SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 262 अमिधानराजेन्द्रः भाग२ आधाकम्म कुलदेसमावेय' इत्यवेन पुन: परिहरणस्य विशेषो वक्तव्य उक्त: उत्तरार्द्धन तु'गहियमदोस' चेत्यस्य विशेषः। सम्प्रति प्रथमं द्वारमाधाकर्मणोऽकल्प्यतालक्षणं व्याचिख्या-सुराहजह वंतं तु अमोज्जं, भत्तं जइ विय सुसक्कयं आसि। एवमसंजमवमणे, अणेसणिज्जं अभोज्जंतु / / 191 / / इह यद्यपि वमनकालादर्वाक भक्तम्-ओदनादिकं सुसंस्कृतंशोभनद्रव्यसंपर्कतोपस्कारमासीत् तथापि यथा तद्वान्तम-भोज्यम्, एवमसंयमवमने कृते साधोरप्यनेषणीयम- भोज्यमेव, तुरेवकारार्थः, इयमत्र भावनासंयमप्रतिपत्तौ हि पूर्वमसंयमो वान्त:- असंयमरूपं चाधाकर्म, षट्कायोपमद्देनेनतस्य निष्पन्न-त्वात् नच वान्तमभ्यवहर्तुमुचितं विवेकिनाम्, अत: साधोरनेष-णीयमभोज्यमिति। पुनरप्याधाकर्मण एवाऽभोज्यतां दृष्टान्तान्तरेण समर्थयमानो गाथाद्वयमाहमज्जारखइयमंसा, मंसासित्थि कुणिमं सुरायवंतं / वन्नाई अन्नउप्पा- इयं पि किं तं भवे भोज्ज? ||192 / / केई भणंति पहिए, उट्ठाणे मंसपेसि वोसिरणं / संभारिय परिवेसण, वारेइ सुओ करे घेत्तुं / / 193 / / वक्रपुरं नाम पुरं, तत्र वसत्युठातेजा: पदाति: तस्य भार्या रुक्मिणी, अन्यदा च उठातेजसो ज्येष्ठभ्राता सोदासाभिधनः प्रत्यासन्नपुरात्प्राघूर्णक: समाययौ, उठातेजस्सा च भोजनाय क्वाऽपि मासं क्रीत्वा रुक्मिण्यै समर्पयामासे, तस्याश्च रुक्मिण्या गृहव्यापारव्यापृताया: तन्मांसं मार्जारोऽबभक्षत् / इतश्च सोदासोठातेजसो जनार्थमागमवेल / ततः सा व्याकुलीबभूव / अत्रान्तरे च क्वापि कस्याऽपि मृतस्य कार्पटिकस्य शुना मासं भक्षयित्वा तद्ग्रहप्राङ्गणप्रदेशे तस्याः साक्षात्पश्यन्त्याः पुरत: कथमपि वातसंक्षोभादिवशादुद्वमितम् / तत: साऽचिन्तयत्-यदि नाम कुतोऽपि विपणेरन्यन् मांसं क्रीत्वा समानयिष्यामि तर्हि महदुत्सूरं लगिष्यति, प्राप्ता च समीप पतिज्येष्ठयोर्भोजनवेला, तस्मादेतदेव मांसं जलेन सम्यक् प्रक्षाल्य वेसवारेणोपस्करोमि, तथैव च कृतम् / समागतौ सोदासोठातेजसौ उपविष्टौ च भोजनार्थ, परिवेषितं तयोस्तन्मांसम्, ततो गन्धविशेषेणोठातेजसा विजज्ञे यथा वान्तमेतदिति, ततस्तेन साक्षेप भ्रुवमुत्पाळ रुक्मिणी पप्रच्छे सा च साटोपभूतक्षेपदर्शनतो विभ्यती पवनधुतवृक्षशाखेव कम्पमा- नवपुर्यथाऽवस्थितं कथितवती, तत: परित्यज्य तन्मांसं साक्षेपं निर्भय भूयोऽन्यन्मांसं पाचिता तद्भुक्तम्। प्रथम- गाथाक्षरयोजना त्वेवम्-माज्जरिण खादितं-भक्षितं मांसं यस्याः सा माज्जरिखादितमांसा मांसाशिन उठातेजसः स्त्रीमहेला अन्यन्मांसमप्राप्नुवती श्ववान्तं कुणामांसं गृहीतवती, तच्च वेसवारोपस्कारेण वर्णादिभिरन्यदिवोत्पादितमपि किं भवति भोज्यं?; नैव भवतीति भावः, एवमाधाकर्माऽपि संयमिनामभोज्यम् / / केचित्पुनरत्रैव कथानकेएवमाहुः-तस्या रुक्मिण्या गृहे कोऽप्यतीसारेण 'पीडितो "दुषप्रभनामा'' कार्पटिक: किंचित विवित्तं स्थानं याचित्वा | स्थितवान्, स चातीसारेण मांसखण्डानि व्युत्सृजति, तत: सौदासे प्राघूर्णकेसमागते सति भ; च समानीते मांसे माज्जरिण च तस्मिन् भक्षिते रुक्मिणी प्रत्यासन्ना समागता भोजनवेलेति भयभीता अन्यन्मांसमप्राप्नुवती तान्येवातीसार-व्युतत्सृष्टानि मांस-खण्डानि गृहीत्वा जलेन प्रक्षाल्य वेसवारेण चोपस्कृत्य भोजनायोपविष्टयो: पतिज्येष्ठयो; पतिवेषितवती, अथ च सा तानि मांसखण्डानि गहन्ती मृतसपत्नीपुत्रेणोठातेजसो जातेन गुणमित्रेण दहशे, न च तदानीं तेन किमपि भयाद्वक्तुं शक्तं, ततो भोजनकाले तौ द्वावपि पितृ-पितृव्यौ तेन करे गृहीत्वा निवारितो, यथा कापटिकातीसारसक्तान्यभूनि मांसखण्डानि तन्मा यूयं विभक्षत, तत उठातेजसा सा दूरं निर्भर्त्सयामासे, तत्यजे च तन्मासम्, द्वितीयगाथाक्षरयोजना त्वेवं केचिद्भणन्ति- पथिके- पथिकस्य 'उहाणे' अतीसारोत्थाने मांसपेशीव्युत्सर्जनं ततस्तन्मांसपेशीरादाय तासां संभृत्यवेसवारेणोपस्कृत्य परिवेषणे कृते सुत: करेण गृहीत्वा तौ पितृ-पितृव्यौ भोजनाय वारयति स्म, ततो यथापुरीषमांसमभोज्यं विवेकिनामेवमाधाकर्माऽपि साधूनामिति। किंचअविलाकरहीखीर, ल्हसण पलंडू सुरा य गोमंसं / वेयसमए वि अमयं, किंचि अभोज्ज अपेज्जं च / / 194 / / अविला-ऊरणी करभी-उष्ट्री तयोः क्षीरं, तथा लशुनम्पलाण्डु सुरा गोमांसंच वेदे यथायोगं शेषेषुचसमयेधुनिर्द्धर्मप्रणीतेषु अमतम् - असम्मतं भोजने पाने च, तथा जिनशासनेऽपि किंचिदाधाकर्मिकादिरूपमभोज्यमपेयं च वेदितव्यम् / इयमत्र भावना-पूर्वमिह संयमप्रतिपत्तावंसयम- वमनेनाधाकर्मापि साधुभिर्वान्त, पुरीषमिवोत्सृष्टं वा, नच वान्त पुरीषं वा भोक्तुमुचितं विवे किनामिति युक्तिवशादभोज्यमुक्तमाधाकर्म। अथवा-मा भूत युक्तिः, केवलं वचन- प्रामाण्यादभोज्यमवसेयं, तथाच मिथ्यादृष्ट योऽपि वेदेषु यथायोगमन्येष्वपि समयेषु गोमांसादिकं करभीक्षीरादिकं चाभोज्यमपेयं चाभिधीयमानं वचनप्रमाण्या- भ्युपगमतस्तथेति प्रतिपद्यन्ते। तद्यदि मिथ्यादृष्टयोऽपि स्व-समयवचनप्रामाण्याभ्युपगमतस्तथेति प्रतिपन्नास्तत: साधुमिर्भगवति सर्वज्ञे प्रत्ययदायमवलम्बमानैर्विशेषतो भगवत्प्रणीते वचस्यभिधी- यमानमाधाकर्मादिकमभोज्यमपेयं च तथेति प्रतिपत्तव्यम्। संप्रति तत्स्पृष्टस्याऽकल्प्यतामाहवन्नाइजुयावि बली, सपललफलसेहरा असुइनत्था। असुइस्स विप्पुसेण वि,जह छिक्काओ अभोज्जाओ।।१९५ / / यथा वर्णादियुतोऽपि बलि: उपहार: सपललफल-शेखर: इह पललंतिलक्षोद उच्यते फलं-नालिकेरादि तत्सहित:- शेखर:- शिखा यस्य स तथा, आस्तामनेवंविध इत्यपि-शब्दार्थ: एतेनास्य प्राधान्यमुत्त, स एवंविधोऽपि यदा अशुचौ न्यस्त:- पुरीषस्योपरि स्थापित: सन् अशुचे: वि-पुषापि लवेनापि, आस्तां स्तबकादिनेत्यपिशब्दार्थः, स्पृष्टो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy