________________ आधाकम्म 266 अभिधानराजेन्द्रः भाग२ आधाकम्म बध्यन्ते, साधुवेषविडम्बकसाधुवत् शुद्धं गवेषयन्त आधाकर्मापि भुजाना भगवदाज्ञाराधनात् न बध्यन्ते 'प्रियंकरा' ऽभिधक्षपकसाधुवदिति। ___आधाकर्मभोजिनमेव भूयोऽपि निन्दतिआहाकम्मं मुंजइ, न पडिक्कमए य तस्म ठाणस्स। एमेव अडइ बोडो, लुक्कविलुक्को जह कचोडो / / 217 / / य आधाकर्म भुत्तेनच तस्मात्स्थानाद्-आधाकर्म-परिभोगरूपात्प्रतिक्रामति प्रायश्चित्तग्रहणेन निवर्त्तते। स बोड:- मुण्डो जिनाऽऽज्ञाभङ्गे निष्फलं तस्य शिरोलुञ्जनादीति 'बोड' इत्येवमधिक्षिपति / एवमेव निष्फलमटति- जगति परि-भ्रमति, अधिक्षेपसूचकमेव दृष्टान्तमाह'लुक्कविलुक्को जह कवोडो' लुश्चितविलुञ्चितो यथा कपोत:पक्षिविशेषः, यथा तस्य लुञ्चनम् अटनं च न धर्माय; तथा साधोरप्याधाकर्मभोजिन इत्यर्थः, तत्र सामान्यतो लुञ्चनं विच्छित्त्या विशबरं वा लुञ्चनं विलुञ्चनम्। पिं। आधाकर्मपरिभोगे दोषमाहएगया देवलोएसु, नरएसु वि एगया। एगया आसुरं काया, आहाकम्मेहिँ गच्छइ / / 3 / / आधानमः आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्या-धाकर्माणि तैः किमुक्तं भवति-स्वयं विहितैरेव सरागसंयम- माहारं भासुरभावनादिभिरेव नारकासुरगतिहेतुभिः क्रियाविशेषैर्यथाकर्मभिर्वा तत्तद्गत्यनुरूपचेष्टितैर्गच्छति यातीति सूत्रार्थः / उत्त. ३अ।"आहाकम्म भुंजमाणे सवले४' (सूत्र-२१ सम.) आधाकर्मआध्या-साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिकं वयते वा वस्त्रादिकं तदाधाकर्मभुजान: शवलः / दशा०३ अ.1 आधाकर्मपरिभोगे दोषस्सदृष्टान्तो यथाजं किंचि उ पूइकुंडं, सङ्घीमागंतुमीहियं / साहस्संतरिय मुंजे, दुपकखं चेव सेवइ / / 1 / / यत् किञ्चिदिति-आहारजातं स्तोकमपि, आस्तां तावत्प्रभूतं, तदपि पूतिकृतम् आधाकर्मादिसिक्थेनाप्युपसृष्टम् आस्तांतावदाधाकर्म, तदपि नस्वयं कृतम्, आपतु श्रद्धावता अन्येन भक्तिमताऽपरानागन्तुकानुद्दिश्य ईहितंचेष्टितं निष्पादितं, तच्च सहस्रान्तरितमपि यो मुञ्जीतअभ्यवहरेदसौ द्विपक्षं- गृहस्थपक्षं प्रव्रजितपक्षं वा सेवते, एतदुक्तं भवति एवंभूतमपि परकृतम-परागन्तुकमत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुजानस्य द्विपक्षसेवनमापद्यते, किं पुन: य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुजते; ते च सुतरां द्विपक्ष-सेविनो भवन्तीत्यर्थ: / यदि वा-द्विपक्षमिति-ईर्यापथः, सांपरा-यिक वा। अथ वा-पूर्वबद्धा निकाचिताद्यवस्था: कर्मप्रकृती-नयत्यपूवाश्चादत्ते (सूत्र.) ततश्चैवं शाक्यादयः पर-तीर्थका: स्वयूथ्या वा आधाकर्म भुञ्जाना द्विपक्षमेव सेवन्त इति सूत्रार्थः / इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाका-विर्भावनाय श्लोकदयेन दृष्टान्तमाहतमेव अवियाणंता, विसमंसि अकोविया। मच्छा वेसालिया चेव, उदगस्सऽमियागमे // 2 // उदगस्स पभावेणं, सुक्कं सिंग्धं तर्मिति उ। ढंकेहि य कंकेहि य, आमिसत्थेहि ते दुही // 3 // तमेव-आधाकर्मोपभोगदोषमजानाना विषम: अष्टप्रकाकर्म-बन्धो भवकोटिभिरपि दुर्मोक्षश्चतुर्गतिसंसारो वा तस्मिन्न- कोविदाः कथमेष कर्मबन्धो भवति कथं वा न भवति ? केन चोपायेनायं संसारार्णवस्तीर्यत इत्यत्रा कुशलाः तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति / अत्र दृष्टान्तमाह-यथा मत्स्या: पृथुरोमाणो विशाल: समुद्रस्तत्र भव / वैशालिकाः; विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः; विशाला एव वैशालिका:- बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे समुद्रवेलाया (मागता:) सत्यां प्रबलमरुद्वेगो- दूतोत्तुङ्गकल्लोलमालापनुन्ना: सन्त उदकस्य प्रभावेण नदीमुखमागता पुनर्वेलापगमे तस्मिन्नुदके शुष्के वेगेनैवापगते बृहत्वाच्छरीरस्य तस्मिन्नेव धुनीमुखे विलग्ना अवसीदन्त आमिषगृध्नुभ.कद्देश्च पक्षिविशेषैरन्यैश्च मांसवसाथिभिमत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दु:खसमुद्धातमनुभवन्तोऽशरणाघातं - विनाशं यान्ति प्राप्नुवन्ति / तुरवधारणे, त्राणाऽभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः / एवं दृष्टान्तमुपदी दार्शन्तिकेयोजयितुमाहएवं तु समणा एगे, वट्टमाणसुहेसिणो। मच्छा वेसालिया चेव, घातमेस्संतिऽणंतसो // 4 // यथैते- अनन्तरोक्तमत्स्यास्तथा श्रमणा: श्राम्यन्तीति श्रमणा एके शाक्यपाशुपतादय: स्वयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखम्, आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवाऽऽसक्तचेतसोऽनालोचिताऽऽधाकर्मोपगभोगजनितातिकटुकदुःखौघानुभवना वैशालिकमत्स्या इव घातं वि (नाश) शाल-मेष्यन्ति-अनुभविष्यन्ति अनन्तोशोऽरहट्टघटीन्यायेन भूयो भूय: संसारोदन्वति निमज्जोन्मज्जनं कुर्वाणा न ते संसाराम्भोधे: पारेगामिनो भविष्यन्तीत्यर्थः। सूत्र०१ श्रु.१ अ०३ऊ। (12) आधाकर्मपरिभोगे कर्मबन्धःअहाकम्मंणं मुंजमाणे समणे निग्गथे किं बंधइ, किं पकरेइ, किं चिणाइ, किं उपचिणाइ? गोयमा! आहाकम्भणं भु-जमाणे आउयवज्जाओ सत्तकम्मपगडीओ सिढिलबंधण-बद्धाओ घणियबंधणबद्धाओपकरेइ जाव अणुपरियट्टइ। सेकेणऽटेणं.जाव आहाकम्मंणं मुंजमाणे. जाव अणुपरियष्टह? गोयमा! आहाकम्म णं मुंजमाणे आयाए धम्मंअइक्कमइ, आयाए धम्म अइक्कममाणे पुढविकायं णावकंखइजाव तसकायं णावकंखइ, जेसि पि