________________ आधाकम्म 264 अभिधानराजेन्द्रः भाग 2 आधाकम्म कर्मेति न पृच्छा। तदेवं यदा पृच्छा कर्त्तव्या यदा च न कर्त्तव्या तत्प्रतिपादितम्। संप्रति पृच्छायां कृतायां यदा तद् ग्राह्यं भवति यदा च न / तदेतत्प्रतिपादयतितुज्भऽट्ठाए कयमिण-मन्नोऽन्नमवेक्खए य सविलक्खं / वज्जति गाढरुट्ठा, का भे तत्ति त्ति वा गिण्हे / / 205 / / इह या दात्री ऋज्वी भवति सा पृष्टा सती यथावत् कथयति, यथा भगवन ! तवाऽर्थाय कृतमिदमशनादिकमिति, यत्तु भवति मायाविकुटुम्बं तन्मुखेनैवमाचष्टे- गृहार्थमेतत्कृतं; नतवा-ऽर्थायेति, परं ज्ञाता वयमिति सविलक्षणं सर्वाण्यपि मानुषाणि परस्परमवेक्ष्यन्ते कपोलोद्भेदमात्रं च / हसन्ति, ततो यदा तवाऽर्थायेदं कृतमशनादिकमिति जल्पति; यद्वासविलक्षं सल-ज्जमन्योऽन्यम् अवेक्षन्ते चशब्दादहसन्ति वा, तदा साधव-स्तद्देयमाधाकर्मेति परिज्ञाय वजयन्ति, यदा तु कस्यायेदं कृतमिति पृष्टा सती गाढं सत्यवृत्त्या रुष्टा भवति, यथा का'भे' भट्टारक! तव तृ (त) प्ति: इति तदा नैवाधाकर्मेति नि:शङ्ग गृहीत। संप्रति गहियमदोसंच" इत्यवयवं व्याचिख्यासुः परं प्रश्नयतिगूढायारा ण करेंति, आयरं पुच्छिया विन कहेंति। थोवंति व णो पुट्ठा, तं च असुद्धं कहं तत्थ / / 206 / / इह ये श्रावका: श्राविकाश्चाऽतीव भक्तिपरवशगा गूढाचाराश्च ते नाऽऽदरमतिशयेन कुर्वन्ति मा भूत्-न ग्रहीष्यतीति नापि पृष्टा सन्तो यथावत् कथयन्ति, यथा तवाऽर्थायेदं कृतमिति, अथवा-स्तोकमिति | कृत्वा ते साधुना न पृष्टाः अथ च तद् देयं वस्तु अशुद्धम् - आधाकर्मदोषदुष्टम्, अत: कथं तत्र साधो: शुद्धि-भविष्यति इति। एवं परेणोत्ते गुरुराहआहाकम्मपरिणओ, फासुयभोई विबंधओ होइ। सुद्धं गवेसमाणो, आहाकम्मे वि सो सुद्धो / / 207 / / इह प्रासु (शु) कग्रहणेन एषणीयमुच्यते; सामर्थ्यात्तथाहि-साधूनामय कल्पो-ग्लानादिप्रयोजनेऽपि प्रथमतस्तावदेष-णीयमेषितव्यम्, तदभावेऽनेषणीयमपि श्रावकादिना कारयित्वा श्रावकाभावे स्वयमपि कृत्वा भोक्तव्यं, नतु कदाचनापि प्रासुका-भावेऽप्रासुकमिति तत: कदाचिदप्यप्रासुकभोजनाऽसंभवे 'फासुयभोई वी' ति- वाक्यमनुपपद्यमानम् अर्थात् प्रासुकशब्द-मेषणीये वर्त्तयति ततोऽयमर्थ:प्रासुकभोज्यपि- एषणीय-भोज्यपि यद्याधाकर्मपरिणतस्तर्हि सोऽशुभकर्मणां बन्धको भवति, अशुभपरिणामस्यैव वस्तुस्थित्या बन्धकारण- त्वात्, शुद्धम्- उदगमादिदोषरहितं पुनर्गवषयन्नाधाकमण्यपि गृहीते मुत्ते च स शुद्धो वेदितव्यः / शुद्धपरिणामयुक्तत्त्वाद्। एतदेव कथानकाभ्यां भावयतिसंघुद्दिढं सोउं, एइ दुयं कोइ भाइए पत्तो। दिन्नं ति देहि मज्भं-ति गाउ साउंतओ लग्गो / / 208|| शतमुखं नाम पुरं, तत्र गुणचन्द्रः श्रेष्ठी, चन्द्रिका तस्य भार्या, श्रेष्ठी च जिनप्रवचनानुरक्तो हिमगिरिशिखरानुकारिजिन-मन्दिरं कारयित्वा तत्र युगादिजिनप्रतिमा प्रतिष्ठापितवान्, तत: सङ्घभोज्यं दापयितुमारब्धम्। इतश्च प्रत्यासन्ने कस्मिंश्चिद्ग्रामे कोऽपि साधुवेषविडम्बक: साधुर्वर्त्तते। तेन च जनपरंपरया शुश्रुवे / यथा शतमुखपुरे गुणचन्द्रः श्रेष्ठी सङ्घभोज्यमद्यददातीति / ततः स तद्ग्रहणाय सत्वरमाजगाम। सङ्घभत्तं च सर्वे दत्तं तेन च श्रेष्ठी याचितो यथा मह्यं देहि, श्रेष्ठिना च चन्द्रिका अभ्यधायि-देहि साधवेऽस्मै भक्तमिति / सा प्रत्युवाच-दत्तं सर्वे न किमपीदानीं वर्तते, तत: श्रेष्ठिना सा पुनरप्यमाणि-देहि निजरसवतीमध्यात्परिपूर्णमस्यायिति / तत: सा शाल्योदनमोदका-दिपरिपूर्णमदात्, साधुश्च सङ्घभक्तमिति बुझ्या परिग्रह्य स्वोपाश्रये भुक्तवान्। तत: सशुद्धमपि स भुजान आधा-कर्म-ग्रहणपरिणाम- वशादाधाकर्मपरिभोगजनितेन कर्मणा बद्धः / एवमन्योऽपि वेदितव्यः / सूत्रं सुगमं नवरम् 'देहि मज्भंति गाउ' त्ति-भार्यया दत्तमित्युत्ते श्रेष्ठी वभाण देहि मम मध्यात्- मदीय-भोजनमध्यात्। दत्ते च स्वादुमिष्टमिदं सङ्घभक्तमिति भुञ्जानो विचिन्तयति / ततो लग्न आधाकर्मपरिभोगजनितकर्मणा बद्धः / तदेवम्- 'आधाकम्मपरिणओ' इत्यादिकथानकेन भावितम् संप्रति 'सुद्धं गवेसमाणो' इत्यादि कथानकेन भावयतिमासियपारणगट्ठा, गमणं आसन्नगामगे खमए। सड्ढीपायसकरणं, कयाइ अज्जेज्जिही खमओ / / 20 / / खेल्लग-मल्लगलेच्छा-रियाणि डिंभगनिमच्छणंच रुटणया। हंदि समणत्ति पायस-घयगुलजुयजावणट्ठाए।।२१०।। एगंतमवक्कमणं, जइ साहू इज्ज होज्ज तिन्नोमि। तणुकोटुंमि अमुच्छा, भुत्तंमि य केवलं नाणं // 211 / / पोतनपुरं नाम नगरं, तत्र पञ्चभि: साधुशतैः परिवृता यथाऽऽगमं विहरन्तो रत्नाकरनामान: सूरय: समाययुः, तस्याश्च साधु-पञ्चशत्या मध्ये प्रियंकरो नाम क्षपकः, स च मासमासपर्यन्ते पारणकं विदधाति, ततो मासक्षपणपर्यन्ते मा कोऽपि मदीयं पारणकमवबुद्ध्याऽऽधाकर्मादिकं कार्षीदित्य-ज्ञात एव प्रत्यासन्ने ग्राम पारणार्थव्रजामीति चेतसि विचिन्त्य प्रत्यासन्ने क्वचिद्ग्रामे जगाम / तत्र च यशोमति मश्राविका, तथा च यस्य क्षपकस्य मासक्षपणकंपारणकदिनं च जनपरंपरया श्रुतं, ततस्तया तस्मिन् पारणकदिने कदाचिदद्य स क्षपकाऽत्र पारणककरणाय समागच्छेदिति बुद्ध्या, परमभक्तिवशतो विशिष्टशालितण्डुलैः पायसमपच्यत: घृतगुडादीनि च उपबृंहकद्रव्याणि प्रत्यास-न्नीकृतानि ततो मा साधुः पायसमुत्तमं द्रव्यमिति कृत आधा-कर्मशङ्का कार्षीदिति मातृस्थानतोवटादिपत्रैः कृतेषु शरावाकारेषुभाजनेषु डिम्भयोग्या: स्तोका स्तोका क्षैरेयी प्रक्षिप्ता भणिताच डिम्भा यथा रे बालका: / यदा क्षपकः / साधुरीदृशस्तादृशो वा समायाति तदा यूयं मणत- हे अम्ब! प्रसूताऽस्माकं क्षैरेयी परिवेषिता ततो न शक्नुमो भोक्तुम् एवं च उत्रेऽहं युष्मानिर्भ