउरदिटुंतेणं, तं चेव हियं असंथरणे // 1 // " तथा- "जा जयमाणस्स भवेविराहणासुत्तविहिसमग्गस्स।सा होइ निज्जरफला, अज्भप्पविसोहिजुत्तस्स॥१॥"त्ति ! ध. र.३ अधि०७ लक्ष। चारित्रमधिकृत्याहारविषयाऽनाचाराऽऽ चारौ प्रतिपादयितुकाम आहआहाकम्माणि मुंजंति, अण्णमण्णे सकम्मुणा। उवलित्तेति जाणिज्जा, ऽणुवलित्तेति वा पुणो // 6 // किमित्येवं स्याद्वाद: प्रतिपाद्यत इत्याहएएहिं दोहिं ठाणेहि, ववहारोण विज्जई। एएहि दोहि ठाणेहि, अणायारं तु जाणए / / 9 / / सूत्र. 2 श्रु० 5 अ / (अनयो 8-9 थियोर्व्याख्या 'अणायार' शब्दे प्रथमभागे 318 पृष्ठे गता) (वसति विषय: आधाकर्मदोष: 'वसहि' शब्दे षष्ठे भागे वक्ष्यते 165 निशीथचूर्णिगाथया) आधाकर्मदोषदुष्टत्वात् श्रमणार्थं कृता वल्लिवृक्षादयो न कल्पन्ते-- वल्ली वा रुक्खो वा, कोई रोएज्ज संजयऽट्ठाए। तेसिं परिभोगकाले, समणाण तहिं कहं भणियं / / 13 / / वल्लीर्वा वृक्षान् वा कश्चित्संयतानामर्थाय रोपयेत् तत्र तेषां फलानां परिभोगकाले श्रमणानां कथं भणितम्: किं कल्पते किं वा न कल्पत इत्यर्थः। अत्र सूरिराहतस्स कडनिट्ठियादी, चउरो भंगे विभावइत्ताण। विसमेसु जाण विसम, नियमा उसमो समग्गहणे / / 14 / / तस्य कृतं तत् तस्य निष्ठितमिति प्रथम: तस्य कृतमन्यस्य निष्ठितमिति द्वितीयः / अन्यस्य कृतं तस्य निष्ठितमिति तृतीयः / अन्यस्य कृतमन्यस्य निष्ठितमिति चतुर्थः। तत्र-तस्य संयतस्य निमित्तं कृतम्-आरोपितं वृक्षादि तथा तस्यैव संयतस्य निमित्तं निष्ठितं-निष्ठां नीतमचित्तीकृतमित्यर्थः / एष प्रथमभङ्गार्थः / एवं शेषाणामपि भङ्गानामर्थ परिभावनीयः, तत्र तस्य कृतं तस्य निष्ठितमित्यादीन् चतुरो भङ्गान् विभाव्य विषमयोभङ्गयोPणतो: विषममसंयम जानीयात्तन्निमित्तं निष्ठानयनात् समयो-द्धितीयचतुर्थयोभङ्गयोहिणे सम-संयमं जानीयात्। अन्यनिमित्तं निष्ठितत्वात्। पर आह-ननु श्रमणार्थं स आरोपितस्तत: कथं द्वितीये भड्ने कल्पते। सूरिराहकामं सो समणाऽहा, वुत्तो तह वि य न होइ सो कम्मं / जं कम्मलक्खणं खलु, इह इं वुत्तं न पस्सामि / / 55 / / कामम् -अनुमन्यामहे सवृक्ष: श्रमणार्थमारोपित: तथाऽप्यसौ कर्म न भवति / यतो यत्कर्मलक्षणं खलु तीर्थकरगणघरैरुक्तं तदिह 'ई' पादपूरणे न पश्यामि। __ किं तत्कर्मलक्षणमत आहसचित्तभावविकली-कयम्मिदव्वम्मिमग्गणा होई। का मग्गणा उ दवे, सचेयणे फासुभोईणं // 16 // यत्सचित्तभावविकलीकृतमचित्तीकृतम् द्रव्यं तत्र प्रासुकभो-जिनां मार्गणा भवति / तत आधाकर्मिक चिन्ताऽपि तत्रैव युक्ता; नान्यत्र / सचेतने तु द्रव्ये का मार्गणा ? नैव काचित् सचित्ततया तस्य ग्रहणाऽसंभवात्ततो न तदपेक्षया आधा-कर्मिकत्वमिति / तदेवमारोपितरूपकृतनिष्ठितविषये कल्प्याऽकल्प्यविधिरुक्तः / ___संप्रति छिन्नरूपकृतनिष्ठितविषय तमाहसंजयहेतुं छिन्नं, अत्ताडोवक्खडं तु तं कप्पे। अत्तऽट्ठा छिन्नं पिहु, समणऽहा निहियमकप्पं / / 17 / / अत्राऽपि भङ्गचतुष्टयम्-तस्य कृतम् तस्य निष्ठितम् 1, तस्थ कृतमन्यस्य निष्ठितम् 2, अन्यस्य कृतं तस्य निष्ठितम् 3, अन्यस्य कृतमन्यस्य निष्ठितम् 4 / अत्र कृतं छिन्नं निष्ठितं- पाकादि-करणतो निष्ठां नीतम् / तत्र प्रथम भङ्गे सर्वथा न कल्पते, चतुर्थस्तु भङ्ग एकान्तशुद्धः, द्वितीयभङ्गमधिकृत्य पूर्वार्द्धमाह- संयतहतौ:संयतनिमित्तं छिन्नमात्मार्थमुपस्कृतं निष्ठां नीतं तत्कल्पते / तृतीयभङ्गमधिकृत्याह-आत्मार्थं छिन्नमपि श्रम-णार्थनिष्ठितमकल्प्यम्।