SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 263 अभिधानराजेन्द्रः भाग 2 आधाकम्म भवति तदा अभोज्यो भवति, एवं निर्दोषतया भोज्योऽप्याहार आधाकर्मावयवसंस्पृष्टतया साधूनामभोज्यो वेदितव्यः / भोजनस्थितस्याऽकल्प्यतां भावयतिएमेव उजिमयंमि वि, आहाकम्ममि अकयए कप्पे। होइ अभोज्जं भाणे, जत्थ व सुद्धेऽवितं पडियं / / 196 / / यथा आधाकर्मावयवेन संस्पृष्टमभोज्यम् एवं, यस्मिन् भाजने तदाधाकर्म गृहीतं तस्मिन्नाधाकर्मण्युज्भितेऽपि अकृते- कल्पेवक्ष्यमाणप्रकारेण कल्पत्रयेणाप्रक्षालिते, यद्वायत्र भाजने पूर्वं शुद्धेऽपि भत्ते गृहीते आधाकर्म स्तोकमात्रं पतितं तस्मिन् भाजने पूर्वगृहीते शुद्धे आधाकर्मणि च सर्वात्मना त्यत्ते पश्चादकृतकल्पे- वक्ष्यमाणप्रकारेणाकृतकल्पत्रये यद् भूय: शुद्धमपि प्रक्षिप्यते तदभोज्यमवसेयं, न खलु लोकेऽपि यस्मिन् भाजने पुरीषं न्यपतत् तस्मिन्नशुचिपरित्यागानन्तरमप्रक्षालिते, यद्वा-यस्मिन् भाजने भक्तादिना पूर्णेऽपि तदुपरि पुरीषं निपतितं भवेत् तस्मिन पूर्वपरि गृहीतभक्तादिपुरीषपरित्यागानन्तरमप्रक्षालिते भूयः प्रक्षिप्त-मशनादिकं भोज्यं भवति, पुरीषस्थानीयं च संयमिनामाधाकर्म, ततस्तस्मिन् सर्वात्मना परित्येत्तेऽपि पश्चाददत्ते कल्पत्रये भाजने यत्प्रक्षिप्यते तदभोज्यमवसेयम्। संप्रति परिहरणं प्रतिपिपादयिषुरिदमाह-- वंतुचारसरिच्छं, कम्मं सोउमवि कोविओ भीओ। परिहरइ सावि य दुहा, विहिअविहीए य परिहरणा / / 197 / / वान्तसदृशम्-उच्चारसदृशं च आधाकर्म यतीन् प्रति प्रति-पाद्यमानं श्रुत्वा अपि: संभावने, संभाव्यते एतन्नियमत: कोविदःसंसारविमुखप्रज्ञतया पण्डितोऽतएव भीत:- आधाकर्म- भोगत: संसारो भवतीत्याधाकर्मणस्वतस्तदाधाकर्म परिहरति- न गृह्णाति, परिहरणं च द्विधाविधिना, अविधिना च ! सूत्र च परि-हरणशब्दस्य स्त्रीत्येन निर्देश: प्राकृत्वात्, "प्राकृते हि लिङ्ग व्यभिचारि"। तत्राऽविधिपरिहरणं विभणिषुः कथानकं गाथात्रयेणाह-- सालीओयणहत्थं, दलु भणई अकोविओ दिति। कत्तो चउत्ति साली, वणि जाणइ पुच्छतं गंतुं / / 198 / / गंतूण आवणं सो, वाणियगं पुच्छए कओ साली? | पञ्चंते मगहाए, गोब्बरगामो तहिं वयइ 199 / / कम्मांसकाएँ पह, मोत्तुं कंटाहि सावया अदिसिं। छायं पि वज्जयंतो, डज्मइ उण्हेण मुच्छाई / / 20 // शालिग्रामे ग्रामे ग्रामणीनामा वणिक् तस्य भार्याऽपि ग्रामणी:, अन्यदा च वणिजि विपर्णि गते भिक्षार्थमटन् अकोविदः कोऽपि साधुस्तद्गृह प्रविवेश, आनीतश्च तद्भार्यया ग्रामण्या शाल्योदनः साधुना चाऽऽधाकर्मदोषाऽऽशङ्कायनोदाय सा पप्रच्छे, यथा श्राविके ! कुतस्त्य एष शालि:? इति, सा प्रत्युवाच-नाहं जाने; वणिम्जानाति, ततो वणिजं विपणौ गत्वा पृच्छ इति, तत एवमुक्त: सन्स साधुस्तंशाल्योदनमपहाय वणिजं विपणौ गत्वा पृष्टवान्, वणिजाऽप्युत्तं मगधजनपदप्रत्यन्तवर्तिनो गौर्बर- ग्रामादागत: शालिरेष इति, ततः स तत्र गन्तुं प्रावर्तत, तत्रापि साधुनिमित्तं के नापि श्रावके णाऽयं पन्थाः कृतो भविष्यतीति आधाकर्मशङ्कया पन्थानं विमुच्योत्पथेन व्रजति, उत्पथेन व्रजन्नहिकण्टकश्वापदादिभिरभिद्रूयते, नापि काञ्चन दिशं जानाति, तथा आधाकर्मशङ्कया वृक्षच्छायामपि परिहरन् मूर्ध्नि सूर्यकरनिकर-प्रपातेन तप्यमानो मूमिगतम् क्लेशं च महान्तं प्रापेति। इय अविहीपरिहरणा, नाणाइणं न होइ आभागी। दव्वकुलदेसभावे, विहिपरिहरणा इमा तत्थ / / 201 / / इति-एवम् उत्तेन प्रकारेण अविधिना परिहरणात् ज्ञानादीना-माभागी न भवति, तस्माद्विधिना परिहरणा कर्त्तव्या, तच्च-विधिपरिहरणम इदंवक्ष्यमाणं द्रव्यकुलदेशभावनाश्रित्य तत्र- आधाकर्मणि विषय द्रष्टव्यम्। ___ तत्र प्रथमतो द्रव्यादीन्येव गाथाद्वयेनाऽऽ-- ओयणसमिइमसत्तुग-कुम्मासाई उहाँति दव्वाई। बहुजणमप्पजणं वा, कुलं तु देसो सुरहाऽऽई / / 202 / / आयरऽणायरभावे, सयं व अन्नेण वाऽवि दावणया। एएसिं तु पयाणं, चउपयतिपया व भयणा उ / / 203 / / ओदन:- शाल्यादिकूर: समितिमा: माण्डादिका: सक्तवः कुल्माषाश्च प्रतीता: आदिशब्दात्- मुद्रादिपरिग्रह: अमूनि भवन्ति द्रव्याणि, कुलम्अल्पजनं बहुजनं वा देश:-सौराष्ट्रादिक: भावे आदरोऽनादरोवा एतावेव स्वरूपतो व्याख्यानयति-स्वयं वा अन्येन वा कर्मकरादिना यत् दापनं तौ यथासंख्यमादरानादरौ, एतेषां पदानां भजना-विकल्पना चतुष्पदा त्रिपदा वा स्यात्, किमुत्तं भवति?- कदाचिचत्वार्यपि पदानि संभवन्ति कदा-चित्त्रीणि तत्र यदा चत्वार्यपि द्रव्यादीनि प्राप्यन्ते तदा चतुष्पदा, यदा तु आदरो नाप्यनादर: केवलं मध्यस्थवृत्तिता तदा भावस्याऽभावात् त्रिपदेति। संप्रति यादृशेषु द्रव्यादिषु सत्सु पृच्छा कर्तव्या यादृशेषु न कर्त्तव्या तान्याहअणुचिय देसं दव्वं, कुलमप्पं आयरो य तो पुच्छा। बहुएऽविनऽत्थि पुच्छा, सदेसदविए अभावेऽवि।।२०४ / / यदा अनुचितदेशम् - विवक्षितदेशासंभवि द्रव्यं लभ्यते तदपि च प्रभूतं एतच्च 'आयरोय' इत्यत्रचशब्दाल्लभ्यते, एतेन द्रव्यदेशावुक्तौ, कुलमपि च अल्पमल्पजनं अनेन कुलमुक्तम् आदरश्च प्रभूत: एतेन भाव उक्त: ततो भवति पृच्छा, आधाकर्मसंभवात्, बहुकेऽपि च स्वदेशद्रव्ये प्रभूतेऽपि च तद्देश-संभावनि लभ्यमाने द्रव्ये यथा मालवकेमण्डकादौ नास्तिपृच्छा, यत्र हियद्रव्यमुत्पद्यते तत्र तत्प्राय: प्राचुर्येण जनैर्भुज्यत इतिनास्ति तत्र बहुकेऽपिलभ्यमानेपृच्छा, आधाकर्माऽसंभवात्, परंतत्रापि कुलं महदपेक्षणीयम्, अन्यथाऽल्पजने भवेदाधाकर्मेति शङ्का न निवर्तते। तथा-अभावेऽपि-अनादरेऽपि नास्ति पृच्छा, यो ह्याधाकर्म कृत्या दद्यात्स प्राय आदरमपिकुर्यात्, तत आदराऽकरणेन ज्ञायतेयथा नास्ति तत्राऽऽधा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy