________________ आधाकम्म 265 अमिधानराजेन्द्रः भाग 2 आधाकम्म त्सयिष्यामि, ततो यूयं भणत किं दिने दिने पायसमुपस्क्रियते / एव च बालकेषु शिक्षितेषु तस्मिन्नेव प्रस्तावे स क्षपको भिक्षामटन् कथमपि तस्या एव गृहे प्रथमतोजगाम, तदा सा यशोमतिरन्त: समुल्लसत्परमभक्तिर्मा साधो: काऽपि शङ्का भूदिति बहिरादरम् अकुर्वती यथास्वभावमवतिष्ठते। बालकाश्च यथाशिक्षितं भणितुं प्रवृत्ताः, तथैवच तया निर्मर्सितास्तत: सरुषेवाऽनादरपरया क्षपकोऽपि तया वभणे यथा अमी मत्ता बालका: पायसमपि नैतेभ्योरोचते, तर्हि ततो यदि युष्मभ्यमपि रोचते गृह्णीत क्षरेयीं नोचेत् द्रजत इति / तत एवमुक्ते स क्षपकसाधुनि:शङ्को भूत्वा पायसं प्रतिगृहीतुमुद्यतः, साऽपि परमभक्तिमुद्वहन्ती परि-पूर्णभाजनभरणं पायसंघृतगुड़ादिकंच दत्तवती। साधुश्च मनसि नि:शङ्को भूत्वा पायसं गृहीत्वा भोजनाय वृक्षस्य कस्यचिदधस्ताद् गतवान्, गत्वा च यथाविधि ईर्यापथिकादि प्रतिक्रम्य स्वाध्यायं च कियन्तं कृत्वा चिन्तयामासअहो लब्धमुत्कृष्टं मया पायसद्रव्यं घृतगुडादि च, ततो यदि कोऽपि साधुरागत्य संविभागयति मां तर्हि भवामि संसारार्णवोत्तीणों यतो निरन्तरं ये स्वाध्यायनिषण्णचतसः प्रतिक्षणं परिभावयन्ति सकलमपि यथाऽवस्थितवस्तुजातम् अत एव च दुःखरूपात्संसाराद्विमुख-बुद्धयो मोक्षविधावेकताना यथाशक्ति गुर्वादिषु वैयावृत्त्योद्यता ये वा परोपदेशप्रवणा: स्वयं सम्यक् संयमानुष्ठनविधायिनश्च तेषां संविभागे कृते तद्गतं ज्ञानाद्युपष्टब्धं भवति ज्ञानाद्युपष्टम्भे च मम महान्लाभः, शरीरकं पुनरिदमसारं प्रायो निरुपयोगि च / ततो येन तेन वोपष्टब्धंसुखेन वहतीत्येवं भुजानोऽपि शरीर-मूरिहित: प्रवर्द्धमानविशुद्धाध्यवसायो भोजनानन्तरं केवल-ज्ञानमासादितवान, सूत्रं सुगमम् नवरम् 'खेल्लगमल्लगलिच्छा- रियाणि' त्ति- मल्लक-शरावं तदाकाराणि यानि खेल्लकानिवटादिपत्रकृतानि भाजनानिद्रोणा (दूता) नीत्यर्थः, तानि 'लिच्छीरियाणि' ढिम्भकयोग्यस्तोकस्तो-कपायसंप्रक्षेपणेन खरण्टितानीव खरण्टितानि कृतानि रुण्टणया इत्यवज्ञया हन्दीत्यामन्त्रणे भोः श्रमण ! यदि रोचते तर्हि गृहाण विशेष: तत: शरीरयापनाया धृतगुडयुतं पायसं गृहीत्वा एकान्ते अवक्रमणं, शेष सुगमम् / एवमन्येषामपि भावत: शुद्धं गवेषय-तामाधाकर्मण्यपि गृहीते भुक्ते वा न दोषः, भगवदाज्ञाराधनात्। तथा च भगवदाज्ञाराधनकृतमेदाऽदोषं भगवदाज्ञाखण्डन- कृतमेवच दोषं विभावयितुकाम: कथानकं रूपकचतुष्केणाऽऽहचंदोदयं च सूरो-दयं च रनो उदोन्नि उज्जाणा। तेसिं विवरीयगमणे, आणाकोवो तओ दंडो // 22 // सरोदयं गच्छमहं पभाए, चंदोदयं जंतुतणाऽऽइहारा / दुहारवी पचुरसन्ति काउं, रायाऽवि चंदोदयमेव गच्छे / / 213 / / पत्तलदुमसालगया, दच्छामु निवंगण त्ति दुचिता। उज्जाणपालएहिं, गहिया य हया य बद्धा य / / 214 / / सहस पइहा दिवा, इयरेहि निवंगण त्ति तो बद्धा। नितस्सय अवरण्हे, दंसणमुभओबह विसग्गा // 25 // चन्द्रानना नाम पुरी, तत्र चन्द्रावतंसो राजा, तस्य त्रिलोकरेखाप्रभृतयोऽन्तःपुरिका: राज्ञश्च द्वे उद्याने, तद्यथा-एकं पूर्वस्यां दिशि सूर्योदयाभिधानम्। द्वितीयं पश्चिमायां चन्द्रोदयाभिधानम्। तत्र चान्यदा प्राप्ते वसन्तमासे कस्मिंश्चिदिने राजा निजान्त; पुरक्रीडाकौतुकार्थी जनानां पटहं दापितवान् यथा भोः! शृणुत जनाः! प्रभाते राजा सूर्योदयोद्याने निजान्त: पुरिकाभिः सह स्वेच्छंविहरिष्यति ततो मातत्र कोऽपि यासीत् सर्वेऽपितृणकाष्ठाऽऽहारादयश्चन्द्रोदयं गच्छन्त्विति, एवं चपटहे दापिते तस्य सूर्योदयोद्यानस्य रक्षणाय पदातीन् निरूपितवान्, यथा न तत्र कस्याऽपि प्रवेशो दातव्य इति, राजा च निशि चिन्तयामास सूर्योदयमुद्यानं गच्छतामपि प्रभाते-सूर्यः प्रत्युरसं भवति, तत: प्रतिनिवर्तमानानापि मध्याहे, प्रत्युरसं च सूर्यो दु:खावहस्तस्माचन्द्रोदयं गमिष्यामीति, एवं च चिन्तयित्वा प्रातस्तथैव कृतवान्, इतश्च पटहश्रवणानन्तरं केऽपि दुर्वृत्ताश्चिन्तयामासुः यथा न कदाचिदपि वयं राजान्त:पुरिका दृष्टवन्त: / प्रातश्च राजा सूर्योदये सान्त:पुर: समागमिष्यति, अन्त:पुरिकाश्च यथेच्छ विहरिष्यन्ति / तत: पत्रबहुलतरुशाखासु लीना: केनाप्यलक्षिता वयं ता: परिभाक्याम:, एवं च चिन्तयित्वा ते तथैव कृतवन्तः, तत उद्यानरक्षकै कथमपि ते शाखास्वन्तींना दृष्टास्ततो गृहीता लकुडादिभिश्च हता रज्वादिभिश्च बद्धाः, ये चान्ये तृणका-ष्ठाऽऽहारादयो जनास्ते सर्वेऽपि चन्द्रोदयं गताः तैश्च सहसा प्रविष्टैरठो यथेच्छं राजान्त:पुरिका: क्रीडन्त्यो दृष्टाः, ततस्तेऽपि राजपुरुषैर्बद्धाः ततो नगराभिमुखमुद्यानानिर्गच्छतो राज्ञ उद्यानपालकैः पुरुषैयेऽपि बद्धा दर्शिताः, कथितश्च सर्वोऽपि यथावस्थितो वृत्तान्त:, तत्र ये आज्ञाभङ्गकारिणस्ते विनाशिता: इतरे मुक्ताः, सूत्रं सुगम, नवरं 'तओ दंडो' त्ति-दण्डो मारणम्, एतद्भावनार्थ रूपकत्रयम्। 'सूरोदयमि' त्यादि, तत्र'पचुरसं' प्रत्युरसम् उरस: संमुखं 'नितस्सय' त्ति- उद्यानापराह्ने निर्यतोराज्ञउभयेषां दर्शनंततो यथाक्रम वध-विसर्गों, एतेन यदुक्तम् -'अभोज्जे गमणाइ य' इत्यादिगाथायां 'दिटुंता तत्थिमा दोन्नि' त्ति-तद्व्याख्यातम्। सांप्रतं दान्तिकेयोजनामाहजह ते दंसणकंखी, अपूरिइच्छा विणासिया रना। दिट्टेऽवि यरे मुक्का , एमेव इहं समोयारो // 216 / / यथा ते दुर्वृत्ता दर्शनकाक्षिण: अपूरितेच्छा अपि आज्ञा-भङ्गकारिण इति राज्ञा विनाशिता:, इतरे च तृणकाष्ठाऽऽहारादयश्चन्द्रोदयोद्यानगता दृष्टेऽपि तैरन्त:पुरे आज्ञा-कारित्त्वात् मुक्ता: एवमेव इहापि आज्ञाकर्मविषये समवतारोयोजना कार्या, सा चैवम्-आधाकर्मभोजनपरिणामपरिणताः शुद्धमपि भुजाना आज्ञाभङ्गकारित्वात् कर्मणा