________________ आधाकम्म 261 अभिधानराजेन्द्रः भाग 2 आधाकम्म अनवस्थादोषं भावयतिएक्केण कयमकज्जं, करेइ तप्पचया पुणो अन्नो। सायाबहुलपरंपर-वोच्छेओ संयमतवाणं // 185 / / इह प्राय: सर्वेऽपि प्राणिन: कर्मगुरुतया हष्टमात्रसुखाभि- लाषिणो न दीर्घसुखदर्शिनस्तत एवेनापि साधुना यदाधा-कर्मपरिभोगादिलक्षणमकार्यमासेव्यते तदा तत्प्रत्ययात् तेनापि साधुना तत्त्वं विदुषापि सेवितमाधाकर्म ततो वयमपि किं न सेविष्यामहे इत्येवं तमालम्बनीकृत्यान्योऽप्यासेवते, तमप्या- लम्ब्याऽन्यः सेवते इत्येवं सातबहुलानां प्राणिनां परंपरया सर्वथा व्यवच्छेद: प्राप्नोति संयमतपसाम, तद्व्यवच्छेदेचतीर्थव्यवच्छेदः, यश्चभगवत्तीर्थविलोपकारी स महाऽऽशातना-भागित्यनवस्था- दोषभयान्न कदाचनाऽप्याधाकर्म सेवनीयम्। मिथ्यात्वदोषं भावयतिजो जहवायं न कुणइ, मिच्छडिट्ठी तओ हु को अन्नो। वड्लेइ य मिच्छत्तं, परस्स संकं जणेमाणो // 186 / / इह यद्देशकालसंहननानुरूपं यथाशक्तियथावदनुष्ठानं तत्सम्यक्त्वम्, यत उक्तमाचारसूत्रे- "जंमोणंति पासहा, तं सम्मति पासहा, जं सम्मति पासहा, तं मोणंति पासहा" इति / ततो यो देशकालसंहननानुरूपं शक्त्यनिगृहनेन यथाऽऽ- गमेऽभिहितं तथा न करोति तत: सकाशात् कोऽन्यो मिथ्याहष्टिः? नैव कश्चित्, किंतु-स एवं मिथ्यादृष्टीनां धुरि युज्यते, महामिथ्यादृष्टित्वात्, कथं तस्य मिथ्यादृष्टिता? इत्यत आह'वड्वेइय' इत्यादिचशब्दो हेतौ यस्मात्सयथावादमकुर्वन् परस्य शङ्का जनयति, यथा (तथाहि) यदि यत्प्रवचने अभिधीयते तत्त्वंतर्हि किमयं तत्त्वं जानानोऽपि तथा न करोति ? तस्माद् वितथमेतत् प्रवचनोक्तमिति, एवं च परस्य शङ्कां जनयन् मिथ्यात्वं सन्तानेन वर्द्धयति / तथा च प्रवचनस्य व्यवच्छेद: शेषास्तु मिथ्यादृष्टयो नैवं प्रवचनस्य मालिन्यमापाद्य परंपरया व्यवच्छेदमाधातुमीशाः, तत: शेषमिथ्यादृष्ट्यपेक्षयाऽसौ यथावा- दमकुर्वन् महा-मिथ्यादृष्टिरिति। अन्यचबड्डइ तप्पसंगं, गेही अपरस्स अप्पणो चेव। सजियं पि भिन्नदाढो, न मुयइ निद्धंधसो पच्छा ||187 / / साधुराधाकर्म गृह्णान: परस्य 'एक्केण कयमकज्ज'' इत्या-दिरूपया पूर्वोक्तनीत्या 'तत्प्रसङ्गम्'- आधाकर्मग्रहणप्रङ्गं वर्द्धयति आत्मनोऽपि तथाहि-सकृदपि चेदाधाकर्म गृह्णाति तर्हि तद्गतमनोज्ञरसास्वादलाम्पटयतो भूयोऽपि तद्ग्रहणे प्रवर्तते, तत एवमेकदाप्याधाकर्म गृह्णन्, परस्य आत्मनश्च तत्प्रसङ्गं वर्द्धयति, तत्प्रसङ्गवृद्धौ च कालेन गच्छता परस्य आत्मनश्च गृद्धि:- अत्यन्तमाशक्तिरूपजायते, ततो विशिष्टविशिष्टतरमनोज्ञर- सास्वादनेन भिन्नदंष्ट्राको 'निद्धंधस: अपगतसर्वथादयावासनाको भूत्वा पश्चात् स्वयं परो वा सजीवमपिसचेतनमपि चूतफलादिकं न मुञ्चति तदमोचने च दूर दूरतरमपसर्पन् अपगतसर्वथा- जिनवचनपरिणामो मिथ्यात्वमपि गच्छतीति। संप्रति विराधनादोषं भावयतिखद्ध निद्धे य सया, सुत्ते हाणी तिगिच्छणे काया। पडियरगाण वि हाणी, कुणइ किलेसं किलिस्संतो / / 188 / / आधाकर्म प्राय: प्राधूर्णकस्यैव गौरवेण क्रियते, ततस्तत्स्वादु स्निग्धं भवति, तस्मिंश्च खद्धे-प्रचुरे स्निधे बहुस्नेहे भक्षिते रुजा-रोगो ज्वरविसूचिकादिरूपः प्रादुर्भवति, इयमात्मा- विराधना, ततो रुजा पीडितस्य 'सूत्रे'- सूत्रग्रहणमुपलक्षणम् अर्थस्य च हानि: तथा यदि चिकित्सां न कारयति तर्हि चिर-कालसंयमपरिपालनभ्रंश: अथ कारयति तर्हि चिकित्सायां क्रियमाणायां काया:- तजेस्कायादयो विनाशमाविशन्ति, तथा च सति संयमविराधना, तथा प्रतिचारकाणामपि-परि-पालकानामपि साधूनां तद्वैयावृत्त्यव्याप्ततया सूत्रार्थहानि: षट्कायोपमर्द- कारणानुमोदनाभ्यां च संयमस्यापि हानि: तथा प्रतिचारकास्तदुत्तं यावन प्रपारयन्ति तावत्स: क्लिश्यमान: पीडां सोढुमशक्नुवन् तेभ्यः कुप्यति, कुप्यंश्च तेषामपि मनसि क्लेशमुत्पादयति, अथ वा-क्लिश्यमानो दीर्घकालं क्लेशमनुभवन् प्रतिचारकारणामपि जागरणत: क्लेशम्-रोगमुत्पादयति तत-स्तेषामपि चिकित्साविधौ षट्कायविराधना / तदेवं व्याख्याता सकलापि 'आहाकम्मियनाम' इत्यादिका मूलगाथा। (20) संप्रत्याधाकर्मण एवाऽकल्प्यविधि बिभणिषुः सम्बन्ध-माहजह कम्मं तु अकप्पं, तच्छिक्कं वाऽवि भायणठियं वा। परिहरणं तस्सेव य, गहियमदोसंच तह भणइ / / 18 / / यथा कर्म-आधाकर्म अकल्प्यम्-अभोज्यं, यथा च तेनाऽऽधाकर्मणा स्पृष्टमकल्प्यं यथा च भाजनस्थितं- यस्मिन् भाजने तदाधाकर्म प्रक्षिप्तस्मिन्नाधाकर्मपरित्यागानन्तरमकृतकल्पत्रप्रक्षालने यत् क्षिप्तं शुद्धमशनादि तदपि यथा न कल्प्यं यथा च तस्याऽऽधाकर्मण: परिहारो विध्यविधिरूपो यथा च गृहीतं सद्भक्तमदोष भवति तथा गुरुर्भणति / अनेन यथैवागमे पिण्डविशुद्धिरभाणि तथैवाऽहमपि भणामीत्यावेदितं द्रष्टव्यम्, अनया च गाथया पञ्चद्वाराणि प्रतिपाद्यान्युक्तानि संप्रति तान्येव शेषं प्रतिपाद्यत्वेनाहअब्भुज्जे गमणाइ य, पुच्छा दय्वकुलदेसभावे य। एवं जयंते छलणा, दिलुता तत्थिमे दोन्नि / / 190 // यथा साधूनामाधाकर्म तत्स्पृष्टं कल्पत्रयाप्रक्षालितभाज- नस्थं वा अभोज्यं तथा भणनीयं, तथा अविधिपरिहारे गमनादिका: कायक्लेशादिलक्षणा दोषा वक्तव्या: तथा विधिपरिहारे कर्तव्ये यथा द्रव्यकुलदेशभावे पृच्छा कर्तव्या चशब्दाद्-यथा च न कर्तव्या तथा वक्तव्यम्,एवं यतमाने प्रायश्छलनाया असम्भवो, यदि पुनरेवमपि यतमाने छलनाअशुद्धभक्तादिग्रहणरूपा भवेत् तत-स्तत्र दृष्टान्ताविमौ वक्ष्यमाणौ वक्तव्यौ। इह 'अब्भुज्जे इत्यनेन पूर्वगाथायाद्वारत्रयं परामृष्टम्, 'गमणाइयपुच्छ दव्य